सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

सप्तमः सर्गः २११

सप्तमः सर्गः २११

आप इन्दुमती से विवाह करने की प्रार्थना की थी पर इसने स्वयम्बर करके
ही अपना विवाह करना उचित समझा । अन्यथा इन्दुमती विष्णु को लक्ष्मी के
समान अपने अनुरूप पति अज को कैसे पा सकती ? ॥ १३ ॥

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥ १४ ॥

अन्वयः—(प्रजापतिः) स्पृहणीयशोभम् इदं द्वन्द्वं चेत् परस्परेण न अयोज-
यिष्यत् (तर्हि) अस्मिन् द्वये प्रजानां पत्युः रूपविधानयत्नः वितथः अभविष्यत् ।

परस्परेणेति । स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं मिथुनम् । "द्वन्द्वं रहस्य-
मर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु" इत्यनेन निपातः । परस्परेण
नायोजयिष्यच्चेन्न योजयेद्यदि तर्हि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधान-
यत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलॊऽभविष्यत् । एतादृशानुरूपस्त्रीपुंसान्त-
राभावादिति भावः । "लिङ्निमित्ते लृङ् क्रियातिपत्तौ" लृङ् । 'कुतश्चित्कारण-
वैगुण्यात्क्रियाया अनभिनिर्वृत्तिः क्रियातिपत्तिः' इति वृत्तिकारः ।

भाषार्थ—यदि ब्रह्मा अत्यन्त सुन्दर इन दोनों की जोड़ी न मिलाते तो इन
दोनों को इतना सुन्दर बनाने का उनका प्रयास व्यर्थ ही हो जाता ॥ १४ ॥

रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथाहि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥ १५ ॥

अन्वयः—इमौ नूनं रतिस्मरौ अभूताम् तथाहि इयं बाला राज्ञां सहस्रेषु
आत्मप्रतिरूपम् एव गता हि मनः जन्मान्तरसंगतिज्ञम् (भवति) ।

रतीति । रतिस्मरौ नित्यसहचरावित्यभिप्रायः । नूनं तावेवेयं चेमौ दम्पती
अभूताम् एतद्रूपेणोत्पन्नौ । कुतः तथाहि इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये
सत्यपि व्यत्यासकारण इति भावः । आत्मप्रतिरूपं स्वतुल्यमेव । 'तुल्यसंकाश-
नीकाशप्रकाशप्रतिरूपकाः' इति दण्डी । गता प्राप्ता । तदपि कथं जातमत्त आह—
हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति । तदेवेदमिति प्रत्यभिज्ञाभावेऽपि वासना-
विशेषवशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम् । जन्मान्तरसाहचर्यमेवात्र
प्रवर्तकमिति भावः ।

भाषार्थ—ये दोनों पूर्व जन्म में रति और कामदेव ही रहे होंगे । इसीलिए
तो हजारों राजाओं के बीच में इन्दुमती ने अज को ही वरण किया है, यह बात
ठीक ही है कि मन पूर्व जन्म के सम्बन्ध को भलीभांति पहचान
लेता है ॥ १५ ॥

इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः ।
उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ १६ ॥

२१२ | रघुवंशमहाकाव्ये

अन्वयः—इति पोरवधूमुखेभ्यः उद्गताः श्रोत्रसुखाः कथाः शृण्वन् ( सन् ) कुमारः मंगलसंविधाभिः उद्भासितं सम्बधिनः सद्य समाससाद ।

इतीति । इति स्थाने वृत्याद्युक्तप्रकारेण पोरवधूमुखेभ्य उद्गता उत्पन्नाः श्रोत्रयोः सुखा मधुराः सुखशब्दो विशेष्यनिघ्नः । 'पापं पुण्यं सुखादि च' इत्यमरः । कथा गिरः शृण्वन्कुमारोऽजो मङ्गलसंविधाभिर्मङ्गलसंरचनाभिरूद्भासितं शोभितं संबन्धिनः कन्यादायिनः सद्य गृहं समाससाद प्राप ।

भाषार्थ—नगर की महिलाओं के मुखसे इस प्रकार की कर्णसुखद प्रिय बातें सुनते हुए कुमार अज अपने सम्बन्धी महाराज भोज के उस राजभवन में पहुँच गये जो मंगलमय सामग्रियों की सजावट से जगमगा रहा था ॥ १६ ॥

ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।
वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥ १७ ॥

अन्वयः—ततः सः कामरूपेश्वरदत्तहस्तः (सन्) करेणुकायाः आशु अवतीर्य अथो वैदर्भनिर्दिष्टम् अन्तः चतुष्कं नारीमनांसि इव विवेश ।

तत इति । ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य कामरूपेश्वरे दत्तो हस्तो येन सोऽजः अथोऽनन्तरं वैदर्भेण निर्दिष्टं प्रदर्शितमन्तश्चतुष्कं चत्वरं नारीणां मनांसीव विवेश ।

भाषार्थ—इसके बाद वे अज कामरूप ( कामाक्षा ) के राजा के हाथ का सहार लेकर हाथी से शीघ्र उतर गये । बाद विदर्भ भोज से दिखाए गये मण्डप में इस प्रकार प्रवेश किये मानों ये स्त्रियों के मन में प्रवेश करते हों ॥ १७ ॥

महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं मधुपर्कमिश्रम् ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ १८ ॥

अन्वयः—महार्हसिंहासनसंस्थितः असौ भोजोपनीतं सरत्नं मधुपर्कमिश्रं अर्घ्यं दुकूलयुग्मं, च वनिताकटाक्षैः सार्द्धं जग्राह ।

महार्हेति । महार्हसिंहासने संस्थितोऽसावजः भोजेनोपनीतं रत्नैः सहितं सरत्नं मधुपर्कमिश्रमर्घ्यं पूजासाधनद्रव्यं दुकूलयोः क्षोमयोर्युग्मं च वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धं जग्राह गृहीतवान् ।

भाषार्थ—अज वहाँ जाकर बहुमूल्य सिंहासन पर बैठ गये और भोज ने उन्हें रत्नों के सहित मधुपर्क युक्त अर्घ्य और दो रेशमी वस्त्र दिये, जिसे अज ने वहाँ की स्त्रियों के कटाक्ष के साथ २ ग्रहण किया ॥ १८ ॥

सप्तमः सर्गः
२१३

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासकाशं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ १९ ॥

अन्वयः—दुकूलवासाः सः विनीतैः अवरोधरक्षैः वधूसमीपं स्फुटफेनराजिः उदन्वान् नवैः चन्द्रपादैः वेलासकाशम् इव निन्ये ।

दुकूलेति । दुकूलवासः सोऽजः विनीतैर्नम्रैरवरोधरक्षैरन्तःपुराधिकृतैर्वधूसमीपं निन्ये । तत्र दृष्टान्तः—स्फुटफेनराजिरुदन्वान्समुद्रो नवैर्नूतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलायाः सकाशं समीपमिव पूर्णदृष्टान्तोऽयम् ।

भाषार्थ—जिस प्रकार चन्द्रमा की नवीन किरणें स्पष्टफेनसमूहवाले समुद्र को तीर के पास ले जाती हैं उसी प्रकार अन्तःपुर के रक्षक रेशमी वस्त्र पहने हुए उस अज को इन्दुमती के पास ले गये ॥ १९ ॥

तत्राचितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयाञ्चकार ॥ २० ॥

अन्वयः—तत्र अर्चितः अग्निकल्पः भोजपतेः पुरोधाः आज्यादिभिः अग्निं हुत्वा तम् एव विवाहसाक्ष्ये आधाय च वधूवरौ सङ्ग मयाञ्चकार ।

तत्रेति । तत्र सदन्यर्चितः पूजितोऽग्नितुल्यो भोजपतेर्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः ‘पुरोधास्तु पुरोहितः’ इत्यमरः । आज्यादिभिर्द्रव्यैरग्निं हुत्वा तमेव चाग्निं विवाहसाक्ष्ये आधाय च कृत्वेत्यर्थः । वधूवरौ संगमायाञ्चकार योजयामास ।

भाषार्थ—वहाँ पर सत्कृत और अग्नि के समान तेजस्वी राजा भोज के पुरोहित ने घी आदि सामग्रियों से अग्नि में हवन करके और उसी अग्नि को विवाह में साक्षी बनाकर अज और इन्दुमती का विवाह सम्बन्ध करा दिया ।

हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे ।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ २१ ॥

अन्वयः—सः राजसूनुः हस्तेन वध्वाः हस्तं परिगृह्य अनन्तराशोकलताप्रवालं प्रतिपल्लवेन स्वकीयेन प्राप्य चूतः इव सुतरां चकासे ।

हस्तेनेति । स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य अनन्तरायाः सन्निहितायाः अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन प्राप्य चूत आम्र इव सुतरां चकासे ।

भाषार्थ—जिस प्रकार आम्रवृक्ष अपनी पत्तियों के साथ अशोकलता की लाल पत्तियों के मिल जाने से मनोहर लगने लगता है उसी प्रकार कुमार अज भी इन्दुमती के हाथ को अपने हाथ में ले लेने पर अत्यन्त सुशोभित हुए ॥ २१ ॥

२१४ रघुवंशमहाकाव्ये

आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
तस्मिन्द्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ २२ ॥

अन्वयः—वरः कण्टकितप्रकोष्ठः आसीत् कुमारी स्विन्नाङ्गुलिः संववृते तत्क्षणं मनोभवेन तस्मिन् द्वये आत्मवृत्तिः समं विभक्ता इव ।

आसीदिति । वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत् । 'सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः' इत्यमरः । कुमारी स्विन्नाङ्गुलिः संववृते बभूव । अत्रोत्प्रेक्षते तस्मिन्द्द्वये मिथुने तत्क्षणमात्मवृत्तिः सात्विकोदयरूपा वृत्तिर्मनोभवेन कामेन समं विभक्तेव पृथक्कृतेव प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्ष्यते । अत्र वात्स्यायनः—"कन्या तु प्रथमसमागमे स्विन्नाङ्गुलिः स्विन्नमुखी च भवति पुरुषस्तु रोमाञ्चितो भवति एभिरनयोर्भावं ईक्षेत" इति । स्त्रीपुरुषयोः स्वेद्रोमाञ्चाभिधानं सात्विकमात्रोपलक्षणम् न तु प्रतिनियमो विवक्षित एभिरिति बहुवचनसामर्थ्यात् । एवं सति कुमारसंभवे—"रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुंगवकेतुरासीत्" इति व्युत्क्रमवचनं न दोषायेति 'वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य' इत्यवरार्धस्य पाठान्तरे व्याख्यानान्तरम् पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव समीकृतेवेत्यर्थः ।

भाषार्थ—इन्दुमती के हाथ को अपने हाथ में ले लेने पर अज के हाथ में रोमाञ्च हो गया और इन्दुमती की अङ्गुलियों में पसीना आने लगा । उस समय ऐसा मालूम हुआ मानों कामदेव ने अपने सात्विक वृत्ति को उन दोनों में बराबर-बराबर बांट दिया है । इसलिए दोनों में समान भाव से सात्विक भाव का उदय हुआ ॥ २२ ॥

तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि ।
ह्रीयन्त्रणामानानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ २३ ॥

अन्वयः—अपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि अन्योन्यलोलानि तयोः विलोचनानि मनोज्ञां ह्रीयन्त्रणाम् आनशिरे ।

तयोरिति । अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोर्निरीक्षणलक्षणयोः समा पत्या यदृच्छासंगत्या निवर्तितानि प्रत्याकृष्टान्यन्योऽस्मिंल्लोलानि 'लोलश्चलतृष्णयोः' इत्यमरः । तयोर्दम्पत्योर्विलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः ।