रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
त्रयोदशः सर्गः ४२७
त्रयोदशः सर्गः ४२७
सकर्मकत्वम्। अस्ति च धातूनां क्रियान्तरोपसर्जन कस्वार्थाभिधायकत्वम्। यथा 'कुसूलान्पचति' इत्यादावादानक्रियागर्भः पाको विधीयत इति।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये
रावणवधो नाम द्वादशः सर्गः॥ १२॥
भाषार्थ—राम ने रावण की राजश्री उसके भाई प्रियमित्र विभीषण को सौंप दी और अग्नि परीक्षा में विशुद्ध सीता को ग्रहण करके सुग्रीव विभीषण और लक्ष्मण के साथ अपने बाहुबल से जीते हुये पुष्पक विमान पर चढ़कर अयोध्या पुरी की ओर प्रस्थान किया॥ १०४॥
यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित
अन्वय ओर चन्द्रकला नाम की हिन्दी टीका में
रघुवंश महाकाव्य का रावणवधनामक
द्वादश सर्ग समाप्त हुआ॥ १२॥
त्रयोदशः सर्गः
त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम्।
पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे॥
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच॥ १॥
अन्वयः—गुणज्ञः सः रामाभिधानः हरिः शब्दगुणं आत्मनः पदं विमानेन गाहमानः (सन्) रत्नाकरं वीक्ष्य मिथः जायां इति उवाच।
अथेति। अथ प्रस्थानानन्तरम्। जानातीति ज्ञः। "इगुपधज्ञाप्रीकिरः क" इत्यनेन कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम्। आकाशमित्यर्थः। 'वियद्विष्णुपदम्' इत्यमरः। (शब्दगुणकमाकाशम्) इति तार्किकाः। विमानेन पुष्करेण विगाहमानः सन् रत्नाकरं समुद्रं वीक्ष्य मिथो रहसि। 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः। जायां पत्नीं सीतामिति वक्ष्यमाणप्रकारेणोवाच। रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम्।
४२८ रघुवंशमहाकाव्ये
भाषार्थ—इसके बाद विमान में चढ़कर उस आकाश में चलते हुए जिसका गुण शब्द है गुणी एवं राम कहलाने वाले भगवान् विष्णु समुद्र को देखकर अपनी प्रिया सीता से यह कहने लगे ॥ १ ॥
वैदेहि पश्यमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ २ ॥
अन्वयः—हे वैदेहि ! आमलयात् मत्सेतुना विभक्तं फेनिलं अम्बुराशि छायापथेन विभक्तं शरत्प्रसन्नं आविष्कृतचारुतारकं आकाशम् इव पश्य ।
वैदेहीति । हे वैदेहि सीते ! आमलयान्मलयपर्यन्तम् । “पञ्चम्यपाङ्परिभिः” इति पञ्चमी । पदद्वयं चैतत् । मत्सेतुना विभक्तं द्विधाकृतम् अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं फेनवन्तम् । “फेनादिलच्च” इतीलच्प्रत्ययः । क्षिप्रकारी चायमिति भावः । अम्बुराशि छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृत-चारुतारमाकाशमिव पश्य । मम महानयं प्रयासस्त्वदर्थ इति हृदयम् । छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ।
भाषार्थ—हे जनकनन्दिनी ! फेन से भरे हुए इस समुद्र को तो देखो, जिसे मेरे बताये हुए पुल ने मलय पर्वत तक इस प्रकार दो भागों में बांट दिया है जिस प्रकार सुन्दर ताराओं से भरे हुए शरद ऋतु के खुले आकाश को आकाश गंगा दो भागों में बाँट देती है ॥ २ ॥
गुरोर्ययक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे ।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ ३ ॥
अन्वयः—यियक्षोः गुरोः मेध्ये तुरङ्गे कपिलेन रसातलं संक्रमिते ( सति ) तदर्थम् उर्वीम् अवदारयद्भिः न पूर्वैः अयं परिवर्धितः किल ।
गुरोरिति । यियक्षोर्यष्टुमिच्छोः । यजेः सन्नन्तादुप्रत्ययः । गुरो सगरस्य मेध्येऽश्वमेधार्हे तुरंगे हये कपिलेन मुनिना रसातलं संक्रमिते सति तदर्थमुर्वीमव-दारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धैः सगरसुतैरयं समुद्रः परिवर्धितः किल । किलेत्यैतिह्ये । अतो नः पूज्य इति भावः । यद्यपि तुरङ्गहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति तेषां भ्रान्तिः । तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ।
भाषार्थ—सीते ! जानती हो, यह समुद्र कैसे बना है? सुनो, जब हमारे पूर्वज महाराज सगर अश्वमेध यज्ञ कर रहे थे तब इन्द्र ने उस यज्ञ सम्बन्धी घोड़े को चुराकर पाताल में कपिल मुनि के पास बाँध दिया। महाराज सगर के साठ हजार