रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
एकादशः सर्गः । ३५५
एकादशः सर्गः । ३५५
के मित्र पुराने और इतिहास के ज्ञाता विश्वामित्रजी उन्हें पुरानी कथायें सुनाते चले जा रहे थे । अर्थात् पुराने इतिहासों को सुनते हुए चलने के कारण पैदल चलने पर भी उन्हें कष्ट नहीं हुआ ॥ १० ॥
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥
अन्वयः—सरांसि रसवद्भिः अम्बुभिः पत्रिणः श्रुतिसुखैः कूजितैः वायवः सुरभिपुष्परेणुभिः जलदाः छायया च तौ सिषेविरे ।
ताविति । तो राघवौ कर्मभूतौ सरांसि कर्तॄणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे । पत्रिणः पक्षिणः सुखयन्तीति सुखानि पचाद्यच् । श्रुतीनां सुखानि तैः कूजितैः वायवः सुरभिपुष्परेणुभिः सुगन्धिपरागैः जलदाश्छायया च सिषेविरे इति सर्वत्र संबध्यते ।
भाषार्थ—सरोवरों ने मधुर जल से, पक्षियों ने कानों को सुखप्रद कलरवों से, वायु ने सुगन्धित पुष्प परागों से, मेघों ने शीतल छाया से उन दोनों राजकुमारों की सेवा की ॥ ११ ॥
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२ ॥
अन्वयः—तपस्विनः कमलशोभिनां अम्भसां तथा न परिश्रमच्छिदां शाखिनाम् च न यथा उभयोः तयोः लघुना दर्शनेन प्रीतिम् आपुः ।
नेति । तप एषामस्तीति तपस्विनः । "तपःसहस्राभ्यां विनीनो" इति विनिप्रत्ययः । लघुनेष्टेन । 'त्रिष्विष्टेऽल्पे लघुः' इत्यमरः । तयोरुभयोः कर्मभूतयोः दर्शनेन यथा प्रीतिमापुः तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ।
भाषार्थ—कमलों से शोभायमान जल के दर्शन से परिश्रम को दूर करने वाले वृक्षों की छाया को देखकर भी आश्रमवासी तपस्वी इतना प्रसन्न नहीं हुए थे, जितना इन दोनों राजकुमारों को देखकर वे प्रसन्न हुए ॥ १२ ॥
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥
अन्वयः—स आत्तकार्मुकः दाशरथिः स्थाणुदग्धवपुषः तपोवनं प्राप्य चारुणा विग्रहेण मदनस्य प्रतिनिधिः अभवत् कर्मणा न ।
स्थाण्विति । स आत्तकार्मुकः दशरथस्यापत्यं पुमान्दाशरथी रामः । "अत
| ३५६ | रघुवंशमहाकाव्ये |
|---|
इन्,'' इतीञ्प्रत्ययः । स्थाणुर्हरः । 'स्थाणुः कीले हरे स्थिरे' इति विश्वः । तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन 'विग्रहः समरे काये' इति विश्वः । प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः देहेन मदनसुन्दर इति भावः ।
**भावार्थ—**जिस तपोवन में भगवान् शंकर ने काम को जलाया था, वहाँ जब दशरथनन्दन राम धनुष लिये हुए पहुँचे, तब मालूम पड़ा कि मानों वे वहां अपने शरीर की सुन्दरता से कामदेव के प्रतिनिधि बनकर आये हों, किन्तु कार्य से (कामदेव के प्रतिनिधि) नहीं ॥ १३ ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥
**अन्वयः—**कौशिकात् विदितशापया सुकेतुसुतया खिलीकृते पथि तौ स्थलनिवेशिताटनी लीलया एव धनुषी अधिज्यतां निन्यतुः ।
ताविति । रामायणवचनम्—‘‘अगस्त्यः परमःक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपहाय दारुणं रूपमस्तु ते ।।’’ इति । तदेतदाह—विदितशापयेति । कौशिकादाख्यातुः । ‘‘आख्यातोपयोगे’’ इत्यापादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । ‘खिलमप्रहतं स्थानम्’ इति हलायुधः । तौ रामलक्ष्मणौ स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ । ‘कोटिरस्याटनिः’ इत्यमरः । लीलयैव धनुषी अधिकृते । ज्ये मौर्व्यौ ययोस्ते अधिज्ये । ‘ज्या मोर्वीमातृभूमिषु’ इति विश्वः । तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ नयतिर्द्विकर्मकः ।
**भावार्थ—**मार्ग में उन्हें वह सुकेतु की कन्या ताड़का नामक राक्षसी मिली। जिसने सारे वन को उजाड़ बना दिया था और जिसके शाप की कथा विश्वामित्र जी ने राम को पहले ही सुना दी । उसे देखते-देखते ही उन दोनों भाइयों ने अपने धनुष को पृथ्वी पर टेककर डोरी चढ़ा ली ॥ १४ ॥
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ १५ ॥
**अन्वयः—**अथ तयोः ज्यानिनादं गृह्णती बहुलक्षपाछविः चलकपालकुण्डला ताडका निबिडा बलाकिनी कालिका इव प्रादुः आस ।
ज्येति । अथ तयोर्ज्यानिनादं गृह्णती जानती । शृण्वतीत्यर्थः बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा । 'बहुलः कृष्णपक्षे च' इति विश्वः । चले कपाले एव कुण्डले
एकादशः सर्गः
३५७
यस्याः सा तथोक्ता ताडका निबिडा सान्द्रा बलाकिनी वलाकावती । “व्रीह्या-दिभ्यश्च” इतीनिः । कालिकेव घनावलीव । 'कालिका योगिनीभेदे काष्ण्ये गौर्यां घनावलो' इति विश्वः । प्रादुरास प्रादुर्बभूव ।
**भाषार्थ—**इसके बाद उन दोनों के द्वारा किये गये धनुष टंकार को सुनते ही कानों में लटकी हुई मनुष्यों की खोपड़ियों को हिलाती हुई, अमावस्या की रात्रि के समान, काली कलूटी ताडका उनके आगे आकर इस प्रकार खड़ी हो गई, मानों बगुलों की पंक्ति में काली बदली हो ॥ १५ ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥
**अन्वयः—**तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया तया पितृकाननोत्थया वात्यया इव भरताग्रजः अभ्यभावि ।
तीव्रेति । तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवसाः तया प्रेतचीवरवसा । वसतेराच्छादनार्थात्क्विप् । स्वनेन सिंहनादेनोग्रया तया ताडकया पितृकानने श्मशान उत्थोत्पन्ना । “आतश्चोपसर्गे” इत्युत्पूर्वात्तिष्ठतेः कर्तरि कप्रत्ययः । तया वात्ययेव वातसमूहेनेव । “पाशादिभ्यो यः” । भरताग्रजो रामोऽभ्यभाव्यभिभूतः । कर्मणि लुङ् । तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ।
**भाषार्थ—**बड़े वेग से मार्ग के वृक्षों को कंपाती हुई, प्रेतों का कफन पहनी हुई, भयंकर गर्जनेवाली और श्मशान से उठे बवंडर के समान आकृति वाली वह ताड़का राम के ऊपर टूट पड़ी ॥ १६ ॥
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥
**अन्वयः—**उद्यतैकभुजयष्टिं आयतीं, श्रोणिलम्बिपुरुषान्त्रमेखलां तां विलोक्य राघवः वनितावधे घृणां पत्रिणा सह मुमोच ।
उद्यतेति । उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम् । आयतीमायान्तीम् इण् धातोः शतरि “उगितश्च” इति ङीप् । श्रोणिलम्बीनि पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम् इति विशेषणद्वयेनाप्याततायित्वं सूचितम् । अतएव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा । 'जुगुप्सा करुणे घृणे' इत्यमरः । पत्रिणेषुणा सह । 'पत्री रोप इषुद्वयोः' इत्यमरः । मुमोच मुक्तवान् । आततायिवधे मनुः— “आततायिनमायान्तं हन्यादेवाविचारयन् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥” इति ।
| ३५८ | रघुवंशमहाकाव्ये |
|---|
भाषार्थ— लाठी के समान एक भुजा को ऊपर उठाई हुई और मनुष्यों की आंतों की करधनी बनाकर कमर में पहनी हुई उस ताड़का को आती हुई देखकर राम ने स्त्रीवध करने की घृणा और वाण दोनों एक साथ छोड़े ॥ १७ ॥
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥
अन्वयः— स रामसायकः शिलाघने ताडकोरसि यत् विवरं चकार तत् रक्षसां अप्रविष्टविषयस्य अन्तकस्य द्वारतां अगमात् ।
यदिाति । स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार, तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अन्तकस्य यमस्य द्वारतामगमत् । इयं प्रथमा रक्षोमृतिरिति भावः ।
भाषार्थ— रामचन्द्रजी के उस बाण ने पत्थर की चट्टान के समान अति कठोर ताड़का की छाती में जो छिद्र किया, वह ऐसा लगा मानों राक्षसों के देश में नहीं पहुँचे हुए यमराज को प्रवेश करने के लिए द्वार खोल दिया हो ॥ १८ ॥
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलम्।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥
अन्वयः— बाणभिन्नहृदया निपेतुषी ( सती ) सा केवलं स्वकाननभुवं न व्यकम्पयत् ( किन्तु ) विष्टपत्रयं पराजयस्थिरां रावणश्रियं अपि व्यकम्पयत् ।
बाणेति । बाणभिन्नहृदया निपेतुषी निपतिता सती ‘’क्वसुश्च’’ इति क्वसु-प्रत्ययः । ‘’उगितश्च’’ इति ङीप् । सा केवलामेकाम् । ‘निर्णति केवलमिति त्रिलिङ्गं त्वेक कृत्स्नयोः’ इत्यमरः । स्वकाननभुवं न व्यकम्पयत् किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् । ताड़कावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ।
भाषार्थ— राम के बाण से ताड़का की छाती फट गई और वह नीचे गिर गई, उसके गिरने से केवल उस जंगल की भूमि ही नहीं कांप उठी किन्तु तीनों लोकों को जीतने से पाई हुई रावण की राजलक्ष्मी भी कांप उठीं ॥ १९ ॥
अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते—
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥