सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

तृतीयः सर्गः

तृतीयः सर्गः
७५

धारणमात्रमुच्यते । तथा मन्त्रे च दृश्यते "यथेयं पृथिवी मह्युत्ताना गर्भमादधे ।
एवं त्वं गर्भमाधेहि दशमे मासि सूतवे" । इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्या-
पारधारण आधानशब्दप्रयोगदर्शनादिति । मालिनीवृत्तमेतत् । तदुक्तम् - 'ननमय-
ययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ।
इति संजीवनीव्याख्यायां नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ।
भाषार्थ - इसके बाद आकाश के द्वारा चन्द्रमा की तरह, गङ्गा के द्वारा
शिव के फेंके हुए तेज (वीर्य) की तरह, रानी सुदक्षिणा ने रघुवंश की वृद्धि
के लिये लोकपालों के तेज से गर्भ को धारण किया ॥ ७५ ॥
त्रिपाठयुपाह्व पं० श्रीकृष्णमणिकृत चन्द्रकला टीका में द्वितीय सर्ग समाप्त ।

⁂ ⁂ ⁂

तृतीयः सर्गः

'राज्ञी सुदक्षिणा गर्भमाधत्त' (२-७५) इत्युक्तम् । सम्प्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति—

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हदलक्षणं दधौ ॥ १ ॥

अन्वयः — अथ सुदक्षिणा उपस्थितोदयं भर्तुः ईप्सितं सखीजनोद्वीक्षणकौमुदीमुखं इक्ष्वाकुकुलस्य सन्ततेः निदानं दोर्हदलक्षणं दधौ ।

उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
भावोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादरिनः स पायात् ॥

अथेति । अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम् । भावे क्तः । पुनः सखीजनस्योद्वीक्षणानां दृष्टानां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् । यद्वा कौमुदी नाम दीपोत्सवतिथिः । तदुक्तं भविष्योत्तरे — "कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति । तस्या मुखं प्रारम्भम् । 'सखीजनोद्वीक्षणकौमुदी' इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम् । 'निदानं त्वादिकारणम्' इत्यमरः । एवंविधं दोर्हदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ । स्वहृदयेन गर्भहृदयेन द्विहृदया गर्भिणी । यथाऽह वाग्भटः — "मातृजमस्य हृदयं मातुश्च हृदयेन तत् । सम्बद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्" । इति । तत्सम्बन्धित्वाद् गर्भो दोर्हदमित्युच्यते । सा च तद्योगाद्दोर्हदिनीति । तदुक्तं संग्रहे — 'द्विहृदयां नारीं दोर्हदिनी

७६ रघुवंशमहाकाव्ये

माचक्षते' इति। अत्र दोहद लक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन 'च निरूपणाद् रूपकालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्—"जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात्।

भावार्थ—इसके बाद सुदक्षिणाने प्रकटित लक्षणों वाले, स्वामी के अभीष्ट, सखियों के नेत्रों के आह्लादक, इक्ष्वाकुवंश की सन्तति के कारण भूत गर्भ के चिह्नों को धारण किया ॥ १ ॥

सम्प्रति क्षामताऽख्यं गर्भलक्षणं वर्णयति—

शरीरसादादसमग्रभूषणं मुखेन साऽलक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ २ ॥

अन्वयः—शरीरसादात् असमग्रभूषणा लोध्रपाण्डुना मुखेन ( उपलक्षिता ) सा, तनुप्रकाशेन शशिना ( उपलक्षता ) प्रभातकल्पा शर्वरी इव अलक्ष्यत् ।

शरीरेति । शरीरस्य सादात्कार्श्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पेणैव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। 'तसिलादिष्वाकृत्वसुचः' इति प्रभातशब्दस्य पुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः—"क्षमता गरिमा कुक्षेर्मूर्च्छा छदिररोचकम्। जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" ॥ इति ॥

भावार्थ—शरीर की कृशता के कारण अल्प भूषणोंवाली, लोध के फूल की तरह पीले मुख वाली वह (सुदक्षिणा) विरल नक्षत्रों वाली तथा अल्प कान्ति युक्त चन्द्रमा से उपलक्षित, प्रातःकाल के समीप वाली रात्रि के समान दिखाई पड़ने लगी ॥ २ ॥

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ ३ ॥

अन्वयः—क्षितीश्वरः रहसि मृत्सुरभि तदाननम् उपघ्राय, शुचिव्यपाये पयोमुचां पृषतैः सिक्तं वनराजिपल्वलम्(उपाघ्राय) करी इव तृप्ति न आययौ ।

तदिति । क्षितीश्वरो रहसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्ति नांययौ। कः कमिव। शुचिव्यपाये ग्रीष्मावसाने। शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि' इति विश्वः। पयोमुचां मेघानां पृषतैर्बिन्दुभिः। 'पृषन्ति बिन्दुपृषताः'