सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

प्रथमः सर्गः ३९

प्रथमः सर्गः ३९

विगणय विद्धि । यदस्मात्कारणात्कल्याणी मङ्गलमूर्तिः । 'बह्वादिभ्यश्च' इति ङीप् । इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ।

भाषार्थ—हे राजन् अपनी सिद्धि को पास आई हुई समझो, क्योंकि यह कल्याणी नन्दिनी नाम लेते ही आ गई ॥ ८७ ॥

पुत्रप्राप्त्यर्थं नन्दिनीपरिचर्यामुपदिशन्नाह—
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनैव प्रसादयितुमर्हसि ॥ ८८ ॥

अन्वयः—वन्यवृत्तिः (सन् त्वं) शश्वत् आत्मानुगमनेन इमां गां अभ्यसनेन विद्या इव प्रसादयितुम् अर्हसि ।

वन्यवृत्तिरिति । वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन् । इमां गां शश्वत्सदा । आप्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव कर्तुः । अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव प्रसादयितुं प्रसन्नां कर्तुमर्हसि ।

भाषार्थ—जङ्गली कन्द फल मूल खाते हुए तुम सदा इस नन्दिनी के पीछे चल कर इसको अभ्यास से विद्या की तरह प्रसन्न करने का उद्योग करो ।८८।

गवानुसरणप्रकारमाह—
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ ८६ ॥

अन्वयः—अस्यां प्रस्थितायां ( सत्यां त्वं ) प्रतिष्ठेथाः, ( अस्यां ) स्थितायां स्थितिं आचरेः, ( अस्यां ) निषण्णायां ( सत्यां ) निषीद, ( अस्यां ) पीताम्भसि ( सत्यां ) पयः पिब ॥ ८९ ॥

प्रस्थितायामिति । अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु । तिष्ठेत्यर्थः । निषण्णायामुपविष्टायां निषीदोपविश । विध्यर्थे लोट् । पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब ।

भाषार्थ—इस नन्दिनी के चलने पर चलो, ठहरने पर ठहरो, बैठने पर बैठो और पानी पीने पर पानी पिओ ॥ ८९ ॥

साम्प्रतं नन्दिनीपरिचर्यायां सुदक्षिणयाऽनुष्ठास्यमानं कर्म ब्रुवन्नाह—
वधूर्भक्तिमती चैनमर्चितामातपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥ ९० ॥

४० रघुवंशमहाकाव्ये

अन्वयः—वधूः भक्तिमती प्रयता (सती) अर्चिताम् एनां आतपोवनात् प्रातः अन्वेतु, सायम् अपि प्रत्युद्व्रजेत् ।

वधूरिति । वधूर्जाया च भक्तिमती गन्धादिभिरर्चितामेनां प्रातरात्तपोवनात् आङ् मर्यादायाम् । पदद्वयं चैतत् । अन्वेत्वनुगच्छतु । सायपि प्रत्युद्व्रजेत्युद्गच्छेत् । विध्यर्थे लिङ् ॥ ९० ॥

भाषार्थ—और भक्तिमती वह सुदक्षिणा भी संयमपूर्वक पूजित इस नन्दिनी के पीछे तपोवन के अन्त तक सुबह के समय जाया करे और साम को अगवानी किया करे ॥ ९० ॥

नन्दिनीपरिचर्याऽवधिं निर्दिशन्नाह—

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ ९१ ॥

अन्वयः—इति आप्रसादात् त्वं अस्याः परिचर्यापरः भव । ते अविघ्नम् अस्तु । पिता इव पुत्रिणां धुरि स्थेयाः ।

इतीति । इत्यनेन प्रकारेण त्वमाप्रसादात्प्रसादपर्यन्तम् । 'आङ्मर्यादाऽभिविध्योः' इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्या धेनोः परिचर्यापरः शुश्रूषापरो भव । ते तवाविघ्नं विघ्नस्याभावोऽस्तु । 'अव्ययं विभक्ति' इत्यादिनाऽर्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनि प्रत्ययः । धुर्ये स्थेयास्तिष्ठेः । आशीरर्थे लिङ् । 'एर्लिङि' इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः ।

भाषार्थ—इस प्रकार प्रसन्नतापर्यन्त इस नन्दिनी की सेवा करो । तुम्हारा कल्याण हो ! पिता के समान पुत्रवालों में तुम मुख्य हो ॥ ९१ ॥

राज्ञो दिलीपस्य सप्रेम गुरोराज्ञाग्रहणमाह—

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ ९२ ॥

अन्वयः—देशकालज्ञः शिष्यः ( राजा दिलीपः ) प्रीतिमान् सपरिग्रहः आनतः ( सन् ) शासितुः आदेशं 'तथा' इति प्रतिजग्राह ।

तथेति । देशकालज्ञः । देशोऽग्निसंनिधिः, कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षज्ञानमव्याहतमिति जानन् अत एव प्रीतिमाञ्छिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः आनतो विनयनम्रः सन् शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ।

भाषार्थ—देशकाल को समझने वाले, प्रसन्न, धर्मपत्नीसहित विनयशाली शिष्य,

प्रथमः सर्गः
४१

राजा दिलीप ने गुरु वसिष्ठ की आज्ञा को 'ऐसा ही होगा' कह स्वीकार कर लिया।

अथ रात्रिकालं विज्ञाय दिलीपशयनाथं वसिष्ठानुशासनमाह—

अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोजितश्रियम् ॥ ९३ ॥

अन्वयः—अथ प्रदोषे दोषज्ञः सूनृतवाक्, स्रष्टुः सूनुः ऊर्जितश्रियम् विशापतिम् संवेशाय विससर्ज ।

अथेति । अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् । 'विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । सूनृतवाक् सत्यप्रियवाक् । 'प्रियं सत्यं च सूनृतम्' इति हलायुधः । स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः । अनेक प्रकृतकार्यनिर्वाहकत्वं सूचयति । ऊर्जितश्रियं विशांपति मनुजेश्वरम् । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । संवेशाय निद्रायै । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः । विससर्जाज्ञापयामास ।

भाषार्थ—इसके बाद रात्रि में विद्वान्, सत्य एवं मधुर भाषी, ब्रह्मा जी के मानस पुत्र वसिष्ठजी ने प्रसन्नचित राजा दिलीप को सोने के लिए आज्ञा दी ।। ९३।।

महर्षेर्वसिष्ठस्य दिली पाय मुनिजर्नाहंस'मग्रीसम्पादनमाह—

सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ ९४ ॥

अन्वयः—कल्पवित् मुनिः तपःसिद्धौ सत्याम् अपि नियमापेक्षया अस्य नन्दिम्याम् एव संविधां कल्पयामास ।

सत्यामिति । कल्पविद् व्रतप्रयोगाभिज्ञो मुनिः । तपःसिद्धौ सत्यामपि । तपसैवै राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतनऽनयेति संविधाम् । कुशादिशयनसामग्रीम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । 'अकर्तरि च कारके संज्ञायाम्' इति कर्मण्यर्थत्वम् । कल्पयामास संपादयामास ।

भाषार्थ—व्रतव्यवहार जानने वाले महर्षि वसिष्ठ नें तप की सिद्धि में भी नियम की अपेक्षा से इन्हें जंगल में उपलब्ध कुशासन शयनादि सामग्री को बतलाया ॥९४॥

वसिष्ठाज्ञया पर्णशालायां पत्न्या सह प्रसुप्तस्य दिलोपस्य ब्राह्ममुहूर्त्ते निद्रात्यागमाह—

निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥ ९५ ॥

४२ रघुवंशमहाकाव्ये

**अन्वयः—**प्रयतपरिग्रहद्वितीयः स कुलपतिना निर्दिष्टो पर्णशालां अध्यास्य कुशशयने संविष्टः (सन्) तच्छिष्याध्ययननिवेदितावसानाम् निशां निनाय।

निर्दिष्टामिति। स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशाला-
मध्यास्याधिष्ठाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। 'अधिशीङ्स्थासां कर्म' इत्यनेना-
धारस्य कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स
तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्ठस्य शिष्याणामध्ययने-
नापररात्रे वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपर-
रात्रेऽध्ययने मनुः 'निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्'। 'न चापर-
रात्रमधीत्य पुनः स्वपेद्' इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्—'म्नौ जौ
गस्त्रिदशयतिः प्रहर्षणीयम्''।

इति सञ्जीविनीव्याख्यायां वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः।

**भाषार्थ—**अपनी धर्मपत्नी सुदक्षिणा के साथ उस राजा दिलीप ने कुलपति महर्षि वसिष्ठ से बताई गई पर्णशाला मे जाकर कुश आसन पर सोते हुए वसिष्ठ के शिष्यों के अध्ययन से सूचित अन्त वाली रात्रि को बिताया ॥ ९५ ॥

त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणिशास्त्रिरचित चन्द्रकला टीका में प्रथम सर्ग समाप्त।


❀ ❀ ❀

द्वितीयः सर्गः

अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ १ ॥

**अन्वयः—**अथ यशोधनः प्रजानाम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषेः धेनुं वनाय मुमोच।

आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽग्विन्दासनसुन्दरि ! त्वाम्॥

अथेति। अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातः-
काले जायया सुदक्षिणया प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रति-
ग्राहितगन्धमाल्या, तां तथोक्ताम्, पीतं पानमस्यास्तीति पीतः पीतवानित्यर्थः। 'अर्श
आदिभ्योऽच्' इत्यच्प्रत्ययः। 'पीता गावो भुक्ता ब्राह्मणाः' इति महाभाष्ये दर्शनात्।
पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। क्रियार्थोपपदस्य इत्यनेन