सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

द्वितीयः सर्गः ४७

द्वितीयः सर्गः ४७

मरुत्प्रयुक्ताश्चेति । मरुत्प्रयुक्ता वायुना प्रेरिताः, बाललताः आरात्समीपेऽभिवर्त्तमानम् । 'आराद्दूरसमीपयोः' इत्यमरः । मरुतो वायोः सखा मरुत्सखोऽग्निः । स इवाभातीति मरुत्सखाभम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । अर्घ्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः । पौरकन्याः पौराश्च ताः कन्या आचारार्थं लाजैराचारलाजैरिव । अवाकिरन् तस्योपरि निक्षप्तवत्य इत्यर्थः । सखा हि सखायमागतमुपचरतीति भावः।

भाषार्थ—और वायुसंचालित नई लताओं ने पास मेंवर्तमान अग्नि के समान राजा दिलीप के ऊपर बालिकाओं द्वारा धान के समान पुष्पों की वर्षा की।१०।

धनुर्भृतोऽप्यस्य दयाऽऽर्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ ११ ॥

अन्वयः—धनुर्भृतः अपि तस्य विशङ्कैः अन्तःकरणैः दयार्द्रभावं आख्यातं वपुः विलोकयन्त्यः हरिण्यः अक्ष्णां प्रकामविस्तारफलं आपुः ।

धनुर्भृत इति । धनुर्भृतोऽप्यस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विशङ्कैर्निर्भीकैरन्तःकरणैः कर्तृभिः । दयया कृपारसेनाद्र भावोऽभिप्रायो यस्य तद्दयाऽऽर्द्रभावं तदाख्यातम् । दयाऽऽर्द्रभावमेतदित्याख्यातमित्यर्थः । भावः सत्तास्वभावाभिप्रायचेष्टाऽऽत्मजन्मसु' इत्यमरः । तथाविध वपुर्विलोकयन्त्यो हरिण्य अक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः । "विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं च" इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः ।

भाषार्थ—धनुषधारी होने पर भी निर्भीक अन्तःकरण से दया के भाव वाले शरीर को देखने वाली हरिणियों ने अपनी आंखों के विशाल होने का फल पा लिया ॥ ११ ॥

स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ १२ ॥

अन्वयः—स मारुतपूर्णरन्ध्रैःकूजद्भिः कीचकैः आपादितवंशकृत्यं कुञ्जेषु,वनदेवताभिः उच्चैः उद्गीयमानं स्वं यशः शुश्राव ।

स इति । स दिलीपो मारुतपूर्णरन्ध्रैः । अत एव कूजद्भिः स्वनद्भिः कीचकैर्वेणुविशेषैः । 'वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । वंशः सुषिरवाद्यविशेषः । 'वंशादिकं तु सुषिरम्' इत्यमरः । आपादितं सम्पादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा । कुञ्जेषु लतागृहेषु । 'निकुञ्जो वा क्लीबे लतादिपिहितोदरे' इत्यमरः । वनदेवताभिरुद्गीयमानमुच्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान् ।

४८ रघुवंशमहाकाव्ये

**भाषार्थ—**उस राजा दिलीप ने छिद्रों में भरी हुई हवा से गूँजने वाले बांसों से वनदेवियों द्वारा कुञ्जों में ऊंचे स्वर से गाये जाते हुए अपने यश को सुना ।।१२।।

पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥१३॥

**अन्वयः—**गिरिनिर्झराणां तुषारैः पृक्तः अनोकहाकम्पितपुष्पगन्धी पवनः अनातपत्रं आतपक्लान्तं आचारपूतं तं सिषेवे ।

पृक्त इति । गिरिषु निर्झराणां वारिप्रवाहाणाम् । 'वारिप्रवाहो निर्झरो झरः' इत्यमरः । तुषारैः । 'तुषारो हिमसीकरो' इति शाश्वतः-पृक्तः सम्पृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषु यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी । ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम् । अत एवातपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे । आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ।

**भाषार्थ—**पर्वतीय झरनों के जल कणों से मिश्रित कुछ हिलते हुए वृक्षों के फूलों की सुगन्धित हवा ने छतरहित धूप से मुरझाते हुए उस शुद्ध आचरण वाले राजा दिलीप की सेवा की ॥ १३ ॥

शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वने गोप्तरि गाहमाने ॥ १४ ॥

**अन्वयः—**गोप्तरि तस्मिन् वने गाहमाने (सति) वृष्ट्या विनापि दवाग्निः शशाम । फलपुष्पवृद्धिः विशेषा आसीत् । सत्त्वेषु अधिकः ऊनं न बबाधे ।

शशामेति । गोप्तरि तस्मिन् वनं गाहमाने प्रविशति सति वृष्ट्या विनाऽपि दवाग्निर्वनाग्निः 'दवदावौ वनानले' इति हैमः । शशाम । फलानां पुष्पाणां च वृद्धिः । विशिष्यत इति विशेषा अतिशयिताऽऽसीत् । कर्मार्थे घञ्प्रत्ययः । सत्त्वेषु जन्तुषु मध्ये । 'यतश्च निर्धारणम्' इति सप्तमी । अधिकः प्रबलो व्याघ्रादिरूपं दुर्बलं हरिणादिकं न बबाधे ।

**भाषार्थ—**उस रक्षक राजा के वन में प्रवेश करने पर वनाग्नि वर्षा के बिना ही शान्त हो गया, फल-फूलों की वृद्धि विशेषरूप से होने लगी, पशुओं में सबल निर्बल को सता नहीं पाये ॥ १४ ॥

सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ १५ ॥