रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
द्वितीयः सर्गः ५५
द्वितीयः सर्गः ५५
विकसने इति धातोः पचाद्यच् । प्रफुल्लमिति तकार-पाठे 'णिफला विसरणे' इति धातोः कर्तरि क्तः उत्परास्यातः' इत्युकारादेशः । लोध्राख्यं द्रुममिव ददर्श ।
**भाषार्थ—**धनुर्धारी राजा दिलीप ने लालरङ्ग की नन्दिनी पर बैठे हुए शेर को पर्वतीय गेरुधातु वाली ऊपर की भूमि पर विकसित लोध्र के वृक्ष समान देखा ॥ २९ ॥
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत् प्रसभोद्धृतारिः ॥ ३० ॥
**अन्वयः—**ततः मृगेन्द्रगामी, शरण्यः, प्रसभोद्धृतारिः नृपतिः जाताभिषङ्गः (सन्) वध्यस्य मृगेन्द्रस्य वधाय निषङ्गात् शरम् उद्धर्तुम् ऐच्छत् ।
तत इति । ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी 'शरणं गृहरक्षित्रोः' इत्यमरः । 'शरणं रक्षणे गृहे' इति यादवः । शरणे साधु शरण्यः । 'तत्र साधुः' इति यत्प्रत्ययः । प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपतिः राजा जाताभिषङ्गो जातपराभवः सन् । 'अभिषङ्गः पराभवः' इत्यमरः । वध्यस्य वधार्हस्य । 'दण्डादिभ्यो यः' इति यप्रत्ययः । मृगेन्द्रस्य वधाय निषङ्गात्तूणीरात् । तूणो-पासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः' इत्यमरः शरमुद्धर्तुमैच्छत् ।
**भाषार्थ—**बाद सिंह के समान निर्भीक चलने वाले शरणागतरक्षक शत्रुओं को उखाड़ फेंकने वाले राजा दिलीप ने अपमान का अनुभव करके मारने योग्य उस शेर के वध के लिए तरकस से बाण निकालने की इच्छा की ॥ ३० ॥
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥ ३१ ॥
**अन्वयः—**प्रहर्तुः तस्य वामेतरः करः नखप्रभाभूषितकङ्कपत्रे सायकपुङ्खे एव सक्ताङ्गुलिः (सन्) चित्रार्पितारम्भ इव अवतस्थे ।
वामेतर इति । प्रहर्तुंस्तस्य वामेतरो दक्षिणः करः । नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन् । 'कङ्कः पक्षिविशेषस्य स्याद् गुप्ताकारो युधिष्ठिरे' इति विश्वः । 'कङ्कस्तु कर्कटः' इति यादवः । सायकस्य पुङ्ख एककर्तर्याख्ये मूलप्रदेशे । 'कर्त्तरि पुङ्खे' इति यादवः । सक्ता-ङ्गुलिः सन् । चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव अवतस्थे ।
**भाषार्थ—**प्रहारक उस राजा का दाहिना हाथ नखों की कान्ति से विभूषित कङ्क पक्षी के पंखों वाले बाण की पूंछ में चिपकी अँगुली वाला चित्र में लिखित के समान हो गया ॥ ३१ ॥
| ५६ | रघुवंशमहाकाव्ये |
|---|
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ ३२ ॥
अन्वयः—बाहुप्रतिष्टम्भविवृद्धमन्युः राजा मन्त्रौषधिरुद्धवीर्यः इव अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः स्वतेजोभिः अन्तः अदह्यत ।
बाहुप्रतिष्टम्भेति । बाह्वोः प्रतिष्टम्भेन प्रतिबन्धेन । ‘प्रतिबन्धः प्रतिष्टम्भः’ इत्यमरः । विवृद्धमन्युः प्रवृद्धरोषो राजा । मन्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्ति-र्भोगी सर्प इव ‘भोगी राजभुजङ्गयोः’ इति शाश्वतः । अभ्यर्णमन्तिकम् । ‘उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यमितोऽव्ययम्’ इत्यमरः । आगस्कृतमपराधकारिणम-स्पृशद्भिः । स्वतेजोभिरन्तरदह्यत । ‘अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि’ इति यादवः ।
भाषाथं—हाथ के चिपक जाने से बढ़े हुए क्रोधवाले राजा, मन्त्र और औषध से रुद्ध तेजवाले सांप के समान सामने खड़े हुए अपराधी सिंहको छूने की सामर्थ्य न रखते हुए अपने तेज से भीतर ही भीतर जलने लगे ॥ ३२ ॥
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ ३३ ॥
अन्वयः—निगृहीतधेनुः सिंहः आर्यगृह्यं मनुवंशकेतुं सिंहोरुसत्त्वम् आत्मवृत्तौ विस्मितं तं मनुष्यवाचा विस्माययन्, निजगाद ।
तमिति । निगृहीता पीडिता धेनुर्येन स सिंहः आर्याणां सतां गृह्यं पक्ष्यम् ‘पदात्स्वैरिबाह्यापक्ष्येषु च’ इति क्व्वप् । मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्त्तकम् । सिंह इवोरुसत्वो महाबलस्तम् । आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽ-भूतपूर्वत्वाद्विस्मितम् । कर्त्तरि क्तः । तं दिलीपं मनुष्यवाचा करणेन पुनर्विस्माय-यन्विस्मयमाश्चर्यं प्रापयन्निजगाद । ‘स्मिङ् ईषद्वसने’ इति धातोर्णिचि वृद्धा-वायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम् । ‘विस्मापयन्’ इति पाठे पुगागममात्रं वक्तव्यम् । तच्च ‘नित्यं स्मयतेः’ इति हेतुभयविवक्षायामेवेति ‘भीस्म्योर्हेतुभये’ इत्यात्मनेपदे ‘विस्मापयमानः’ इति स्यात् । तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम् । करणविवक्षायां न कश्चिद्दोषः ।
भाषार्थं—नन्दिनी पर आक्रमण करने वाले सिंह ने उस सत्पक्षपाती, मनु वंश के भूषण, शेर के समान पराक्रमी अपने हाथ के व्यापार में चकित हुए राजा दिलीप को मनुष्य की बोली से और भी चकित करते हुए कहा ॥ ३३ ॥
द्वितीयः सर्गः ५७
अलं महीपाल ! तब श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूच्छति मारुतस्य ॥ ३४ ॥
अन्वयः—हे महीपाल !, तव श्रमेण अलम् । इतः प्रयुक्तम् अपि अस्त्रम् वृथा स्यात् पादपोन्मूलनशक्तिः मारुतस्य रंहः शिलोच्चये न मूच्छति ।
अलमिति । हे महीपाल ! तव श्रमेणालम् ! साध्याभावाच्छ्रमो न कर्तव्यः इत्यर्थः । अत्र गम्यमानसाधनक्रियाऽपेक्षया श्रमस्य करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते "न केवलं श्रूयमाणैव क्रियानिमित्तं करणभावस्य । अपि तर्हि गम्यमानाऽपि" इति । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । इतोऽस्मिन्मयि । सार्वविभक्तिकस्तसिः । प्रयुक्तमप्यस्त्रं वृथा स्यात्—पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं, मारुतस्य रंहो वेगः शिलोच्चये पर्वते न मूच्छति न प्रसरति ।
भाषार्थ—हे राजन् ! परिश्रम करना बेकार है, मेरे ऊपर चलाया हुआ आपका बाण विफल हो जायेगा, क्योंकि वृक्ष को उखाड़ने की शक्ति रखने वाला वायु का वेग पहाड़ के सामने निष्फल हो जाता है ॥ ३४ ॥
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ ३५ ॥
अन्वयः—कैलासगौरं वृषम्, आरुरुक्षोः अष्टमूर्तेः पादार्पणानुग्रहपूतपृष्ठं निकुम्भमित्रं कुम्भोदरं नाम किङ्करं माम् अवेहि ।
कैलासेति । कैलास इव गौरः शुभ्रस्तम् । 'चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः' इति शाश्वतः । वृषं वृषभमारुरुक्षोरारोढुमिच्छोः स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः । अष्टौ मूर्त्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तम् । निकुम्भमित्रं कुम्भोदरं नाम किङ्करं मामवेहि विद्धि । 'पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः' । इति यादवः ।
भाषार्थ—कैलास पर्वत के समान सफेद बैल पर चढ़ने वाले शंकर जी के चरण रखने से पवित्र पीठ वाला निकुम्भ का मित्र कुम्भोदर नाम से प्रसिद्ध मुझे शंकर जी का अनुचर समझो ॥ ३५ ॥
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ ३६ ॥
अन्वयः—पुरः अमुं देवदारुं पश्यसि ( कम् ? ) असौ वृषभध्वजेन पुत्रीकृतः यः स्कन्दस्य मातुः, हेमकुम्भस्तननिःसृतानां, पयसां रसज्ञः ( अस्ति ) ।
५८ रघुवंशमहाकाव्ये
अमुमिति। पुरोऽग्रतोऽमुं देवदारुं पश्यसि इति काकुः। असौ देवदारुः।
वृषभो ध्वजो यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे
च्च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनस्तस्मान्निःसृतानां
पयसामम्बूनां रसज्ञः स्वादज्ञः स्कन्दपक्षे-हेमकुम्भ इव स्तन इति विग्रहः। क्षीरा-
णाम्। 'पयः क्षीरं पयोऽम्बु च' इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः।
भावार्थ—सामने उस देवदारु वृक्ष को देख रहे हो न ? उसे शंकर जी ने
पुत्र के समान माना है जो कात्तिकेय की माता पार्वती के सोने के घटरूपी स्तनों
से निकले हुए दूधरूपी जल के स्वाद को जानने वाला है ॥ ३६ ॥
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ ३७ ॥
अन्वयः—कदाचित् कटं कण्डूयमानेन वन्यद्विपेन अस्य त्वक् उन्मथिता।
अथ अद्रेः तनया असुरास्त्रैः आलीढं सेनान्यम् इव एनं शुशोच।
कण्डूयेति। कदाचित्कटं कपोलं कण्डूयमानेन घर्षयता। 'कण्ड्वादिभ्यो यक्'
इति यक् ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता। अथाद्रेस्तनया गौरी
असुरास्त्रैरालीढं क्षतम्। सेनां नयतीति सेनानीः स्कन्दः। 'पार्वतीन्दनः स्कन्दः
सेनानीः' इत्यमरः। 'सत्सूद्विष-' इत्यादिना क्विप्। तमिव, एनं देवदारुं शुशोच।
भावार्थ—किसी समय कनपटी खुजलाते २ एक जंगली हाथी ने इस देवदारु
वृक्ष की छाल को छुड़ा दिया था। तब हिमालय की पुत्री पार्वती ने दैत्यों
के अस्त्रों से घायल कात्तिकेय के समान इस देवदारु के प्रति शोक किया था।
तदाप्रभृत्येव वनद्विपानां त्रासाथंमस्मिन्नहमद्रिकुक्षौ।
व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्तिः ॥ ३८ ॥
अन्वयः—तदाप्रभृति- एव, वनद्विपानां, त्रासार्थं, शूलभृता, अङ्कागतसत्त्ववृत्तिः,
सिंहत्वं, विधाय, अस्मिन् अद्रिकुक्षौ अहं व्यापारितः।
तदेति। तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वन-
द्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन, अङ्कं समीपमागताः प्राप्ताः सत्त्वाः
प्राणिनो वृत्तिर्यंस्मिंस्तत् 'अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराघयः' इति केशवः।
सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितः नियुक्तः।
भावार्थ—उसी समय से ही जंगली हाथियों को डराने के लिए शिवजी ने
समीप में आए हुए प्राणियों से जीवन निर्वाह करने वाली सिंहवृत्ति देकर मुझे
इस पर्वत की गुफा में नियुक्त कर दिया है ॥ ३८ ॥
द्वितीयः सर्गः ५६
तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषाश्चान्द्रमसी सुधेव ॥ ३९ ॥
अन्वयः—परमेश्वरेण प्रदिष्टकाला उपस्थिता एषा शोणितपारणा सुरद्विषः चान्द्रमसी सुधा इव क्षुधितस्य तस्य मे तृप्त्यै, अलम् ।
तस्येति । परमेश्वरेण प्रदिष्टो निर्दिष्टकालो भोजनवेला यस्याः सोपस्थिता प्राप्तेषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनं, सुरद्विषो राहोः, चन्द्रमस इयं चान्द्रमसी सुधेव, क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे मम सिंहस्य तृप्त्या अलं पर्याप्ता । 'नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च' इत्यनेन चतुर्थी ।
भाषार्थ—उस मुझ भूखे के भरपेट भोजन के लिए, शंकर जी के बताये हुए भोजन के समय पर उपस्थित, यह रुधिर की पारणा (गोरक्त) राहु के लिए चांद सम्बन्धी अमृत के समान काफी है ॥ ३९ ॥
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ ४० ॥
अन्वयः—सः त्वं लज्जां विहाय निवर्तस्व भवान् गुरोः दर्शितशिष्यभक्तिः (अस्ति) । यत् रक्ष्यं शस्त्रेण अशक्यरक्षं तत् (नष्टम् अपि) शस्त्रभृतां यशः न क्षिणोति ।
स त्वमिति । स एवमुपायशून्यत्वं लज्जां विहाय निवर्तस्व । भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति । ननु गुरुधनं विना कथं तत्समीपं गच्छेयमत आह—शस्त्रेणेति । यद्रक्ष्यं धनं शस्त्रेणायुधेन । 'शस्त्रमायुधलोहयोः' इत्यमरः । अशक्या रक्षा यस्य तदशक्यरक्षम् । रक्षितुमशक्यमित्यर्थः तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति । अशक्यार्थेष्वप्रविधानं न दोषायेति भावः ।
भाषार्थ—इस प्रकार उपायराहत तुम लज्जा को छोड़कर जाओ । तुमने गुरु-भक्ति दिखला दी । जो रक्षा करने के योग्य वस्तु शस्त्र से नहीं बचायी जा सकती वह नष्ट होती हुई भी शस्त्रधारियों की कीर्ति को दूषित नहीं कर सकती ॥ ४०॥
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥४१ ॥
अन्वयः—मृगाधिराजस्य इति प्रगल्भं वचः निशम्य गिरिशप्रभावात् प्रत्याहतास्त्रः पुरुषाधिराजः आत्मनि अवज्ञां शिथिलीचकार ।
६० रघुवंशमहाकाव्ये
इतीति । पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्रः कुण्ठितास्त्रः सन्नात्मनि विषयेऽवज्ञामपमानं शिथिलीचकार । तत्याजेत्यर्थः । अवशातोऽहमिति निर्वेदं न प्रापेत्यर्थः । समानेषु हि क्षत्रियाणामभिमानो न सर्वेश्वरं प्रतीति भावः ।
**भाषार्थ—**इस प्रकार सिंह के धृष्टतायुक्त वचन को सुनकर शंकर के प्रभाव से रुके हुए अस्त्रवाले राजा ने अपने से अपमान का भाव शिथिल कर दिया ॥४१॥
प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥ ४२ ॥
**अन्वयः—**तत्पूर्वभङ्गे इषुप्रयोगे वितथप्रयत्नः वज्रं मुमुक्षन् त्र्यम्बकवीक्षणेन जडीकृतः वज्रपाणिः इव एनं प्रत्यब्रवीत् ।
प्रतीति । स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिंस्तत्पूर्वभङ्गे इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः अत एव वज्रं कुलिशं मुमुक्षन्मोक्तुमिच्छन् । अम्बकं लोचनम् । 'दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि' इति हलायुधः त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः यस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः । वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्' इति पाणेः सप्तम्यन्तरयोत्तरनिपातः । स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीच्च 'बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः' इति महाभारते ।
**भाषार्थ—**पहले रुकावट पड़ने पर बाण चलाने में असफल प्रयत्न वाले राजा दिलीप ने वज्र प्रहार करने की इच्छा करने वाले शिव जी के देखने से निश्चेष्ट हुए इन्द्र के समान सिंह से कहा ॥ ४२ ॥
संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृता हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥ ४३ ॥
**अन्वयः—**हे मृगेन्द्र !, संरुद्धचेष्टस्य ( मम ) तत् वचः कामं हास्यम् । यत्, अहं विवक्षुः हि भवान् प्राणभृताम् अन्तर्गतं सर्वं भावं वेद । अतः अभिधास्ये ।
संरुद्धचेष्टस्येति । मृगेन्द्र ! संरुद्धचेष्टस्य प्रतिबद्वव्यापारस्य मम तद्वचो वाक्यं कामं हास्यं परिहसनीयम् । यद्वचः 'स त्वं मदीयेन' (१।४५) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि । तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिङ्करत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह—अन्तरिति । हि यतो भवान्प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति । 'विदो लटो वा' इतिणलादेशः । अतोऽहमभि
द्वितीयः सर्गः
६१
धास्ये वक्ष्यामि । वच इति प्रकृतं कर्म सम्बद्ध्यते । अन्ये त्वीदृग्वचनमाकर्ण्या-
सम्भावितार्थमेतदित्यपहसन्ति, अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयो-
रेकविध एवायमिति जानासि । अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः ।
भाषार्थ—मृगेन्द्रराज ! असफलप्रवास होने से मेरी यह बात अत्यन्त हास्या-
स्पद है, जिसे मैं कहने जा रहा हूँ, तथापि आप प्राणियों के मनोगत सभी
भावों को जानते हैं इसलिए मैं कहूँगा ॥ ४३ ॥
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥
अन्वयः—स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः, सः मे मान्यः पुरस्तात् नश्यत् इदम् आहिताग्नेः गुरोः धनम् अपि अनुपेक्षणीयम् ।
मान्य इति । प्रत्यवहारः प्रलयः । स्थावराणां तरुशैलादीनां जङ्गमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलङ्घ्यशासन इत्यर्थः । शासनं च 'सिंहत्वमङ्कागतसत्त्ववृत्तिः (२।३८) इत्युक्त-
रूपम् । तर्हि विसृज्य गम्यताम् । नेत्याह—गुरोरपीति । पुरस्तादग्रे नश्यदिद-
माहिताग्नेर्गुरोधनमपि गोरूपमनुपेक्षणीयम् ! आहिताग्नेरिति विशेषणेनानुपेक्षा-
कारणं हविः साधनत्वं सूचयति ।
भाषार्थ—वृक्ष पर्वत आदि स्थावर और मनुष्यादि जङ्गम के उत्पत्ति पालन और नाश करने वाले वे शिवजी मेरे पूजनीय हैं (किन्तु) अग्निहोत्री गुरु का सम्मुख नष्ट होता हुआ यह गौरूपी धन भी तो उपेक्षा न करने के लायक है ॥ ४४ ॥
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्त्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सां विसृज्यतां धेनुरियं महर्षेः ॥ ४५ ॥
अन्वयः—सः त्वं मदीयेन देहेन शरीरवृत्तिं जीवनं निर्वर्त्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सां महर्षेः इयं धेनुः विसृज्यताम् ।
स इति । सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्त्तयितुं सम्पादयितुं प्रसीद । दिनावसाने उत्सुको माता समागमिष्यतीत्यु-
त्कण्ठितो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ।
भाषार्थ—वह तू मेरे शरीर से अपने शरीर के जीवन को सम्पादन करने लिए प्रसन्न हो । सन्ध्याके समय उत्कण्ठित छोटे बछड़े वाली महर्षि की इस नन्दिनी गौ को छोड़ दो ॥ ४५ ॥
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥ ४६ ॥
| ६२ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—अथ गिरिर्गह्वराणाम् अन्धकारं दंष्ट्रामयूखैः शकलानि कुर्वन्(सन्) भूतेश्वरपार्श्ववर्ती सः किञ्चित् विहस्य, अर्थपति भूयः बभाषे ।
अथेति । अथ भूतेश्वरस्य पार्श्ववर्त्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम् । 'देवखातबिले गुहा गह्वरम्' इत्यमरः । अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन् । निरस्यन्नित्यर्थः । किञ्चिद्विहस्यार्थपतिं नृपं भूयो बभाषे । हास्यकारणम् 'अल्पस्य हेतोर्बहुहातुमिच्छन्' इति वक्ष्यमाणं द्रष्टव्यम् ।
भाषार्थ—इसके बाद दांतों की कान्ति से पर्वत की गुफाओं के अन्धकार को छिन्न करते हुए शिवजी के समीप रहनेवाले सिंह ने कुछ हँसकर राजा से फिर कहा ॥ ४६ ॥
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचार मूढः प्रतिभासि मे त्वम् ॥ ४७ ॥
अन्वयः—एकातपत्रं जगतः प्रभुत्वं नवं वयः इदं कान्तं वपुः च इति एवं अल्पस्य हेतोः बहु हातुम् इच्छन् त्वं विचारमूढः मे प्रतिभासि ।
एकातपत्रमिति । एकातपत्रमेकच्छत्रं जगतः प्रभुत्वं स्वामित्वम् । नवं वयो यौवनम् । इदं कान्तं रम्यं वपुश्च । इत्येवं बहु अल्पस्य हेतोरल्पेन कारणेन, अल्पफलायेत्यर्थः । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकार्यविमर्शो मूढो मूर्खो मे मम प्रतिभासि ।
भाषार्थ—संसार का एक-छत्र आधिपत्य, नया यौवन और इस सुन्दर शरीर को थोड़े के लिए अधिक छोड़ने की इच्छा करनेवाले आप मुझे कर्त्तव्याकर्तव्य विचार में मूर्ख मालूम पड़ते हैं ॥ ४७ ॥
भूतानुकम्पाः तव चेदियं गौरैका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि ॥ ४८ ॥
अन्वयः—तव भूतानुकम्पा चेत् त्वदन्ते इयम् एका गौः स्वस्तिमती भवेत् । हे प्रजानाथ ? जीवन् पुनः पिता इव प्रजा उपप्लवेभ्यः शश्वत् पासि ।
भूतानुकम्पेति । तव भूतेष्वनुकम्पा कृपा चेत् । 'कृपा दयाऽनुकम्पा स्यात्' इत्यमरः । कृपैव वर्त्तते चेदित्यर्थः । तर्हि त्वदन्ते तव नाशे सतीयमेका गौः । स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती भवेत् । जीवेदित्यर्थः । 'स्वस्त्याशीः क्षेमपुण्यादौ' इत्यमरः । हे प्रजानाथ ! जीवन्पुनः पितेव प्रजा उपप्लवेभ्यः शश्वत्सदा । 'पुनः सदार्थयो. शश्वत्' इत्यमरः । पासि रक्षसि । स्वप्राणव्ययेनैकधेनुरक्षणोद्धारं जीवितेनैव शश्वदखिलजगतत्राणमित्यर्थः ।
भाषार्थ—यदि तुम्हारी प्राणियों पर दया है तो विचार करो कि तुम्हारे मरने