सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पञ्चमः सर्गः १५७

पञ्चमः सर्गः १५७

**भाषार्थ—**इसके बाद अज पर अपने प्रभाव से प्राप्त, कल्प वृक्ष के पुष्पों की वर्षा कर दांतों की कान्ति से वक्षःस्थल पर लटकते हुए मोती के हार को और भी उन्नतवान वाग्मी वह दिव्य पुरुष अज से यों बोला ॥ ५२ ॥

मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५३ ॥

**अन्वयः—**अवलेपमूलात् मतङ्गशापात् मतङ्गजत्वम् अवाप्तवान् अस्मि । माम् प्रियदर्शनस्य गन्धर्वपतेः तनूजम् प्रियंवदम् अवेहि ।

मतङ्गेति । अवलेपमूलाद् गर्वहेतुकाद् । मतङ्गस्य मुनेः शापान्मतङ्गजत्वमवाप्तवानस्मि । मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम् प्रियंवदं प्रियंवदाख्यमवेहि जानीहि ।

**भाषार्थ—**मेरे अहंकार से क्रुद्ध मतंग ऋषि के शाप से मैं हाथी हो गया था । वस्तुतः मैं गन्धर्वों के राजा प्रियदर्शन का पुत्र प्रियंवद हूँ ऐसा आप समझें ।

स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्साप्रकृतिर्जलस्य ॥ ५४ ॥

**अन्वयः—**सः महर्षिः च प्रणतेन मया अनुनीतः (सन्) पश्चात् मृदुताम् अगच्छत्, हि जलस्य उष्णत्वम् अग्न्यातपसम्प्रयोगात्, यत् शैत्यम् सा प्रकृतिः ।

स इति । महर्षिश्च प्रणतेन मयानुनीतः सन्पश्चान्मृदुतां शान्तिमगच्छत् । तथा हि जलस्योष्णत्वमग्नेरातपस्य वा सम्प्रयोगात्सम्पर्कात्, न तु प्रकृत्योष्णत्वम् । यच्छैत्यं सा प्रकृतिः स्वभावः ।

**भाषार्थ—**मेरे अनुनय करने पर वे मतंग ऋषि शान्त हो गये, क्योंकि जल गर्मी पाकर गरम हो जाता है किन्तु उसका स्वभाव तो शीतल ही है ॥ ५४ ॥

इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदित्यवोचत्स तपोनिधिर्माम् ॥ ५५ ॥

अन्वयः—'इक्ष्वाकुवंशप्रभवः अजः यदा ते कुम्भम् अयोमुखेन शरेण भेत्स्यति तदा स्वेन वपुर्महिम्ना पुनः संयोक्ष्यसे' इति सः तपोनिधिः माम् अवोचत् ।

इक्ष्वाक्विति । इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति, तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे इति स तपोनिधिर्मामवोचत् ।

१५८ रघुवंशमहाकाव्ये

भाषार्थ—प्रार्थना से प्रसन्न हो मतंग मुनि ने मुझ से कहा कि इक्ष्वाकु के कुल में उत्पन्न अज नामक राजकुमार जब तुम्हारे कुम्भस्थल को लोहे के फल वाले बाण से बेधेंगे तब तुम पुनः अपने असली स्वरूप को प्राप्त कर लोगे।

सम्मोचितः सत्त्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ ५६ ॥

अन्वयः—चिरप्रार्थितदर्शनेन सत्त्ववता त्वया अहं शापात् सम्मोचितः भवतो प्रतिप्रियम् न कुर्याम् चेत् मे स्वपदोपलब्धिः वृथा स्यात् ।

सम्मोचित इति । चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाऽहं शापात्संमोचितो मोक्षं प्रापितः । भवतः प्रतिप्रियं प्रत्युपकारं न कुर्यां चेन्मे स्वप-दोपलब्धिः स्वस्थानप्राप्तिः वृथा स्याद्धि ।

भाषार्थ—मतंग मुनि के शाप से हाथी बनकर मैं बहुत दिनों से आपके दर्शन की प्रतीक्षा कर रहा था, बलवान् आपने मुझे उस शाप से मुक्त कर दिया। यदि इस उपकार के बदले मैं आपका प्रत्युपकार न करूँ तो मेरा अपना स्थान प्राप्त करना ही व्यर्थ होगा ॥ ५६ ॥

सम्मोहनं नाम सखे ! ममास्त्रं प्रयोगसंहारविभक्त मन्त्रम् ।
गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥ ५७ ॥

अन्वयः—सखे ! प्रयोगसंहार विभक्तमन्त्रम् गान्धर्वम् सम्मोहनम् नाम मम अस्त्रम् आदत्स्व, यतः प्रयोक्तुः अरिहिंसा न च विजयः च हस्ते भवति ।

सम्मोहनमिति । हे सखे! सखिशब्देन समप्राणतोक्ता । प्रयोगसंहारयोर्विभक्त-मन्त्रं गान्धवं गन्धर्वदेवताकम् । सम्मोह्यतेऽनेनेति सम्मोहनं नाम ममास्त्रमादत्स्व गृहाण । यतोस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोहिंसा न च, विजयश्च हस्ते भवतीति शेषः ।

भाषार्थ—हे मित्र अज ! आप चलाने और लौटा लेने के पृथक्-पृथक् मन्त्र वाले इस संमोहन नामक गन्धर्वास्त्र को लीजिए । इसकी विशेषता है कि चलाने वाले के शत्रुओं का वध भी नहीं होगा और अनायास विजय भी होगी ॥ ५७ ॥

अलं हिया मां प्रति यन्मुहूर्त्तं दयापरोऽभूः प्रहरन्नपि त्वम् ।
तस्मादुपच्छन्दयति प्रयोज्य मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ ५८ ॥

अन्वयः—माम् प्रति ह्रिया अलम् ! कुतः ? यत् त्वम् प्रहरन् अपि मुहूर्तं दयापरः मभूः, तस्मात् उपच्छन्दयति मयि त्वया प्रतिषेधरौक्ष्यम् न प्रयोज्यम् ।

अलमिति । किं च । मां प्रति ह्रिया प्रहारनिमित्तयाऽलम् । कुतः ? यद्यतो-