सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टमः सर्गः | २४५

अष्टमः सर्गः२४५

तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्योपायुङ्क्त । फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः । “प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम् । तमस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः । निःस्पृह इत्यर्थः । ‘लोष्टानि लेष्टवः पुंसि’ इत्यमरः । रघुरपि गुणत्रयं सत्त्वादिकम् । ‘गुणाः सत्त्वं रजस्तमः’ इत्यमरः । प्रकृतौ साम्यावस्थायामेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ।

भावार्थ— एक तरफ अज सन्धि, विग्रह, यान, आसन, आश्रय और द्वैधीभाव इन नीतियों का देशकालानुसार परिणाम समझकर प्रयोग करते थे दूसरी ओर मिट्टी और सोने दोनों में समान दृष्टि रखनेवाले रघु ने भी, प्रकृति के त्रिगुणमयी सत्व रज एवं तम इन तीनों गुणों को जीत लिया ॥ २१ ॥

न नवः प्रभुराफलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरापरमात्मदर्शनात् ॥ २२ ॥

अन्वयः— स्थिरकर्मा नवः प्रभुः आफलोदयात् कर्मणः न विरराम स्थिरधीः नवेतरः च आपरमात्मदर्शनात् योगविधेः न विरराम ।

नेति । स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरजः आफलोदयात्फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः । ‘जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्’ वा० इत्यपादानात्पञ्चमी । ‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम् । स्थिरधीर्निश्चलचित्तः । तदुक्तं गीतायां ‘दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वितरागभयक्रोधः स्थिरधीर्मुनिरुच्यते ॥’ नवेतरो रघुश्चापरमात्मदर्शनात्परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ।

भावार्थ— स्थिर कार्यकर्ता नये राजा अजने फल की प्राप्ति हुए बिना आरम्भ किये हुए कर्मों से विरत नहीं हुए । तथा स्थिर बुद्धिवाले प्राचीन राजा रघु परमात्मा के साक्षात्कार के बिना योगाभ्यास से विरत नहीं हुए ॥ २२ ॥

इति शत्रुपु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥ २३ ॥

अन्वयः— इति प्रतिषिद्धप्रसरेषु शत्रुपु च इन्द्रियेषु च जाग्रतौ उदयापवर्गयोः प्रसितौ उभौ उभयीं सिद्धिम् अवापतुः ।

इतीति । इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुपु चेन्द्रियेषु च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदमाक्षयोः प्रसितावासक्तौ । ‘तत्परे प्रसितासक्तौ’ इत्यमरः । उभावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम् । “उभादुदात्तो

२४६ रघुवंशमहाकाव्ये

नित्यम्'' इति तयप्प्रत्ययस्यायजादेशः । "टिड्ढाणञ्" इति ङीप् । सिद्धि फलमवापतुः । उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः ।

भाषार्थ—इस प्रकार निरुद्धव्यापार वाली इन्द्रियों और शत्रुओं के विषय में जागरूक और क्रमशः उन्नति एवं मोक्ष में लगे हुए अज तथा रघु उन दोनों ने अपनी २ सिद्धियों को प्राप्त कर लिया ॥ २३ ॥

अथ काश्चिदजेन्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥ २४ ॥

अन्वयः—अथ रघुः समदर्शनः सन् अजन्यपेक्षया कांश्चित् समाः गमयित्वा योगसमाधिना अव्ययं तमस. परं पुरुषं आपत् ।

अथेति । अथ रघुः समदर्शनः सर्वभूतेषु समदृष्टिः, सन्नजन्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि । 'समा वर्षं समं तुल्यम्' इति विश्वः । गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधाने । 'संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः' इति वसिष्ठः । अव्ययमविनाशिनं तमसः परमविद्यायाः परं मायातीतमित्यर्थः । 'अनित्यासुखानात्मसु नित्यसुखात्मबुद्धिरविद्या ।' इति योगशास्त्रे पुरुषं परमात्मानमापत्राप । सायुज्यं प्राप्त इत्यर्थः ।

भाषार्थ—इसके बाद सभी वस्तुओं को समान समझने वाले महाराज रघु ने अज की इच्छा से कुछ वर्ष और बिताकर फिर योगबल से अविनाश एवं मायातीत परमात्मा में लीन हो गये अर्थात् शरीर त्याग कर दिया ॥ २४ ॥

श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः ।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निरग्निचित् ॥ २५ ॥

अन्वयः—अग्निचित् राघवः पितुः श्रुतदेहविसर्जनः सन् चिरम् अश्रूणि विमुच्य अस्य अनग्निम् नैष्ठिकं विधिं यतिभिः सार्धं विदधे ।

श्रुतेति । अग्निचिदग्नि चितवानाहितवान् । "अग्नो चेः" इति क्विप्प्रत्ययः । राघवोऽजः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम् अग्निसंस्काररहितमित्यर्थः । नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारमन्त्येष्टि यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे । अनग्नि विधिमित्यत्र शौनकः—'सर्वसङ्गन्निवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया ॥ निदध्यात्प्रणवेनैव बिले भिक्षोः कलेवरम् । प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥' इति ।

भाषार्थ—पिता के देहत्याग का समाचार सुन कर अग्निहोत्र करनेवाले अज

अष्टमः सर्गः
२४७

बहुत रोए, बाद उनके शरीर का दाह संस्कार न करके सन्यासियों के समान पृथ्वी में समाधि दे दी। क्योंकि ज्ञानियों का दाह संस्कार नहीं होता है। (महर्षि शौनक ने स्पष्ट कहा है) ॥ २५ ॥

अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।
नहि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥ २६ ॥

अन्वयः—पितृकार्यकल्पवित् सः पितृभक्त्या तदौर्ध्वदैहिकम् अकरोत्, हि तेन पथा तनुत्यजः तनयावर्जितपिण्डकाङ्क्षिणः न भवन्ति ।

अकरोदिति । पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा कारणेन । न पितुः परलोकसुखापेक्षया मुक्तत्वादिति भावः । तस्य रघोरोर्ध्वदैहिकम् देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत् । ॐ ऊर्ध्वं देहाच्च ॐ इति वक्तव्याट्टठञ्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः । ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्कयाह—नहीति । तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता नहि भवन्ति ।

भाषार्थ—यद्यपि योगमार्ग से शरीर त्याग करने वाले योगियों को अपने पुत्रों से पिण्डदान की आवश्यकता नहीं रहती तथापि पितृकार्य के विधान को जानने वाले अज ने पितृभक्ति से पिण्डदान पूर्वक श्राद्ध-कर्म किया ॥ २६ ॥

स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७ ॥

अन्वयः—परार्ध्यगतेः पितुः अशोच्यताम् उद्दिश्य सदर्थवेदिभिः शमिताधिः सः अधिज्य कार्मुकः सन् जगत् अप्रतिशासनम् कृतवान् ।

स इति । परार्ध्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय शोको न कर्त्तव्य इत्युपदिश्येत्यर्थः । “परिव्राजि विपन्ने तु पतिते चात्मवेश्मनि । कार्यो न शोको ज्ञातीनामन्यथा दोषभागिनः ॥” इति सुमन्तुस्मरणात् । सदर्थवेदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः । ‘पुंस्याधिर्मानसी व्यथा’ इत्यमरः । सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन् जगत्कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम् । आत्माज्ञाविधेयमित्यर्थः । कृतवांश्चकार ।

भाषार्थ—जब तत्वज्ञानी विद्वानों ने अज को समझाया कि, आपके पिता रघु ने मोक्ष पा लिया है उनके विषय में शोक करना उचित नहीं है, तब उन्हें धैर्य

२४८ रघुवंशमहाकाव्ये

हुआ और शोक रहित होकर उन्होंने धनुष को चढ़ाकर सारे संसार पर एक छत्र राज्य कर लिया ॥ २७ ॥

क्षितिरिन्दुमती च भामिनि पतिमासाद्य तमग्रघपौरुषम् ।
प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥ २८ ॥

**अन्वयः—**क्षितिः भामिनी इन्दुमती च अग्रघपौरुषम् तं पतिम् आसाद्य प्रथमा बहुरत्नसूः अभूत् अपरा वीरं सुतम् अजीजनत् ।

क्षितिरिति । क्षितिर्मही भामिनी कामिनीन्दुमती च । 'भामिनी कामिनी च' इति हलायुधः । अग्रघपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य तत्र प्रथमा क्षितिः बहूनि रत्नानि श्रेष्ठानि वस्तूनि सूत इति बहूरत्नसूरभूत । 'रत्नं स्वजातिश्रेष्ठेऽपि' इत्यमरः । अपरेन्दुमती वीरं विशेषेण शत्रून् ईरयति कम्पयतीति वीरस्तं सुतमजीजनज्जनयति स्म । जायतेर्णौ लुङि रूपम् । सहोक्त्या सादृश्यमुच्यते ।

**भाषार्थ—**पृथ्वी और इन्दुमती दोनों महापराक्रमशाली उस अज को पति के रूप में पाकर परमप्रसन्न हुईं और पृथ्वी ने अनेक प्रकार के रत्नों को उत्पन्न किया एवं इन्दुमती ने वीर पुत्र को पैदा किया ॥ २८ ॥

किंनामकोऽसावत आह—

दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्ववरथं यमाख्यया दशकण्ठारिगुरुं विदुबुंधाः ॥ २९ ॥

**अन्वयः—**बुधाः दशरश्मिशतोपमद्युतिं यशसा दशसु अपि दिक्षु श्रुतं दशकण्ठारिगुरुं यम् आख्यया दशपूर्वरथं विदुः ।

दशेति । दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम् । यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम् । दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम् आख्यया नाम्ना दशपूर्वो दशशब्दपूर्वो रथो रथशब्दस्तम् दशरथमित्यर्थः । बुधा विद्वांसो विदुर्वदन्ति । "विदो लटो वा" इति झेर्जुसादेशः ।

**भाषार्थ—**विद्वान् लोग जिन्हें दश सौ किरणवाले सूर्य के समान तेजस्वी यश से दशों दिशाओं में प्रसिद्ध और दशमुख रावण के शत्रु राम के पिता दशरथ कहते हैं ॥ २९ ॥

ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ ३० ॥