रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
तृतीयः सर्गः ८३
तृतीयः सर्गः ८३
नालेख्यसमर्पिताश्चित्रापिता इव बभूवुः । निशीथशब्दो दीपानां प्रभाऽऽधिक्य-
सम्भावनार्थः ।
**भाषार्थ—**प्रसूतिगृह के चारों ओर फैलने वाले, सुन्दर जन्म लेने वाले उस बालक के स्वाभाविक तेज से एकाएक हतकान्ति होकर आधी रात के दीपक चित्र में लिखे हुए दीप के समान हो गए ॥ १५ ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम् ।
अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ॥ १६ ॥
**अन्वयः—**भूपतेः अमृतसम्मिताक्षरं कुमारजन्म शंसते शुद्धान्तचराय जनाय शशिप्रभं छत्रम् उभे चामरे च एतत् त्रयम् एव अदेयम् आसीत् ।
जनायेति । भूपतेर्दिलीपस्यामृतसम्मिताक्षरममृतसमानाक्षरम् । 'सरूपसमसम्मिता' इत्याह दण्डी । कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तः-पुरचारिणे जनाय त्रयमेवादेयमासीत् । तत् किं ? शशिप्रभमुज्ज्वलं छत्रम् । उभे चामरे च । छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ।
**भाषार्थ—**राजा दिलीप के लिए 'राजकुमार का जन्म हुआ' ऐसा अमृत के समान कहने वाले रनिवास के परिचारकों के लिए, चन्द्रिका के समान प्रभा वाले छत्र और दो राजचिह्न चामर ये तीन ही वस्तु न देने योग्य थी ॥ १६ ॥
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दुदर्शनात् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ १७ ॥
**अन्वयः—**निवातपद्मस्तिमितेन चक्षुषा कान्तं सुताननं पिबतः नृपस्य गुरुः प्रहर्षः इन्दुदर्शनात् महोदधेः पूरः इव आत्मनि न प्रबभूव ।
निवातेति । निवातो निर्वातप्रदेशः । 'निवातावाश्रयावातौ' इत्यमरः । तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुत्कटः प्रहर्षः (कर्त्ता) इन्दुदर्शनाद् गुरुर्महोदधेः पूरो जलोघ इव । आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक । अन्तर्न माति स्मेति यावत् । न ह्यल्पाधारेऽधिकं मीयत इति भावः । यद्वा हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव । आत्मानं नियन्तुं न शशाक । किन्तु वहिनिर्जगामेत्यर्थः ।
**भाषार्थ—**वायुरहित प्रदेश में स्थित कमल के समान निर्निमेष दृष्टि से सुन्दर पुत्र के मुख को देखते राजा दिलीप का महान् हर्ष चन्द्र के दर्शन से समुद्र के ज्वार के समान उनके शरीर में न समा सका ॥ १७ ॥
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ १८ ॥
८४ | रघुवंशमहाकाव्ये
अन्वयः— सः दिलीपसूनुः तपस्विना पुरोधसा तपोवनात् एत्य अखिले जातकर्मणि कृते (सति) आकरोद्भवः प्रयुक्तसंस्कारः मणि इव अधिकं बभौ।
स इति। दिलीपसूनुः। तपस्विना पुरोहितेन। 'पुरोधास्तु पुरोहितः' इत्यमरः। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य। अखिले समग्रे जातकर्मणि कर्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः। मणिरिव। अधिकं बभौ वसिष्ठमन्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः। अत्र मनुः—"प्राङ्नाभिवन्धनात्पुंसो जातकर्म विधीयते" इति।
भाषार्थ— वह राजा दिलीप का पुत्र तपस्वी पुरोहित वसिष्ठ जी द्वारा तपोवन से आकर सविधि जातकर्म संस्कार के किए जाने पर खान से निकले और सानपर चढ़ाकर पालिस की गई मणि के समान अधिक शोभित हुआ ॥ १८ ॥
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥ १९ ॥
अन्वयः— सुखश्रवाः मङ्गलतूर्यनिस्वनाः वारयोषितां प्रमोदनृत्यैः सह मागधीपतेः सद्मनि केवलं न व्यजृम्भन्त, किन्तु दिवौकसां पथि अपि (व्यजृम्भन्त)।
सुखेति। सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः श्रुतिसुखाः। मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः। प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृहे एव न व्यजृम्भन्त, किन्तु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः। तेषां पन्थाकाशेऽपि व्यजृम्भन्त। तस्य देवांशत्वाद देवोपकारित्वाच्च देवदुन्दुभयोऽपि नेदुरिति भावः।
भाषार्थ— कान को सुख देने वाले मङ्गल वाद्यों की आवाज वेश्याओं के आनन्दपूर्ण नाचों के साथ सुदक्षिणा के पति राजा दिलीप के राजमहल में ही नहीं, परन्तु आकाश में भी व्याप्त हो उठी ॥ १९ ॥
न संयतस्तस्य बभूव रक्षितुर्विभाजयेद्यं सुतजन्मवर्षितः।
ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥ २० ॥
अन्वयः— रक्षितः तस्य संयतः न बभूव सुतजन्मवर्षितः (सन्) यं विसर्जयेत् (किन्तु) तदा स पितॄणाम् ऋणाभिधानात् केवलं स्वयम् एव मुमुचे।
नेति। रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य। अत एव चौरायभावात् संयतो बद्धो न बभूव नाभूत्। किं तेनात आह—विसर्जयेदिति। सुतजन्मना