सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पञ्चदशः सर्गः ५१७

पञ्चदशः सर्गः ५१७

गायक तब उसमें रह ही क्या जाता था ? जिसे सुनकर लोग लट्टू न हो जायें । अर्थात् उसके मधुर गान को सुनकर लोग मुग्ध हो गये ॥ ६४ ॥

रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ ६५ ॥

अन्वयः—तज्ज्ञैः निवेदितं तयोः रूपे गीते च माधुर्यं सानुजः रामः कुतूहली (सन्) ददर्श शुश्राव च ।

रूप इति । ते जानन्तीति तज्ज्ञाः तैस्तज्ज्ञैरभिज्ञैर्निवेदितं तयोः कुशलवयो रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामः कुतूहली सानन्द सन् यथासंख्यं ददर्श शुश्राव च ।

भाषार्थ—यह बात राम के कानों तक पहुँची, उन्होंने बालकों को अपने पास बुला भेजा और अपने भाइयों के साथ उन दोनों बालकों के रूप और गीत की मधुरता को आश्चर्य के साथ देखा और सुना ॥ ६५ ॥

तद्गीतश्रवणैकाग्रा संसद्श्रुमुखी बभौ ।
हिमनिष्यन्दिनी प्रातर्निवातेव वनस्थली ॥ ६६ ॥

अन्वयः—तद्गीतश्रवणैकाग्रा अश्रुमुखी संसद् प्रातः हिमनिष्यन्दिनी निर्वाता वनस्थली इव बभौ ।

तदिति । तयोर्गीतश्रवण एकाग्रसक्ताऽश्रुमुखी आनन्दादिति भावः । संसद्सभा प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव बभौ शुशुभे । आनन्दपारवश्यान्निष्पन्दमास्त इत्यर्थः ।

भाषार्थ—सारी सभा मौन होकर उनका गीत सुनती जा रही थी और सीता के स्मरण से आंखों से आंसू बहाती जा रही थी । उस समय वह सभा प्रातःकाल की उस वनस्थली के समान दिखाई देने लगी, जिसमें वृक्षों से टप-टप ओस की बूंदें गिर रही हों ॥ ६६ ॥

वयोवेषविसम्वादि रामस्य च तयोस्तदा ।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ॥ ६७ ॥

अन्वयः—जनता वयोवेषविसंवादि तदा तयोः रामस्य च सादृश्यं प्रेक्ष्य नाक्षिकम्पं व्यतिष्ठत ।

वय इति । जनता जनानां समूहः । “ग्रामजनबन्धुसहायेभ्यस्तल्” इति । तल्प्रत्ययः । वयोवेषाभ्यामेव विसम्वादि विलक्षणं तदा तयोः कुशलवयो रामस्य च सादृश्यं प्रेक्ष्य नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा । नञर्थस्य नशब्दस्य

५१८ | रघुवंशमहाकाव्ये

बहुव्रीहिः। व्यतिष्ठतातिष्ठत्। “समवप्रविभ्यः स्थ” इत्यात्मनेपदम् । विस्मयाद-
निमिषमद्राक्षीदित्यर्थः ।

भाषार्थ—जनता उस समय राम और उन दोनों बालकों का एकदम मिलता हुआ रूप एकटक होकर देखती रह गई जिनमें अन्तर इतना ही था कि वे दोनों अभी कुमार थे तथा वनवासियों के वस्त्र पहने हुए थे और राम प्रौढ़ थे तथा राजसी कपड़े पहने हुए थे ॥ ६७ ॥

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ ६८ ॥

अन्वयः—लोकः उभयोः प्रावीण्येन तथा न विसिष्मिये, यथा नृपतेः प्रतिदानेषु वीतस्पृहतया ( विसिष्म्ये ) ।

उभयोरिति । लोको जन उभयोः कुमारयोः प्रावीण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया निःस्पृहेण विसिष्मिये ।

भाषार्थ—जनता को इनके गाने का कौशल देखकर उतना आश्चर्य नहीं हुआ जितना इस बात पर हुआ कि राम ने प्रेम से उन्हें जो दान दिया वह उन्होंने लौटा दिया ॥ ६८ ॥

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ ६९ ॥

अन्वयः—गेये कः नु वां विनेता इयं च कस्य कवेः कृतिः इति राज्ञा स्वयं पृष्ठौ तौ वाल्मीकिम् अशंसताम् ।

गेय इति । गेये गीते को नु वां युवयोर्विनेता शिक्षकः । नुशब्दः प्रश्ने । ‘नु पृच्छायां वितर्के च’ इत्यमरः । इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ । विनेतारं कविं चेत्यर्थः 'गेये केन विनीतौ वाम्' इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः—केन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ । कर्मणि निष्ठाप्रत्ययः ।

भाषार्थ—जब राम ने उनसे पूछा कि आप लोगों को किसने संगीत सिखाया है ? और यह किस कवि की रचना है ? तब उन्होंने वाल्मीकि मुनि को बता दिया ॥ ६९ ॥

अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
उरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ ७० ॥

पञ्चदशः सर्गः ५१९

अन्वयः—सावरजः रामः प्राचेतसम् उपेयिवान् देहम् ऊरीकृत्य आत्मनः राज्यम् अस्मै न्यवेदयत् ।

अथेति । अथ सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान्प्राप्तः सन् देहमा-त्मानम् ऊरीकृत्य आत्मानं स्थापयित्वेत्यर्थः । राज्यमस्मै प्राचेतसाय न्यवेदय-त्समर्पितवान् ।

भाषार्थ—इसके बाद अपने छोटे भाइयों के साथ राम ने वाल्मीकि मुनि के पास जाकर अपने को छोड़कर शेष सम्पूर्ण राज्य उनको समर्पित कर दिया ॥ ७० ॥


स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः सम्परिग्रहम् ॥ ७१ ॥

अन्वयः—कारुणिकः स कविः रामाय तौ मैथिलेयौ तदात्मजौ आख्याय सीतायाः सम्परिग्रहम् वव्रे ।

स इति । करुणा ऽप्रयोजनमस्य कारुणिको दयालुः । “प्रयोजनम्” इति ठञ् । ‘स्याद्दयालुः कारुणिकः’ इत्यमरः । स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः सम्परिग्रहं स्वीकारं वव्रे ययाचे ।

भाषार्थ—दयालु आदिकवि वाल्मीकि मुनि ने रामचन्द्रजी से कहा कि ये दोनों कुमार सीताजी के गर्भ से उत्पन्न हुए हैं और आपके पुत्र हैं अब आपको चाहिए कि सीताको स्वीकार कर लें ॥ ७१ ॥


तात ! शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ ७२ ॥

अन्वयः—हे तात ! ते स्नुषा नः समक्षं जातवेदसि शुद्धा (किन्तु) राक्षसः दौरात्म्यात् अत्रत्यः प्रजाः तां न श्रद्दधुः ।

तातेति । हे तात ! ते स्नुषा सीता नोऽस्माकमक्ष्णोः समीपं समक्षम् । “अव्य-यीभावे शरत्प्रभृतिभ्यः” इति समासान्तष्टच् । जातवेदसि वह्नौ शुद्धा, नास्माक-मविश्वास इत्यर्थः । किन्तु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्दधुर्न विशश्वसुः ।

भाषार्थ—रामजी ने कहा कि हे तात ! आपकी पुत्रवधू हमारे सामने अग्नि में शुद्ध हो चुकी है इसलिए हमें इस पर अविश्वास नहीं है; परन्तु रावण की दुष्टता का विचार करके यहाँ की प्रजा को विश्वास नहीं होता ॥ ७२ ॥


ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥ ७३ ॥

५२० | रघुवंशमहाकाव्ये

अन्वयः—मैथिली स्वचारित्रमुद्दिश्य ताः प्रत्याययतु ततः पुत्रवतीम् एनां त्वदाज्ञया प्रतिपत्स्ये ।

ता इति । मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु । विश्वासस्य बुद्धिरूपत्वात् । "णौ गमिरबोधने" इति णिणौ गम्यादेशो नास्ति । ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ।

भाषार्थ—इसलिए सीता यदि अपने चरित्र की शुद्धता का प्रमाण देकर प्रजा को विश्वास दिलावें, तब मैं आपकी आज्ञा से पुत्रों के सहित उन्हें स्वीकार कर लूंगा ॥ ७३ ॥

इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ ७४ ॥

अन्वयः—राज्ञा इति प्रतिश्रुते मुनिः आश्रमात् जानकीं शिष्यैः स्वसिद्धिं नियमैः इव आनाययामास ।

इतीति । राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकीं शिष्यैः प्रयो ज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव आनाययामास ।

भाषार्थ—राम की ऐसी प्रतिज्ञा सुनकर वाल्मीकि मुनि ने शिष्यों को भेजकर आश्रम से सीता जी को इस प्रकार बुलवाया, मानो वे नियमों के द्वारा अपनी सिद्धि बुला रहे हों ॥ ७४ ॥

अन्येद्युरथ काकुत्स्थः सन्निपात्य पुरौकसः ।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ ७५ ॥

अन्वयः—अथ काकुत्स्थः अन्येद्युः प्रस्तुतप्रतिपत्तये पुरौकसः सन्निपात्य कविम् आह्वययामास ।

अन्येद्युरिति । अथ काकुत्स्थो रामः अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसन्धानाय पुरौकसः पौरान् संनिपात्य मेलयित्वा कविं वाल्मीकिमाह्वाययामासाकारयामास ।

भाषार्थ—इसके बाद राम ने दूसरे दिन इस उपस्थित कार्य के लिए पुरवासी प्रजाओं को इकट्ठा करके वाल्मीकि मुनि को बुलवाया ॥ ७५ ॥

स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ ७६ ॥

अन्वयः—अथ स्वरसंस्कारवत्या ऋचा उदर्चिषं सूर्यम् इव सीतया (उदर्चिषं) रामम् असौ मुनिः उपस्थितः ।