सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

सप्तमः सर्ग २१७

सप्तमः सर्ग २१७

**अन्वयः—**अधिश्रीः भोजकुलप्रदीपः सः राजा इति स्वसुः पाणिग्रहणं सम्पाद्य, महीपतीनां पृथक् अर्हणार्थं अधिकृतान् समादिदेश।

इतीति। अधिश्रीः अधिगता प्राप्ता श्रीः संपत्तिः येन सः अधिकसंपन्नो भोजकुलप्रदीपः स राजा इति स्वसुरिन्दुमत्यः पाणिग्रहणं विवाहं संपाद्य कारयित्वा महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं पूजार्थमधिकृतानधिकारिणः समादिदेशा-ज्ञापयामास।

**भाषार्थ—**इस प्रकार सम्पत्तिशाली भोज वंश के दीपक राजा ने अपनी बहन इन्दुमती का विवाह संस्कार समाप्त करके दूसरे राजाओं को पृथक्-पृथक् आदर सत्कार करने के लिए अपने अधिकारियों को आदेश दिया ॥ २९ ॥

लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाच्छलेन ॥ ३० ॥

**अन्वयः—**मुदः लिङ्गैः संवृतक्रियाः ते गूढनक्राः प्रसन्नाः ह्रदाः इव आमन्त्र्य तदीयां पूजां उपदाच्छलेन प्रत्यर्प्य ययुः।

लिङ्गैरिति। मुदः संतोषस्य लिङ्गैश्चिह्नः कपटहासादिभिः संवृतविक्रिया निगूहितमत्सराः अत एव प्रसन्नावहिर्निर्मला गूढनक्रा अन्तर्लीनग्राहा ह्रदा इव स्थितास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छद्य तदीयां वैदर्भीयां पूजामुपदाच्छलेनोपा-यनभिषेण प्रत्यर्प्य ययुर्गंतवन्तः।

**भाषार्थ—**जिस प्रकार भयंकर जल जन्तुओं से युक्त होते हुए भी गंभीर सरोवर ऊपर से स्वच्छ जलवाले मालूम पड़ते हैं उसी तरह अन्दर द्वेष रखने वाले राजालोग अपने हृद्गत द्वेष हँसी आदि के कपट को छिपाकर बाहरी प्रसन्नता व्यक्त करते थे। वे सभी विदर्भ राज से आज्ञा लेकर और उनकी दी हुई सामग्री को भेंट के व्याज से पुनः उन्हें लौटाकर बिदा हुए ॥ ३० ॥

स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम्।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥ ३१ ॥

**अन्वयः—**आरम्भसिद्धौ कृतपूर्वसंवित् सः राजलोकः समयोपलभ्यं तत् प्रमदामिषं आदास्यमानः (सन्) अजस्य पन्थानं आवृत्य तस्थौ।

स इति। आरम्भसिद्धौ कार्यसिद्धौ विषये पूर्वं कृता कृतपूर्वा। सुप्सेपेति समासः कृतपूर्वा संवित्संकेतो मार्गविरोधरूप उपायो स तथोक्तः। 'संविद्युद्धे प्रति-ज्ञायां संकेताचारनामसु' इति केशवः। स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम् तदा,तस्यैकाकित्वादिति भावः। 'समरोपलब्धम्' इतिपाठे युद्धसाध्यमित्यर्थः

२१० रघुवंशमहाकाव्ये

तत्प्रमदैवामिषं भोग्यवस्तु 'आमिषं त्वस्त्रियां मांसे तथा स्याद्द्रोग्यवस्तुनि' इति केशवः । आदास्यमानो ग्रहीष्यमाणः सन्नजस्य पन्थानमावृत्यावरुध्य तस्थौ ।

भाषार्थ—उन राजाओं ने मिलकर पहले ही निश्चय कर लिया था कि जब अज इन्दुमती को लेकर चलें तब उन्हें घेर लिया जाय और उनसे इन्दुमती को छीन लिया जाय, इसलिए वे अज का मार्ग रोककर बीच में ही रुक गये थे ॥ ३१ ॥

भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ३२ ॥

**अन्वयः—**अनुष्ठितानन्तरजाविवाहः क्रथकैशिकानां भर्ता अपि तावत् सत्त्वा-नुरूपाऽऽहरणीकृतश्रीः ( सन् ) राघवं प्रस्थापयत् ( स्वयम् ) अन्वगात् च ।

भर्तेति । अनुष्ठितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत्तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा आ समन्तात् अनेनानियतवस्तुदानमित्यर्थः । हरणं कन्यायै देयं धनम् । तदेवाह कात्यायनः—'ऊढया कन्यया वापि पत्युः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धसौदायिकं स्मृतम् ।' 'यौतुकादि तु तद्देयं सुदायो हरणं च तत्' इत्यमरः । आहरणीकृता श्रीर्येन तथोक्तः सन् राघबमजं प्रस्थापयत्प्रस्थापित-वान्स्वयमन्वगादनुजगाम च ।

**भाषार्थ—**अपनी छोटी बहन इन्दुमती का विवाह कर देने के बाद विदर्भ नरेश भोज ने अपनी सम्पत्ति के अनुसार दहेज देकर अज को विदा किया और वे स्वयं पहुँचाने के लिए उनके पीछे-पीछे चले ॥ ३२ ॥

तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ ३३ ॥

**अन्वयः—**कुण्डिनेशः मार्गे त्रिलोकप्रथितेन अजेन सार्द्धं तिस्रः वसतीः उषित्वा पर्वात्यये उष्णरश्मेः सोमः इव तस्मात् अपावर्तत ।

तिस्र इति । कुण्डिनं विदर्भनगरं तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गे पथि तिस्रो वसती रात्रीरुषित्वा स्थिता 'वसती रात्रिवेश्मनोः' इत्य-मरः । "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । पर्वात्यये दर्शान्ते उष्णरश्मेः सूर्यात्सोमश्चन्द्र इव तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ।

भाषार्थ—( यह ज्योतिष शास्त्र का सिद्धान्त है कि सूर्य और चन्द्रमा अमा-वास्या के दिन एक साथ रहते हैं और बाद चन्द्रमा सूर्य से अलग हो जाते हैं )

सप्तमः सर्गः | २१६


जिस प्रकार अमावस्या के अन्त में सूर्य के पास से चन्द्रमा लौट जाते हैं उसी प्रकार तीनों लोक में प्रसिद्ध अज के साथ मार्ग में तीन रात बिताकर विदर्भ नरेश भोज लौट गये ॥ ३३ ॥

प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥ ३४ ॥

अन्वयः— नृपाः प्राक् अपि आत्तस्वतया कोसलेन्द्रे प्रमन्यवः बभूवुः, अतः समेताः (सन्तः) तदात्मजस्य स्त्रीरत्नलाभं न चक्षमिरे ।

प्रमन्यव इति । नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः । अतो हेतोः स्वयंवरार्थं समेताः सङ्गताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ।

भाषार्थ— रघु ने अपने दिग्विजय के समय सभी राजाओं का धन छीन लिया था इसलिए वे सब उनके पहले से ही विरोधी हो चुके थे । इस कारण स्वयंवर में एकत्र सम्मिलित हुए वे सभी राजे इस समय रघु के पुत्र अज का स्त्रीरत्नलाभ सहन नहीं कर सके ॥ ३४ ॥

तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टं श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ३५ ॥

अन्वयः— दृप्तः सः राजन्यगणः भोजकन्याम् उद्वहन्तं तं बलिप्रदिष्टां श्रियम् आददानं त्रैविक्रमे पादम् इन्द्रशत्रुः इव पथि रुरोध ।

तमिति । दृप्त उद्धतः स राजन्यगणो राजसङ्घातः भोजकन्यामुद्वहन्तं नयन्तं तमजं बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुर्वाणं त्रिविक्रमस्येमं त्रैविक्रमं पादमिन्द्रशत्रुः प्रह्लाद इव पथि रुरोध । तथा च ब्रह्माण्डपुराणे— ( विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन् । विष्णोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह । ) इति ॥

भाषार्थ— जिस प्रकार बलि द्वारा दी गई लक्ष्मी को ग्रहण करते समय इन्द्रशत्रु प्रह्लाद ने वामन के चरण को बीच में ही रोक लिया था उसी प्रकार इन्दुमती को ले जाते हुए अज को उस उद्धत राजसमूह ने रास्ते में रोक लिया ।

तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः ॥ ३६ ॥

अन्वयः — सः कुमारः तस्याः रक्षार्थम् अनल्पयोधं पित्र्यं सचिवम् आदिश्य उत्तरङ्गः शोणः भागीरथीम् इव, तां पार्थिववाहिनीम् प्रत्यग्रहीत् ।

२२० रघुवंशमहाकाव्ये

तस्या इति। स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहुभटं पितु-
रागतः पित्र्यम् आप्तमित्यर्थः। सचिवमादिश्याज्ञाप्य तां पार्थिववाहिनीं राज-
सेनाम्। 'ध्वजिनी वाहिनी सेना' इत्यमरः। भागीरथीमुत्तरङ्गः शोणः शोणा-
ख्यो नद इव प्रत्यग्रहीदभियुक्तवान्।

**भाषार्थ—**वह अज इन्दुमती की रक्षा के लिए बहुत से योद्धाओं के साथ पिता के समय से ही वर्तमान विश्वासपात्र मन्त्री को नियुक्त कर स्वयं उस सेना को रोककर उसी प्रकार खड़े हो गये, जिस प्रकार बाढ़ के समय विशाल तरङ्गों वाला सोनभद्र गंगाजी की धारा को रोक देता है ॥ ३६ ॥

पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ३७ ॥

**अन्वयः—**पत्तिः पदातिं रथेशः रथिनं तुरङ्गसादी तुरगाधिरूढं गजस्य यन्ता गजस्थम् अभ्यपतत् इत्थं तुल्यप्रतिद्वन्द्वि युद्धम् बभूव।

पत्तिरिति। पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत् पदा पादाभ्या-
मततीति पदातिः। "पादस्य पदाज्यातिगोपहितेषु" इत्यनेन पदादेशः। 'पदाति-
पत्तिपदगपादातिकपदाजयः' इत्यमरः। रथेशो रथिको रथिनं रथारोहम-
भ्यपतत् तुरङ्गसाद्यश्वारोहस्तुरङ्गाधिरूढमश्वारोहमभ्यपतत्। 'रथिनः स्यन्दना-
रोहा अश्वारोहास्तु सादिनः' इत्यमरः। गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुष-
मभ्यपतत्। इत्यनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव।
अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः 'द्वन्द्वं कलहयुग्मयोः'
इत्यमरः।

**भाषार्थ—**दोनों दलों में युद्ध शुरू हो गया पैदल पैदलों से भिड़ गये, रथ वाले रथ वालों से जूझ गये, घुड़सवार घुड़सवारों से उलझ पड़े, हाथी सवार हाथी सवारों पर टूट पड़े, इस प्रकार दोनों दलों में बराबर जोर का युद्ध होने लग गया ॥ ३७ ॥

नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान्।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ३८ ॥

**अन्वयः—**तूर्येषु नदत्सु सत्सु अविभाव्यवाचः चापभृतः कुलोपदेशान् न, उदीरयन्ति स्म, परस्परस्य ऊर्जितम् नाम बाणाक्षरैः एव शशंसुः।

नदत्स्विति। तूर्येषु नदत्सु सत्स्वविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोच्चा-

सप्तमः सर्गः
२२१

रयामासुः । १श्रोतुमशक्यत्वाद्वाचो नाभ्रुवन्नित्यर्थः । किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योजितं प्रख्यातं नाम शशंसुरुचुः ।

भाषार्थ—वहां इतना जोर से रणदुन्दुभि बज रही थी कि स्पष्ट कुछ भी सुनाई नहीं पड़ता था इसलिए धनुर्धारी योद्धा अपना कुल और नाम भी नहीं पुकारते थे किन्तु वे जो बाण चला रहे थे उन पर खुदे हुए अक्षरों से ही उनके नामों का ज्ञान हो जाता था ॥ ३८ ॥

उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपहररोध सूर्यम् ॥ ३९ ॥

अन्वयः—संयति अश्वैः उत्थापितः स्यन्दनवंशचक्रैः सान्द्रीकृतः कुञ्जरकर्णतालैः विस्तारितः रेणुः नेत्रक्रमेण सूर्यम् उपहररोध ।

उत्थापित इति । संयति संग्रामेऽश्वैस्तुरगैरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रै रथाङ्गैः ‘चक्रं सैन्ये जलावर्ते रथावयवराष्ट्रयोः । संसारे मण्डले वृत्ते धर्मभेदास्त्रभेदयोः ॥’ इति वैजयन्ती सान्द्रीकृतो घनीकृतः ‘वंशः पृष्ठास्थिन गोहोर्ध्वंकाष्ठे वेणौ गणे कुले’ इति केशवः । कुञ्जरकर्णानां तालैस्ताडनैर्विस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्यां अंशुकमित्यर्थः । ‘स्याज्जडांशुकयोर्नेत्रम्’ इति । ‘क्रमोऽङ्घ्रौ परिपाट्यां च’ इति च केशवः । सूर्यमुपहररोधान्च्छादयामास ।

भाषार्थ—युद्धस्थल में घोड़ों की टापों से उठी हुई धूलि रथ के पहिए से उठी हुई धूली के साथ मिलकर दुगुनी हो गई और हाथियों के कानों को हिलाने से वह धूली चारों तरफ इस प्रकार फैल गई मानों सूर्य को कपड़े से ढक दिया गया हो ॥ ३९ ॥

मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ४० ॥

अन्वयः—वायुवशात् विदीर्णैः मुखैः प्रवृद्धध्वजिनीरजांसि पिबन्तः मत्स्यध्वजाः पर्याविलानि नवोदकानि पिबन्तः परमार्थमत्स्याः इव बभुः ।

मत्स्येति । वायुवशाद्विदीर्णैर्विवृतैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणूनिपबन्तो गृह्णन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्या सत्यमत्स्या इव बभुर्भान्ति स्म ।

भाषार्थ—मछली के आकार वाली सेना की झण्डियों के मुंह खुल गये थे वायु के कारण जब उनमें सेना की धूल उड़कर पड़ती थी तब वे ऐसी मालूम

२२२रघुवंशमहाकाव्ये

पड़ती थी कि मानों वर्षा का गंदला पानी पीती हुई सच्ची मछलियाँ हैं ॥ ४०॥

रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ४१ ॥

अन्वयः—सैनिकैः सान्द्रे रजसि रथाङ्गध्वनिना रथः विजज्ञे नागः विलोलघण्टाक्वणितेन विजज्ञे आत्मपरावबोध स्वभर्तृनामग्रहणात् बभूव ।

रथ इति । सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नादेन विजज्ञे । आत्मपरावबोधः स्वपरविवेकः योधानामिति शेषः । स्वभर्तॄणां स्वस्वामिनां नामग्रहणात्नामोच्चारणाद्बभूव । रजोन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजघ्नुरित्यर्थः ।

भाषार्थ—उस युद्ध में धूली इतनी छा गई कि पहियों के शब्द को सुनकर ही मालूम पड़ता था कि रथ आ रहा है, बजती हुई घंटाओं की ध्वनि से हाथी मालूम पड़ते थे और अपने तथा पराये का ज्ञान तब होता था जब दोनों दलों के सैनिक अपने २ राजाओं का नाम ले लेकर युद्ध करते थे ॥ ४१ ॥

आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ४२ ॥

अन्वयः—लोचनमार्गम् आवृण्वतः आजौ विजृम्भितस्य रजोऽन्धकारस्य शस्त्रक्षताश्वद्विपवीरजन्मा रुधिरप्रवाहः बालारुणः अभूत् ।

आवृण्वत इति । लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः आजौ युद्धे विजृम्भितस्य व्याप्तस्य रज एवान्धकारं तस्य शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत् । 'अरुणो भास्करेऽपि स्यात्' इत्यमरः । बालविशेषणं रुधिरसावर्ण्यम् ।

भाषार्थ—नेत्रपथ को आच्छादित करने वाला, और युद्धस्थल में व्याप्त, धूलिरूपी अन्धकार को दूर करने के लिए शस्त्रों से कटे हुए घोड़े हांथी और योद्धाओं के शरीर से निकला हुआ रुधिर प्रवाह उत्पन्न प्रातःकाल के सूर्य के समान लाल मालूम पड़ता था ॥ ४२ ॥

स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवावभासे ॥ ४३ ॥

अन्वयः—क्षतजेन च्छिन्नमूलः तस्य उपरिष्टात् पवनावधूतः सः रेणु अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितः धूमः इव आवभासे ।

सप्तमः सर्गः | २२३


स इति । क्षतजेन रुधिरेण छिन्नमूलः त्याजितभूतलसम्बन्ध इत्यर्थः । तस्य क्षतजस्योपरिष्टात्पवनावधूतो वाताहतः स रेणुः अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव आबभासे दिदीपे ।

भाषार्थ—उस समय पृथ्वी पर इतना रुधिर बहा कि नीचे की धूल दब गई और ऊपर की धूल वायु के सहारे इधर-उधर फैल कर इस तरह लगती थी मानों अग्नि से ऊपर उठकर धूआँ ऊपर फैल गया है नीचे केवल अंगार मात्र शेष अग्नि रह गया है ॥ ४३ ॥

प्रहारमूर्च्छापगमे रथस्थ्या यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४ ॥

अन्वयः—रथस्थाः प्रहारमूर्च्छाऽपगमे निवर्तिताश्वान् यन्तॄन् उपालभ्य यैः सादिताः लक्षितपूर्वकेतून् तान् एव सामर्षतया निजघ्नुः ।

प्रहारेति । रथस्था रथिनः प्रहारेण या मूर्च्छा तस्या अपगमे इति मूर्च्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा निवर्तिताश्वान्यन्तॄन्सारथीनुपालभ्यासाधु कृतमित्यधिक्षिप्य पूर्वं यैः स्वयं सादिता हता लक्षितपूर्वकेतून् पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः । तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजहुः ।

भाषार्थ—जो योद्धा अपने प्रतियोद्धा के प्रहार से मूर्च्छित हो गये थे उनको उनके सारथी लेकर युद्धस्थल से बाहर चले गये, पर जब उनकी मूर्च्छा छूटी तब वे अपने सारथी को भला बुरा कहने लगे और जिनसे घायल हुए थे उन्हें रथ की पताका से पहचान कर उनके ऊपर क्रोध से प्रहार करने लगे ॥ ४४ ॥

अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
सम्प्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५ ॥

अन्वयः—हस्तवतां धनुर्भृतां पृषत्का अर्धमार्गे परबाणलूनाः अपि आत्मजवानुवृत्त्या फलिभिः पूर्वार्द्धभागैः शरव्यम् एव सम्प्रापुः ।

अपीति । अर्धञ्चासौ मार्गश्च अर्धमार्गस्तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या पूर्वार्धभागैः शृणातीति शरः तस्मै हितं शरव्यं लक्ष्यम् । "दगवादिभ्यो यत्" इति यत्प्रत्ययः । 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । सम्प्रापुरेव । न तु मध्ये पतिता इत्यर्थः ।

भाषार्थ—सिद्धहस्त धनुर्धारियों से छोड़े गये बाण यद्यपि शत्रुओं के बाणों

२२४ रघुवंशमहाकाव्ये

से बीच में ही कट जाते थे फिर भी इतना वेग होता था कि उनका फल लगा
हुआ अगला भाग लक्ष्य तक पहुँच ही जाता था ॥ ४५ ॥

आधोरणानां गजसन्निपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हृतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ४६ ॥

अन्वयः—गजसन्निपाते निशितैः क्षुराग्रैः चक्रैः हृतानि अपि श्येननखाग्र-
कोटिव्यासक्तकेशानि आधोरणानां शिरांसि चिरेण पेतुः ।

आधोरणानामिति । गजसंनिपाते गजयुद्धे निशितैस्त एव क्षुराग्रैः क्षुरस्या-
ग्रमिवाग्रं येषां तश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि श्येनानां पक्षिविशेषाणाम् ।
'पक्षी श्येनः' इत्यमरः । नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि आधोरणानां
हस्त्यारोहाणाम् । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिन' इत्यमरः ।
शिरांसि चिरेण पेतुः पतितानि । शिरः पातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां
नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ।

भाषार्थ—हाथियों के युद्ध में तेज तथा क्षुरे के समान फलवाले चक्रों से
कटे हुए महावतों के मस्तकों को लेकर बाज पक्षी ऊपर उड़ जाते थे । लम्बे
लम्बे बाल बाजों के नखों में बंध जाते थे जिससे वे मस्तक कुछ देर में पृथ्वी
पर गिरते थे । ४६ ॥

पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरङ्गमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकांक्ष ॥ ४७ ॥

अन्वयः—पूर्वं प्रहर्ता अश्वसादी प्रतिप्रहारक्षमं तुरङ्गमस्कन्धनिषण्णदेहम्
रिपुं भूयः न जघान किन्तु प्रत्याश्वसन्तम् आचकांक्ष ।

पूर्वमिति । पूर्वं प्रथमं प्रहर्त्ताश्वसादी तोरङ्गिकः प्रतिहारेऽक्षममशक्तं तुरङ्गम-
स्कन्धे निषण्णदेहम् मूर्छितमित्यर्थः । रिपुं भूयो न जघान पुनर्न प्रजहार किन्तु
प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष । 'नायुधव्यसनं प्राप्तं नातं नातिपरिक्षतम्'
इति निषेधादिति भावः ।

भाषार्थ—एक घुड़सवार ने अपने शत्रु घुड़सवार पर प्रहार किया जिससे
वह घोड़े के कन्धे पर झूल गया उसे अपना शिर उठाने की भी शक्ति नहीं
रही । पहले प्रहार करने वाले घुड़सवार ने मूर्छित होने के कारण अपने ऊपर
अस्त्र चलाने में असमर्थ उस शत्रु पर फिर प्रहार नहीं किया किन्तु उसके जीने
की ही इच्छा की । क्योंकि ऐसे शत्रुओं पर प्रहार करना निन्दित माना गया है।