रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
द्वितीयः सर्गः ४६
द्वितीयः सर्गः ४६
अन्वयः— पल्लवरागताम्रा पतङ्गस्य प्रभा मुनेः धेनुश्च दिगन्तराणि सञ्चार-
पूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे।
सञ्चारेति। पल्लवस्य रागो वर्णः पल्लवरागः 'रागोऽनुरक्तौ मात्सर्य्ये क्लेशादौ लोहितादिषु' इति शाश्वतः। स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्य्यस्य प्रभा कान्तिः 'पतङ्गः पक्षिसूर्य्ययोः' इति शाश्वतः। मुनेर्धेनुश्च। दिगन्तराणि दिशामवकाशान्। 'अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये' इत्यमरः। सञ्चारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय। धेनुपक्षे आलयाय च गन्तुं प्रचक्रमे।
भाषार्थ— नवीन पल्लव की लालिमा के समान सूर्य की प्रभा और वसिष्ठ की धेनु नन्दिनी दिशाओं को अपने परिभ्रमण से पवित्र करके सांयकाल निलय (आश्रम या अस्ताचल) के लिए लौटी॥ १५॥
तां देवतापितृतथिक्रियाऽर्थामन्वग्ययौ मध्यमलोकपालः।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ १६ ॥
अन्वयः— मध्यमलोकपालः देवतापितृतथिक्रियार्थी तां अन्वक् ययौ सताम् मतेन, तेन उपपन्ना सा विधिना साक्षात् श्रद्धा इव बभौ।
तामिति। मध्यमलोकपालो भूपालः। देवतापितृतथिनीनां क्रिया यागश्राद्धदा-
नानि ता एवार्थः प्रयोजनं यस्यास्तां धेनुमन्वगनुपदं ययौ। 'अन्वगन्वक्षमन्वगेऽनुपदं क्लीबमव्ययम्' इत्यमरः। सतां मतेन सद्भिर्मान्येन। 'मतिबुद्धि—' इत्यादिना वर्तमाने क्तः। 'तस्य च वर्त्तमाने' इति षष्ठी। तेन राज्ञोपपन्ना युक्ता सा धेनुः। सतां मतेन विधिनाऽनुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्यक्षा श्रद्धाऽऽस्तिक्यबुद्धिरिव बभौ च।
भाषार्थ— भूलोकपालक राजा दिलीप देव पितर एवं अतिथियों के कार्य को सम्पन्न करने वाली उस नन्दिनी के पीछे चले, और सज्जनों के माननीय दिलीप से युक्त वह नन्दिनी अनुष्ठान से युक्त मूर्तिमान् श्रद्धा के समान सुशोभित हुई।
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ १७ ॥
अन्वयः— स पल्वलोत्तीर्णवराहयूथानि आवासवृक्षोन्मुखबर्हिणानि मृगाध्या-
सितशाद्वलानि श्यामायमानानि वनानि पश्यन् ययौ।
स इति। स राजा। पल्वलेभ्योऽल्पजलाशयेभ्य उत्तीर्णानि निर्गतानि वरा-
हाणां यूथानि कुलानि येषु तानि। बर्हाण्येषां सन्तीति बर्हिणो मयूरा। 'मयूरो
४ र० सम्पू०
५० रघुवंशमहाकाव्ये
बर्हिणो बर्ही' इत्यमरः । 'फलबर्हाभ्यामिनचप्रत्ययो वक्तव्यः' । आवासवृक्षाणामुन्मु-
खा बर्हिणो येषु तानि । श्यामायमानानि वराहबर्हिणादिमलिनिम्ना, अश्यामानि
श्यामानि भवन्तीति श्यामायमानानि । 'लोहितादिडाज्भ्यः क्यष्' इति क्यष्प्र-
त्ययः । 'वा क्यषः' इत्यात्मनेपदे शानच् । मृगैरध्यासिता अधिष्ठिताः शाद्वला येषु
तानि । शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः । 'शाद्वलः
शादहरिते' इत्यमरः । 'शादः कर्दमशष्पयोः' इति विश्वः । 'नडशादाड्ड्वलच्' इति
ड्वलच्प्रत्ययः । वनानि पश्यन्नयौ ।
भाषार्थ—वे राजा दिलीप तालाबों से निकलते हुए सूअरों के झुण्डवाले, अपने निवास वृक्षों की तरफ आते हुए भौरों वाले और हरी २ दूब पर बैठे हुए हरिण वाले हरे वनों को देखते हुए चले ॥ १७ ॥
आपीनभारोद्वहनप्रयत्नाद् गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ १८ ॥
अन्वयः—गृष्टिः आपीनभारोद्वहनप्रयत्नात् नरेन्द्रः वपुषः गुरुत्वात् उभो अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथं अलञ्चक्रतुः ।
आपीनेति । गृष्टिः सकृत्प्रसूता गौः । 'गृष्टिः सकृत्प्रसूता गौः' इति हलायुधः । नरेन्द्रश्च । उभो यथाक्रमम् । आपीनमोधः । 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । आपीनस्य भारोद्वहने प्रयत्नात्प्रयासात् वपुषो गुरुत्वादाधिक्याच्च । अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम् 'ऋक्पूरब्धूंः पथामानक्षे' इत्यनेन समासान्तोऽप्रत्ययः । अलञ्चक्रतुर्भूषितवन्तौ ।
भाषार्थ—प्रथमवार व्याई हुई नन्दिनी ने स्तन के भार को संभालने से और राजा दिलीप ने अपने शरीर की स्थूलता से उन दोनों ने तपोवनगामी मार्ग को अपनी-अपनी सुन्दर चाल से सुशोभित किया ॥ १८ ॥
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ १९ ॥
अन्वयः—वसिष्ठधेनोः अनुयायिनं वनान्तात् आवर्तमानं तं वनिता निमेषालसपक्ष्मपङ्क्तिः ( सती ) उपोषिताभ्यां इव लोचनाभ्यां पपौ ॥ १९ ॥
वसिष्ठेति । वसिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्त्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा निर्निमेषा सतीत्यर्थः । लोचनाभ्यां करणाभ्याम् । उपोषिताभ्यामिव । उपवासो भोजननिवृत्तिस्त-
द्वितीयः सर्गः ५१
द्वदग्धामिव । वसतेः कर्तरि क्तः । पपौ । यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः ।
भाषार्थ—महर्षि वसिष्ठ की नन्दिनी के पीछे २ चलने वाले वन से लौटे हुए उस दिलीप को रानी सुदक्षिणा ने निर्निमेष तृषित नेत्रों से देखा ॥ १९ ॥
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ २० ॥
अन्वयः—वर्त्मनि पार्थिवेन पुरस्कृता पार्थिवधर्मपत्न्या प्रत्युद्गता सा धेनुः तदनन्तरे दिनक्षपामध्यगता सन्ध्या इव विरराज ।
पुरस्कृतेति । वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण । 'तस्येश्वरः' इत्यञ्प्रत्ययः । पुरस्कृताऽग्रतः कृता । धर्मस्य पत्नी धर्मपत्नी धर्मार्थपत्नीत्यर्थः । अश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । पार्थिवस्य धर्मपत्न्या प्रत्युद्गता सा धेनुस्तदन्तरे तयोर्दम्पत्योर्मध्ये । दिनक्षपयोर्दिनरात्रयोर्मध्यगता सन्ध्येव विरराज ।
भाषार्थ—मार्ग में राजा दिलीप से आगे की गई और सुदक्षिणा द्वारा अगवानी की गई वह नन्दिनी उन दोनों के बीच में दिन एवं रात के मध्य में वर्तमान सन्ध्या के समान सुशोभित हुई ॥ २० ॥
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ॥ २१ ॥
अन्वयः—साक्षतपात्रहस्ता सुदक्षिणा पयस्विनीं तां प्रदक्षिणीकृत्य प्रणम्य च विशालं शृङ्गान्तरं अर्थसिद्धेः द्वारम् इव आनर्च ।
प्रदक्षिणीकृत्येति । अक्षतानां पात्रेण सह वर्तत इति साक्षतपात्रो हस्तो यस्या सा सुदक्षिणा पयस्विनीं प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च । अस्या धेन्वा विशालं शृङ्गमध्यम् । अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव, आनर्चायामास । अर्चतेर्भौवादिकाल्लिट् ।
भाषार्थ—अक्षत युक्त पात्र को हाथ में लिए हुए सुदक्षिणा ने दूध देने वाली उस नन्दिनी की प्रदक्षिणा और प्रणाम करके उसके विशाल दोनों सींगों के मध्य भाग को मनोरथसिद्धि के द्वार के समान जानकर पूजा की ॥ २१ ॥
वत्सोत्सुकाऽपि स्तिमितां सपर्यां प्रत्यग्रहीत्तेति ननन्दतुस्तौ ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥ २२ ॥
अन्वयः—सा वत्सोत्सुका अपि स्तिमिता (सती) सपर्यां प्रत्यग्रहीत् इति तौ ननन्दतुः । हि तद्विधानां भक्त्या उपपन्नेषु प्रसादचिह्नानि पुरःफलानि (भवन्ति)।
५२ | रघुवंशमहाकाव्ये
वत्सोत्सुकाऽपीति । सा धेनुर्वत्सोत्सुकाऽपि वत्साय उत्कण्ठिताऽपि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति हेतोस्तौ दम्पती ननन्दतुः । पूजास्वीकारस्यानन्दहेतुमाह—भक्त्येति । पूज्येष्वनुरागो भक्तिस्तयोपपन्नेषु युक्तेषु तद्विधानां तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम् महतामित्यर्थः । प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरः फलानि पुरोगतानि प्रत्यासन्नानि येषां तानि हि । अवलम्बित-फलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः ।
भावार्थ—उस नन्दिनी ने बछड़े को देखने के लिए उत्कण्ठित होनेपर भी निश्चल होकर पूजा स्वीकार कर ली; इससे वे प्रसन्न हुए क्योंकि उनके सम्बन्ध में नन्दिनी जैसे प्रेमी व्यक्तियों की प्रसन्नता के चिह्न निःसन्देह फल के कारण होते हैं ॥ २२ ॥
गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यञ्च विधिं दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥ २३ ॥
अन्वयः—भुजोच्छिन्नरिपुः दिलीपः सदारस्य गुरोः पादौ निपीड्य सान्ध्यं विधिं समाप्य च दोहावसाने निषण्णां दोग्ध्रीं एव पुनः भेजे ।
गुरोरिति । भुजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सह वर्त्तमानस्य गुरोः । उभयोरपीत्यर्थः । 'भार्या जायाऽथ पुंन्भूनि दाराः' इत्यमरः । पादौ निपीड्याभिवन्द्य । सान्ध्यं सन्ध्यायां विहितं विधिमनुष्ठानं च समाप्य । दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलाम् । 'तृन्' इति तृन्प्रत्ययः । धेनुमेव पुनर्भेजे सेवितवान् । दोग्ध्रीमिति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ।
भावार्थ—भुजबल से शत्रुओं के संहारक दिलीप अरुन्धती सहित वसिष्ठ को प्रणाम कर सायंकाल के कृत्यों को समाप्त कर दुहने के बाद बैठी हुई नन्दिनी की सेवा करने लगे ॥ २३ ॥
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ २४ ॥
अन्वयः—गोप्ता गृहिणीसहायः अन्तिकन्यस्तबलिप्रदीपां तां अन्वास्य क्रमेण सुप्तां अनुसंविवेश । प्रातः सुप्तोत्थितां अनु उदतिष्ठत् ।
तामिति । गोप्ता रक्षको गृहिणीसहायः पत्नी द्वितीयः सन् । उभावपीत्यर्थः । अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपास्योपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप । प्रातः सुप्तोत्थितामनूदतिष्ठदुत्थितवान् अत्रानुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते, क्रमशब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम् । 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीया ।
द्वितीयः सर्गः ५३
**भाषार्थ—**पालक राजा दिलीप पत्नीसहित पास में रखे हुए पूजोपहार और दीपक वाली नन्दिनी के निकट बैठ, उसके सोने के बाद सोते थे और सुबह उसके उठने के बाद उठते थे ॥ २४ ॥
इत्थम् व्रतं धारयतः प्रजाथं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥
**अन्वयः—**इत्थं प्रजाथं महिष्या समं व्रतं धारयतः महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणानि सप्त दिनानि व्यतीयुः ।
इत्थमिति । इत्थमनेन प्रकारेण प्रजाथं सन्तानाय महिष्या समभिषिक्तपत्न्या सह । 'कृताभिषेका महिषी' इत्यमरः । व्रतं धारयतः महनीया पूज्या कीर्तिर्यस्य तस्य, दीनानाममुद्धरणं दैन्यविमोचनं तत्रोचितस्य परिचितस्य तस्य नृपस्य, त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ।
**भाषार्थ—**इस प्रकार पुत्रप्राप्ति के लिए अपनी धर्मपत्नी सुदक्षिणा के साथ व्रत को धारण करते हुए यशस्वी एवं दीनों के संरक्षक राजा दिलीप के त्रिगुण सात ( ७ × ३ = २१ ) दिन बीत गये ॥ २५ ॥
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तरुढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ २६ ॥
**अन्वयः—**अन्येद्युः मुनिहोमधेनुः आत्मानुचरस्य भावं जिज्ञासमाना (सती) गङ्गाप्रपातान्तरूढशष्पं गौरीगुरोः गह्वरम् आविवेश ॥ २६ ॥
अन्येद्युरिति । अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने । 'सद्यः परुत्परा०' इत्यादिना निपातनादव्ययत्वम् । 'अद्यात्राह्वाय पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् । तथाऽधरान्यान्यतरेतरात्पूर्वेद्युरादयः' इत्यमरः । मुनिहोमधेनुः । आत्मानुचरस्य भावः मभिप्रायं दृढभक्तित्वम् । 'भावोऽभिप्राय आशयः' इति यादवः । जिज्ञासमाना ज्ञातुमिच्छन्ती । 'ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदे शानच् । प्रपतन्त्यस्मिन्निति प्रपातः पतनप्रदेशः । गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत् । 'शष्पं बालतृणं घासः' इत्यमरः । गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ।
**भाषार्थ—**बाईसवें दिन महर्षि वसिष्ठ की होमसाधनभूत नन्दिनी अपने
५४ रघुवंशमहाकाव्ये
अनुचर राजा दिलीप के भाव को जानने की इच्छा से गंगा के झरनों के पास घास से ढकी हुई हिमालय की गुफा में घुस गई ॥ २६ ॥
सा दुष्प्रधर्षा मनसाऽपि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ २७ ॥
अन्वयः—'सा हिंस्रैः मनसा अपि दुष्प्रधर्षा' इति अद्रिशोभाप्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनः सिंहः तां प्रसह्य चकर्ष किल ।
सेति । सा धेनुर्हिंस्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोरद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षिताभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनु प्रसह्य हठात् । 'प्रसह्य तु हठार्थकम्' इत्यमरः । चकर्ष । किलेत्यलीके ।
भाषार्थ—'उस नन्दिनी के ऊपर हिंसक जन्तु मानसिक कल्पना द्वारा भी आक्रमण नहीं कर सकते' इस अभिप्राय से पर्वतीय शोभा देखने के लिए दृष्टि लगाये हुये राजा दिलीप के अनदेखे शेर ने उस नन्दिनी पर आक्रमण कर दिया।
तदीयमाक्रन्दितमार्त्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवत्र्तयामास नृपस्य दृष्टिम् ॥ २८ ॥
अन्वयः—गुहानिबद्धप्रतिशब्ददीर्घं तदीयम् आक्रन्दितं आर्त्तसाधोः नृपस्य नगेन्द्रसक्तां दृष्टिं रश्मिषु आदाय इव निवर्तयामास ।
तदीयमिति । गुहानिबद्देन प्रतिशब्देन प्रतिध्वनिना दीर्घम् । तस्या इदं तदीयम् । आक्रन्दितमार्तघर्षणम् । आर्तेषु विपन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम् । 'रश्मिषु 'किरणप्रग्रहो रश्मी' इत्यमरः । आदायेव गृहीत्वेव निवर्तयामास ।
भाषार्थ—गुफा में टकराई हुई प्रतिध्वनि से अधिक आवाज वाले उस नन्दिनी के डकारने की आवाज ने दीन-रक्षक राजा दिलीप की हिमालय में लगी हुई दृष्टि को लगाम में पकड़ कर अश्व के समान खींच लिया ॥ २८ ॥
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्र द्रुमं सानुमतः प्रफुल्लम् ॥२९॥
अन्वयः—धनुर्धरः स नृपः पाटलायां गवि तस्थिवांसं केशरिणं सानुमतः धातु मय्याम् अधित्यकायां प्रफुल्लं लोध्रद्रुमम् इव ददर्श ।
स इति । धनुर्धरः सः नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम्, 'क्वसुश्च' इति क्वसुप्रत्ययः । केसरिणं सिंहम् । सानुमतोऽद्रेः । धातोर्गेरिकस्य विकारो धातुमयी तस्यामधित्यकायामूर्ध्वभूमौ 'उपत्यकाद्रेऽरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः । 'उपादिभ्यां०' इति त्यकन्प्रत्ययः । प्रफुल्लो विकसितस्तं 'फुल्ल