सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टादशः सर्गः ३११

अष्टादशः सर्गः ३११

तपनीयपीठं काञ्चनपीठमसंस्पृशन्तावल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसि-
क्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धैरुन्नतैर्मौलिभिर्मुङ्कुटैर्ववन्दिरे प्रणेमुः ।
भाषार्थ— उस सिंहासन से उनके पैर लटकते रहते थे क्योंकि छोटे होने के कारण पाद-पीठ तक नहीं पहुँच पाते थे । राजाओं ने अपने प्रसिद्ध मुकुटों से उन महावर लगे पैरों का वन्दन किया ॥ ४१ ॥

मणौ महानील इति प्रमावादल्पप्रमाणेऽपि यथा न मिथ्या ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥ ४२ ॥

अन्वयः— अल्पप्रमाणे अपि मणौ प्रभावात् महानील इति शब्दः यथा मिथ्या न, तथा एव अर्भके अपि तस्मिन् प्रतीतः महाराज इतिशब्दः न मिथ्या युयुजे ।

मणाविति । अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न, तथैवार्भके शिशावपि तस्मिन्सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ।

भाषार्थ— जिस प्रकार छोटे होने पर भी मणि का महानील नाम निरर्थक नहीं होता उसी प्रकार बालक सुदर्शन का महाराज नाम भी उचित ही लगता था ॥ ४२ ॥

पर्यन्तसञ्चारितचामरस्य कपोललोलोभयकाकपक्षात् ।
तस्याननादुच्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम् ॥ ४३ ॥

अन्वयः— पर्यन्तसञ्चारितचामरस्य तस्य कपोललोलोभयकाकपक्षात् उच्चरितः विवादः अर्णवानां वेलासु अपि न चस्खाल ।

पर्यन्तेति । पर्यन्तयोः पार्श्वयोः सञ्चारिते चामरे यस्य तस्य बालस्य सम्बन्धिनः कपोलयोर्लोलावभौ काकपक्षौ यस्य तस्मादाननादुच्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल । शिशोरपि तस्याज्ञाभङ्गो नासीदित्यर्थः । चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः । उभयकाकपक्षादित्यत्र 'वृत्तिविषये उभयपुत्र इतिवदुभशब्दस्थाने उभयशब्दप्रयोगः' इत्युक्तं प्राक् ।

भाषार्थ— उसके आसपास चँवर डुलाये जाते थे और उनके गालों पर लटें लटकती रहती थीं। इस बाल्यावस्था में भी उन्होंने जो आज्ञायें दीं उन्हें समुद्र के तटवर्ती लोगों ने भी नहीं टाला तो पास रहनेवालों की क्या बात है ॥ ४३ ॥

निवृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलक दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ ४४ ॥

अन्वयः— निवृत्तजाम्बूनदपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः सः अरिसुन्दरीणां मुखानि तेन एव शून्यानि चकार ।

३१२ रघुवंशमहाकाव्ये

निर्वृत्तेति। निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजारिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार। अखिलमपि शत्रुवर्गमवधीदिति भावः।

भाषार्थ— सुवर्ण का पट्टा बँधे हुए अपने ललाट पर वे स्वयं तिलक लगाते थे और सदा हँसमुख रहते थे पर संग्राम में शत्रुओं को नष्ट करके उन्होंने शत्रुओं की स्त्रियों के मुख का तिलक और उनकी मुसकराहट छीन ली ॥ ४४ ॥

शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन।
नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभराम्बभूव ॥ ४५ ॥

अन्वयः— शिरीषपुष्पाधिकसौकुमार्यः ( अतएव ) स भूषणेन अपि खेदं यायात् स नितान्तगुर्वी अपि धरित्र्या धुरं अनुभावात् बिभरांबभूव।

शिरीषेति। शिरीषपुष्पाधिकसौकुमार्यः। कोमलाङ्ग इत्यर्थः, अत एव स राजा भूषणेनापि खेदं श्रमं यायाद् गच्छेत्। एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात्सामर्थ्याद् बिभराम्बभूव बभार। 'भीह्रीभृहुवां श्लुवच्च' इति विकल्पादाम्प्रत्ययः।

भाषार्थ— वे सिरस के फूल से भी अधिक सुकुमार थे इसलिए उन्हें गहने-पहनने में भी कष्ट होता था फिर भी उनमें आत्मशक्ति इतनी थी कि उन्होंने पृथ्वी के अत्यन्त भारी भार को संभाल लिया ॥ ४५ ॥

न्यस्ताक्षरामक्षरभूमिकायां कात्स्न्येन गृह्णाति लिपिं न यावत्।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥ ४६ ॥

अन्वयः— अक्षरभूमिकायां न्यस्ताक्षरां लिपिं कात्स्न्येन यावत् न गृह्णाति स तावत् श्रुतवृद्धयोगात् सर्वाणि दण्डनीतेः फलानि उपायुङ्क्त।

न्यस्तेति। अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपंक्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां मातृकां कात्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुंक्तान्वभूत्। प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यमानं शास्त्रं संवादार्थमिवाभवदित्यर्थः।

भाषार्थ— अभी वे पटिया पर अच्छी तरह अक्षर भी लिखना नहीं सीख पाये थे कि विद्वानों के संसर्ग से वे दण्डनीति और राजनीति की सारी बातें जान गये ॥ ४६ ॥

उरस्यपर्याप्तनिवेशभागा प्रौढीमविष्यन्तमुदीक्षमाणा।
सञ्जातलज्जेव तमातपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥ ४७ ॥