रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
षष्ठः सर्ग १६५
षष्ठः सर्ग १६५
गुरुः । “वोतो गुणवचनात्” इति ङीष् । महीव रत्नेरनुविद्धो व्यासोऽर्णव एव
मेखला यस्यास्तस्याः । इदं विशेषणं मह्यामिन्दुमत्यों च योज्यम् । दक्षिणस्याः
दिशः सपत्नी भव । अनेन सपत्न्यन्तराभावो ध्वन्यते ।
भाषार्थ—उच्चकुल में उत्पन्न इस राजा के साथ विधिपूर्वक विवाह कर
लेने पर तुम पृथ्वी के समान उस दक्षिण दिशा की सौत बन जाओगी जिसकी
करधनी रत्नों से परिपूर्ण समुद्र ही है ॥६३॥
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ ६४ ॥
अन्वयः—ताम्बूलवल्लीपरिणद्धपूगासु एलालतालिङ्गितचन्दनासु तमालपत्रा-
स्तरणासु मलयस्थलीषु शश्वत् रन्तुं त्वं प्रसीद ।
ताम्बूलेति । ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका
यासु तासु ‘ताम्बूलवल्ली नागवल्लद्यपि’ इति ‘घोण्टा तु पूगः क्रमुकः’ इति
चामरः । एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु । गन्धसारो मल-
यजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः । तमालस्य तापिच्छस्य पत्राण्येवास्तर-
णानि यासु तासु । ‘कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि’ इत्यमरः । मलय-
स्थलीषु । शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ।
भाषार्थ—यदि तुम मलय पर्वत की उन घाटियों में सर्वदा विहार करना
चाहती हो तो इनसे विवाह कर लो वहाँ पर नागवल्ली लताओं से परिवेष्टित
सुपारी के वृक्ष हैं एवं इलायची की लता से लिपटे हुए चन्दन के वृक्ष हैं और
तमाल के पत्ते ही बिछौने हैं ॥ ६४ ॥
इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ ६५ ॥
अन्वयः—असौ नृपः इन्दीवरश्यामतनुः त्वं रोचनागौरशरीरयष्टिः असि
तडित्तोयदयोः इव वां योगः अन्योऽन्यशोभापरिवृद्धये अस्तु ।
इन्दीवरेति । असौ नृप इन्दीवरश्यामतनुः त्वं रोचना गोरोचनेव गोरी
शरीरयष्टिर्यस्याः सा ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽ-
न्योन्यशोभायाः परिवृद्धयेऽस्तु ।
भाषार्थ—ये राजा नोलकमल के समान श्यामवर्ण हैं तुम गं०रोचन जैसी
गोरी हो । अतः यदि इनके साथ तुम्हारा विवाह हो जायेगा तो तुम ऐसी सुन्दरी
लगोगी जैसे बादल के साथ बिजली सुन्दर लगती है ॥ ६५ ॥
१६६ रघुवंशमहाकाव्ये
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः।
दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ॥ ६६ ॥
अन्वयः—विदर्भाधिपतेः स्वसुः चेतसि तदीयः उपदेशः दिवाकरादर्शनबद्ध-
कोशे अरविन्दे नक्षत्रनाथांशुः इव अन्तरं न लेभे।
स्वसुरिति। विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्यश्चेतसि तदीयः सुनन्दा-
सम्बन्ध्युपदेशो वाक्यं दिवाकरस्य दर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथां-
शुश्चन्द्रकिरण इव अन्तरमवकाशं न लेभे।
भाषार्थः—जिस प्रकार सूर्य के न देखने से बन्द होने वाले कमल में चन्द्रमा
की किरणों को स्थान नहीं मिलता है उसी प्रकार सुनन्दा का उपदेश विदर्भ
नरेश भोज की बहन इन्दुमती के हृदय में स्थान नहीं प्राप्त कर सका ॥ ६६ ॥
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६७ ॥
अन्वयः—पतिम्वरा सा रात्रौ सञ्चारिणी दीपशिखा इव यं यं व्यतीयाय
सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे।
संचारिणीति। पतिंवरा सेन्दुमती रात्रौ सञ्चारिणी दीपशिखेव यं यं भूमि-
पालं व्यतीयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः। "नित्यवीप्सयोः'
इति वीप्सायां द्विवंचनम्। नरेन्द्रमार्गे राजपथेऽट्टारूढ्यो गृहभेद इव। 'स्यादट्टः
क्षोममस्त्रियाम्' इत्यमरः। विवर्णभावं विच्छायत्वम् अट्टस्तु तमोवृतत्वं प्रपेदे।
भाषार्थ—जिस तरह रात में आगे बढ़ने वाली दीपशिखा राजमार्ग में बने
हुए जिस महल को पारकर जब आगे बढ़ जाती है तब वह महल अंधेरा व्याप्त
हो जाने के कारण शोभारहित हो जाता है। उसी तरह पति को स्वयं वरण
करने वाली वह इन्दुमती जिस-जिस राजा को छोड़कर आगे बढ़ती जाती थी
वह राजा उदासीन होता जाता था ॥ ६७ ॥
तस्यां रघोः सूनुरुपस्थितायां वृणोत मां नेति समाकुलोऽभूत् ।
वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नु नोद ॥ ६८ ॥
अन्वयः—तस्यां उपस्थितायां सत्यां रघोः सूनुः माम् वृणीत न वा इति समा-
कुलः अभूत् । अस्य वामेतरः बाहुः केयूरबन्धोच्छ्वसितैः संशयं नुनोद ।
तस्यामिति। तस्यामिन्दुमत्यमुपस्थितायामासन्नायां सत्यां रघोः सूनुरजौ
मां वृणीत न वेति समाकुलः संशयितोऽभूत् । अथाजस्य वामेतरो वामादितरो
षष्ठः सर्गः १६७
दक्षिणो बाहुः केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानं तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ।
**भाषार्थ—**जब वह इन्दुमती रघु के पुत्र अज के पास आकर खड़ी हो गई तब उनका मन इसलिये व्याकुल हो उठा कि यह मुझे वरण करेगी या नहीं ? किन्तु उसी समय दक्षिण भुजा ने विजयमठ बांधने की जगह को फड़का कर उनके सन्देह को दूर कर दिया । शकुन शास्त्र के अनुसार दाहिनी भुजा फड़कने से स्त्री की प्राप्ति होती है अतः अब अज को सन्देह नहीं रहा ॥ ६८ ॥
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
नहि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदालीः ॥ ६६ ॥
**अन्वयः—**कुमारी सर्वावयवानवद्यं तं प्राप्य अन्योपगमात् व्यावर्तत हि षट्पदालीः प्रपुल्लं सहकारवृक्षम् एत्य वृक्षान्तरं नहि काङ्क्षति ।
तमिति। कुमारी सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य अन्योपगमाद्राजान्तरो पगमाद्वयावर्तत निवृत्ता । तथा–हि षट्पदालीः भृङ्गावलिः प्रफुल्लतीति प्रफुल्लं विकसितम् । पुष्पितमित्यर्थः । प्रपूर्वात्फुल्लतेः पचाद्यच् । फलतेस्तु प्रफुल्लमिति पठितव्यम् । "अनुपसर्गात् फुल्लक्षीवकृशांल्लाघा" इति निषेधात् इत्युभयथापि न कदाचिदनुपपत्तिरित्युक्तः प्राक् । सहकारं चूतावशेषमेत्य 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभ' इत्यमरः । वृक्षान्तरं न काङ्क्षति । नहि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः ।
**भाषार्थ—**जिस प्रकार पुष्पित आम के वृक्ष को पाकर भ्रमर की पंक्ति दूसरे वृक्ष की चाह नहीं करती, उसी प्रकार सर्वांग सुन्दर उस अज को पाकर वह इन्दुमती दूसरे राजा के पास जाने से रुक गई ॥ ६९ ॥
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥ ७० ॥
**अन्वयः—**अनुक्रमज्ञासुनन्दा इन्दुप्रभां इन्दुमतीं तस्मिन् समावेशितचित्तवृत्तिं अवेक्ष्य सविस्तरं इदं वाक्यं वक्तु प्रचक्रमे ।
तस्मिन्निति। तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम् इन्दोः प्रभेव प्रभा यस्यास्ताम् आह्लादकत्वादिन्दुसाम्यम् । इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम् । "प्रथने वावशब्दे" इति घञो निषेधात् "ऋदोरप्" इत्यप्प्रत्ययः । 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । वाक्यं वक्तुं प्रचक्रमे ।
१६८ रघुवंशमहाकाव्ये
**भाषार्थ—**बोलने का क्रम जाननेवाली सुनन्दा चन्द्रमा की कान्ति के समान सुन्दर कान्तिवाली इन्दुमती को अज में अनुरक्त जानकर विस्तारपूर्वक बात बनाती हुई बोली ॥ ७० ॥
इक्ष्वाकुवंशयः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
काकुत्स्यशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥ ७१ ॥
**अन्वयः—**इक्ष्वाकुवंशयः नृपाणां ककुदम् आहितलक्षणः ककुत्स्थः इति राजा अभूत्, यतः उन्नतेच्छाः उत्तरकोशलेन्द्राः श्लाघ्यं काकुत्स्यशब्दं, दधति ।
इक्ष्वाक्विति । इक्ष्वाकोर्मनुपुत्रस्य वंशयो वंशे भवः नृपाणां ककुदं श्रेष्ठः 'ककुच्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि' इति विश्वः। आहितलक्षणः प्रख्यातगुणः । 'गुणैः प्रतीते तु कृतलक्षणाहितलक्षणो' इत्यमरः । ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाऽभूत् । यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। 'महेच्छस्तु महाशयः' इत्यमरः । उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाघ्यं प्रशस्तं ककुत्स्थस्यापत्यं पुमान्काकुत्स्य इति शब्दां संज्ञां दधति बिभ्रति । तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः । पुरा किल पुरञ्जयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदिक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभे इति पौराणिकी कथानुसंधेया । वक्ष्यते चायमेवार्थे उत्तरश्लोके ।
**भाषार्थ—**इक्ष्वाकु के वंश में उत्पन्न राजाओं में श्रेष्ठ प्रख्यातगुणशाली एक ककुत्स्थ नाम के राजा हो गये हैं जिनके कारण उत्तर कोशल के सभी राजा प्रसिद्धि की इच्छा से अपने को काकुत्स्थ कहते आये हैं ॥ ७१ ॥
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ ७२ ॥
**अन्वयः—**यः प्राप्तपिनाकिलीलः सन् महोक्षरूपं महेन्द्रम् आस्थाय संयति बाणैः असुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः चकार।
महेन्द्रमिति । यः ककुत्स्थः संयति युद्धे महानुक्षा महोक्षः । "अचतुर०" इत्यादिना निपातः । तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन्बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार । तद्भर्तॄनसुरानावधीदित्यर्थः । नहि विधवा प्रसाध्यन्त इति भावः ।
**भावार्थ—**जिस ककुत्स्थ राजा ने देवासुर संग्राम में बैल का रूप धारण किये
षष्ठः सर्गः
१६६
हुए इन्द्र के ऊपर सवार होकर नन्दी पर चढ़े हुए शंकरजी की लीला को प्राप्त होकर अपने बाणों से असुरों का संहार कर दिया जिससे उनकी स्त्रियां विधवा होने के कारण अपने कपोलों पर पत्र रचना रूप शृङ्गार करना सदा के लिए छोड़ दिया ॥ ७२ ॥
ऐरावतास्फालनविशलथं यः संघट्टयन्नङ्गदमङ्गदेन ।
उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥ ७३ ॥
अन्वयः— यः ऐरावताऽऽस्फालनविशलथम् अङ्गदम् अङ्गदेन संघट्टयन् स्वाम् अग्र्यां मूर्तिम् उपेयुषः अपि गोत्रभिदः अर्धासनम् अधितष्ठौ ।
ऐरावतेति । यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन्·संघर्षयन्स्वामग्र्यां श्रेष्ठां मूर्त्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनमर्धासनम् । "अर्धं नपुंसकम्" इति समासः । अधितष्ठावधितिष्ठवान् । "स्यादिष्वभ्यासेन चाभ्यासस्य" इत्यभ्यासेन व्यववायेऽपि षत्वम् । न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुक्षत् किन्तु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः । अथवा अर्धासनमपीत्यपेरन्वयः ।
भाषार्थं— जो ककुत्स्थ राजा संग्राम समाप्त हो जाने पर जब इन्द्र अपना असली रूप धारण करके ऐरावत पर सवार होकर स्वर्ग में जाकर सिंहासन पर बैठे, तब ऐरावत को बारबार हांकने से इन्द्र का जो विजावठ ढीला पड़ गया था उसे अपने विजावट से रगड़ता हुआ अपने ही श्रेष्ठ मूर्ति को प्राप्त किये हुए इन्द्र के आधे आसन पर बैठे ॥ ७३ ॥
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ ७४ ॥
अन्वयः— उरुकीर्तिः कुलप्रदीपः नृपतिः दिलीपः तस्य कुले जातः किल यः शक्राभ्यसूयाविनिवृत्तये एकोनशतक्रतुत्वे अतिष्ठत् ।
जात इति । उरुकीर्त्तिर्महायशाः कुलप्रदीपो वंशदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल । यो दिलीपः शक्राभ्यसूयाविनिवृत्तये न त्वशक्त्येति भावः । एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुः तस्य भावे तत्त्वेऽतिष्ठत् । इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः ।
भाषार्थ— उस ककुत्स्थ राजा के वंश में महायशस्वी कुलदीपक दिलीप नाम के राजा उत्पन्न हुए थे जो इन्द्र की डाह को दूर करने के लिए निन्यानवे अश्वमेध यज्ञ करके ही रुक गये सौवां यज्ञ पूर्ण नहीं किये ॥ ७४ ॥
२०० रघुवंशमहाकाव्ये
यस्मिन्महीं शासति वाणिनीनां निद्रां विहाराधंपथे गतानाम् ।
वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥ ७५ ॥
अन्वयः—यस्मिन् महीं शासति सति विहाराधंपथे निद्रां गतानां वाणिनीनाम् अंशुकानि वातः अपि न अस्रंसयत् आहरणाय हस्तं कः लम्बयेत् ।
यस्मिन्निति । यस्मिन्दिलीपे महीं शासति सति विहरत्यत्रेति विहार क्रीडा-स्थानम् तस्यार्धंपथे निद्रां गतानां - वाणिनीनां मत्ताङ्गनाताम् । 'वाणिनी नर्तकी मत्ताविदग्धवनितासु च" इति विश्वः । 'वाणिन्यो नर्तकीदूत्यो' इत्यमरश्च । अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत् आहरणायोपहर्तुं को हस्तं लम्बयेत् तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः । अर्धञ्चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावान्नै कदेशिसमासः ।
भावार्थ—जिस राजा दिलीप के शासन करते समय क्रीडा स्थान में मद पीकर सोई स्त्रियों के वस्त्रों को वायु भी नहीं छू सकता था तो फिर दूसरा कौन पुरुष उन्हें छूने के लिए हाथ बढ़ा सकता है ॥ ७५ ॥
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ ७६ ॥
अन्वयः—विश्वजितः महाक्रतोः प्रयोक्ता तस्य पुत्रः रघुः पदं प्रशास्ति यः चतुर्दिगावर्जितसम्भृतां विभूतिं मृत्पात्रशेषाम् अकरोत् ।
पुत्र इति । विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव प्रशास्ति पालयति । यो रघुश्चतसृभ्यो दिग्भ्य आर्वाजिताऽऽहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूतिं सम्पदं मृत्पात्रमेव शेषो यस्यास्तामकरोत् । विश्वजिद्यागस्य सर्वस्वदक्षिणकत्वादित्यर्थः ।
भावार्थ—उन्हीं के पुत्र रघु उनके बाद राजा हुए हैं जिन्होंने चारों दिशाओं को जीतकर इकट्ठा किया हुआ अपार धनराशि विश्वजित नामक यज्ञ में ब्राह्मणों को दान देकर अपने पास केवल मिट्टी के पात्र को ही शेष रखा था ॥ ७६ ॥
आरूढमद्रीनुदधीन्वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम्।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयाऽलम् ॥ ७७ ॥
अन्वयः—अद्रीन् आरूढम् उदधीन् वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम् ऊर्ध्वं गतम् अनुबन्धि च यस्य यशः इयत्तया परिच्छेत्तुम् अलं न अस्ति ।
आरूढमिति—किं च अद्रीना रूढम् उदधीन्वितीर्णमवगाढम् सकलभूगोलव्यापक-