सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

चतुर्थः सर्गः १२५

चतुर्थः सर्गः १२५

अन्वयः—अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः फलरेणवः तुल्यगन्धिषु मत्तेभकटेषु ससञ्जुः ।

ससञ्जुरिति । अश्वैः क्षुण्णानामेलालतानामुत्पतिष्णव उत्पतनशीलाः । 'अलंकृञ्निराकृञ्–' इत्यादिनेष्णुच्प्रत्ययः । फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु । सर्वधनीतिवदिषन्तो बहुव्रीहिः । मत्तेभानां कटेषु ससञ्जुः सक्ताः । 'गजगण्डकटीकटौ' इति कोशः ।

भाषार्थ—घोड़ों की टापों से चूर्णित इलायची के फलों की उड़ती हुई धूलियाँ समानगन्धी गजों की कनपटी में गयीं ॥ ४७ ॥

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ ४८ ॥

अन्वयः—चन्दनानां भोगिवेष्टनमार्गेषु समर्पितं त्रिपदीच्छेदिनां अपि करिणां ग्रैवं न अस्रसत् ।

भोगीति । चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनाङ्कितेषु समर्पितं सङ्क्षितं त्रिपदीच्छेदिनां पादशृङ्खलच्छेदकानामपि 'त्रिपदी पादबन्धनम्' इति यादवः । करिणाम् । ग्रीवासु भवं ग्रैवं कण्ठबन्धनम् । 'ग्रीवाभ्योऽण्ण' इत्यण्प्रत्ययः । नास्रसन्नस्रस्तमभूत् । 'द्युभ्यो लुङि' इति परस्मैपदे पुषादित्वादङ् । 'अनिदिता'मिति नलोपः ।

भाषार्थ—चन्दन के वृक्षों में साँपों के लिपटने की रेखाओं में बँधे हुए पैर के सीकड़ को तोड़ डालने वाले हाथियों के गले के बन्धन ढीले नहीं हुए ॥ ४८ ॥

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४९ ॥

अन्वयः—दक्षिणस्यां दिशि रवेः अपि तेजः मन्दायते तस्यां एव (दिशि) पाण्ड्याः रघोः प्रतापं न विषेहिरे ।

दिशीति । दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति । लोहितात्वात्क्यष्प्रत्ययः । 'वा क्यषः' इत्यात्मनेपदम् । दक्षिणायते तेजोमान्द्यादिति भावः । तस्यामेव दिशि पाण्ड्याः पाण्डूनां जनपदानां राजानः पाण्ड्याः 'पाण्डोर्यण्वक्तव्यः'। रघोः प्रतापं न विषेहिरे न सोढवन्तः । सूर्यविजयिनोऽपि विजितवानिति भावः ।

भाषार्थ—जिस दक्षिण दिशा में सूर्य का भी तेज मन्द हो जाता है, उसी दिशा में पाण्ड्य देश के राजा रघु का प्रताप नहीं सह सके ॥ ४९ ॥

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम् ॥ ५० ॥

१२४ रघुवंशमहाकाव्ये

अन्वयः— ते ताम्रपर्णीसमेतस्य महोदधेः मुक्तासारं स्वं सञ्चितं यशः इव तस्मै निपत्य ददुः ।

ताम्रपर्णीति । ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य सङ्गतस्य महोदधेः सम्बन्धि सञ्चितं मुक्तासारं मौक्तिकवरम् । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः । स्वं स्वकीयं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः । यशसः शुभ्रत्वाद्दोपम्यम् । ताम्रपर्णीसङ्गमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ।

भाषार्थ— पाण्ड्यदेश के राजाओं ने, ताम्रपर्णी नदी से संयुक्त महासागर के उत्तम मोती, अपने सञ्चित यश के समान रघु को उपहार में दिए ॥ ५०॥

स निर्विश्य यथाकामं तटेष्वलीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ५१ ॥
असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ५२ ॥

अन्वयः— तटेषु आलीनचन्दनौ तस्याः दिशः स्तनौ इव मलयदर्दुरौ शैलौ यथाकामं निर्विश्य असह्यविक्रमः सः उदन्वता दूरात् मुक्तं मेदिन्याः स्रस्तांशुकं नितम्बं इव सह्यं अलङ्घयत् ।

स इति । असह्येति च । युग्ममेतद् । असह्यविक्रमः सः रघुस्तटेषु सानुष्वाली-नचन्दनौ व्यासक्तचन्दनद्रुमौ । ‘गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः । स्तनपक्षे—प्रान्तेषु व्यासक्तचन्दनानुलेपौ । तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य । ‘निर्वेशो भृतिभोगयोः’ इत्यमरः । उदकान्यस्य सन्तीत्युदन्वानुदधिः । ‘उदन्वानुदधौ च’ इति निपातः । उदन्वता दूरान्मुक्तं दूरतरस्त्यक्तम् । ‘स्तोकान्तिक०’ इति समासः । ‘पञ्चम्याः स्तोकादिभ्यः’ इत्यलुक् । स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयतप्रासोऽतिक्रान्तो वा ।

भाषार्थ— तटस्थ चन्दन के वृक्षों से युक्त दक्षिणदिशारूपी रमणी के दो स्तनों के तुल्य मलय और दर्दुर गिरिपर यथेच्छ निवास कर असह्य पराक्रमी रघु समुद्र से दूर पृथ्वीकामिनी की खिसकी हुई साड़ी वाले नितम्बतुल्य सह्य पर्वत को लांघ गये ॥ ५१-५२ ॥

तस्यानीकैर्विसर्पद्भिर्भरपरान्तजयोद्यतैः ।
रामास्त्रोत्सारितोऽप्यासीत्सहालग्न इवार्णवः ॥ ५३ ॥

अन्वयः— अपरान्तजयोद्यतैः विसर्पद्भिः तस्य अनीकैः अर्णवः रामास्त्रोत्सारित अपि सहलग्न इव आसीत् ।

चतुर्थः सर्गः । १२५

तस्येति । अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः । 'अपरान्तास्तु, पाश्चात्त्यास्ते च सूर्पारकादयः' इति यादवः । विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः । 'अनीकं तु रणे सैन्ये' इति विश्वः । अर्णवो रामस्य जामदग्न्यस्यास्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ।

भाषार्थ—पश्चिम की विजय के लिये जाने वाली रघु की सेना से समुद्र परशुराम के अस्त्रों से हटाए जाने पर भी सह्य पर्वत से मिला हुआ सा प्रतीत होता था ॥ ५३ ॥

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णंप्रतिनिधीकृतः ॥ ५४ ॥

अन्वयः—भयोत्सृष्टविभूषाणां केरलयोषिताम् अलकेषु तेन चमूरेणुः चूर्णंप्रतिनिधीकृतः ।

भयेति । तेन रघुणा भयेनोत्सृष्टविभूषाणां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः । एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ।

भाषार्थ—रघु ने भय से अलङ्काररहित केरल देश की स्त्रियों के सुन्दर घुँघराले बालों में सेना की धूलि सुगन्धित चूर्ण के स्थान में लगा दी ॥ ५४ ॥

मुरलामारुतोद्धूतमगमत्कैतकं रजः ।
तद्योधवारबाणानामयत्नपटवासताम् ॥ ५५ ॥

अन्वयः—मुरलामारुतोद्धूतं कैतकं रजः तद्योधवारबाणानामयत्नपटवासताम् अगमत् ।

मुरलेति । मुरला नाम केरलदेशेषु काचिन्नदी । 'मुरलीमारुतोद्धृतम्' इति केचित्पठन्ति । तस्य मारुतेनोद्धृतमुत्थापितं कैतकं केतकीसम्बन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम् । 'कञ्चुको वारबाणोऽस्त्री' इत्यमरः । अयत्नपटवासतामयत्नसिद्धवस्त्रवासनाद्रव्यत्वमगमत् । 'पिष्टातः पटवासकः' इत्यमरः ।

भाषार्थ—मुरला नदी की हवा से उड़ी हुई केवड़ा पुष्प की धूलि ने रघुके सैनिकों के कवचों को अनायास ही सुगन्धित कर दिया ॥ ५५ ॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभि पवनोद्धूतराजतालीवनध्वनिः ॥ ५६ ॥

अन्वयः—चरतां वाहानां गात्रशिञ्जितैः वर्मभिः पवनोद्धूतराजताली वनध्वनिरभ्यभूयत ।

१२६ रघुवंशमहाकाव्ये

अभ्यभूयतेति । चरतां गच्छतां वाहनां वाजिनाम् । 'वाजिवाहार्षगन्धर्वहय-
सैन्धवसप्तयः' इत्यमरः । गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः । कर्तरि क्तः । 'गात्र-
सञ्जितैः' इति वा पाठः । सञ्जतेर्ण्यन्तात्कर्मणि क्तः । वर्मभिः कवचैः । 'मर्मरः'
इति पाठे वाहनां गात्रशिञ्जितैर्गात्रध्वनिभिरित्यर्थः । मर्मरो मर्मरायमाण इति
ध्वनेर्विशेषणम् । पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत
तिरस्कृतः ।
भावार्थ—चलते हुए घोड़ों के शरीर पर बजते हुए कवचों से हवा हिलाये
गये ताड़ के वनों के शब्द दब गए ॥ ५६ ॥

खर्जूरीस्कन्धबद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥ ५७ ॥

अन्वयः—खर्जूरीस्कन्धबद्धानां करिणां मदोद्गारसुगन्धिषु कटेषु पुन्नागेभ्यः
शिलीमुखाः पेतुः ।

खर्जूरीति । खर्जूरीणां तृणद्रुमविशेषाणाम् । 'खर्जूरः केतकी ताली खर्जूरी
च तृणद्रुमाः' इत्यमरः । स्कन्धेषु प्रकाण्डेषु । 'मस्त्री प्रकाण्डः स्कन्ध स्यान्मूला-
च्छाखावधिस्तरोः' इत्यमरः । बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु ।
'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्यनेनेकारः । कटेषु पुन्नागेभ्यो नागकेशरेभ्यः पुन्ना-
गपुष्पाणि विहाय । ल्यब्लोपे पञ्चमी । शिलीमुखा अलयः पेतुः । 'अलिबाणौ
शिलीमुखौ' इत्यमरः । ततोऽपि सौगन्ध्यातिशयादिति भावः ।

भावार्थ—खजूर में बँधे हुए हाथियों के मद से सुगन्धित कनपटीयों पर
नागकेसर को छोड़कर भौंरे आ बैठे ॥ ५७ ॥

अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ ।
अपरान्तमहीपालव्याजेन रघवे करम् ॥ ५८ ॥

अन्वयः—उदन्वान् अभ्यर्थितः रामाय अवकाशं ददौ किल अपरान्तमहि-
पालव्याजेन रघवे करं ( ददौ ) ।

अवकाशमिति । उदन्वानुदधी रामाय जामदग्न्याय । अभ्यर्थितो याचित सन्
अवकाशं स्थानं ददौ किल । किलेति प्रसिद्धौ । रघवे त्वपरान्तमहीपालव्याजेन
करं बलिं ददौ । 'बलिहस्तांशवः कराः' इत्यमरः । अपरान्तानां समुद्रमध्यदेश-
वर्तित्वात्तद्दत्तकरे समुद्रदत्तत्वोपचार । करदानं च भीत्या, न तु याच्ञयेति
रामाद्रघोरुत्कर्षः ।

भावार्थ—समुद्र ने माँगने पर परशुराम को स्थान दिया था । उसी समुद्र
ने पश्चिम देश के राजाओं के बहाने रघु को राजकर दिया ॥ ५८ ॥

चतुर्थः सर्गः । १२७

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ५९ ॥

अन्वयः—तत्र सः मत्तभरदनोत्कीर्णव्यक्तविक्रमलक्षणं त्रिकूटमे वोच्चैर्जयस्तम्भं चकार ।

मत्तेति । तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव । भावे क्तः । व्यक्तानि स्फुटानिविक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णविलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोच्चैर्जयस्तम्भं चकार । गाढप्रकाशात्त्रिकूटोऽद्रिरेवोत्कीर्णस्तम्भी रघोर्जयस्तम्भोऽभूदित्यर्थः ।

भाषार्थ—उस रघु ने अपने हाथियों के दाँतों से खुदे हुए पराक्रम के चिह्न वाले त्रिकूट पर्वत को ही केरल देश में विजयस्तम्भ बनाया ॥ ५९ ॥


पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।
इन्द्रियाण्येव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ६० ॥

अन्वयः—ततः संयमी तत्वज्ञाने इन्द्रियाख्यान् रिपून् इव स पारसीकान् जेतुं स्थलवर्त्मना प्रतस्थे ।

पारसीकानिति । ततः स रघुः । संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान् रिपूनिव पारसीकान् राज्ञो जेतुं स्थलवर्त्मना तस्थे न तु निर्दिष्टेनापि जलपथेन, समुद्रयानस्य निषिद्धत्वादिति भावः ।

भाषार्थ—उसके बाद जैसे योगी ज्ञान से इन्द्रियों को जीत लेते हैं वैसे ही राजा रघु पारसियों को जीतने के लिए स्थल मार्ग से चले ॥ ६० ॥


यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ॥ ६१ ॥

अन्वयः—स यवनीमुखपद्मानां मधुमदमकालजलदोदयः अब्जानां बालातपमिव न सेहे ।

यवनीति । स रघुर्यवनानीनां यवनस्त्रीणाम् । 'जातेरस्त्रीविषयादयोपधात्' इति ङीष् । मुखानि पद्मानीव मुखपद्मानि । उपमितसमासः । तेषां मधुना मद्येन यो मदो मदरागः । कार्यकारणभावयोरभेदेन निर्देशः । तं न सेहे । कमिव । अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः । प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां सम्बन्धिनं बालातपमिव । अब्जहितत्वादब्जसम्बन्धित्वं सौरातपस्य ।

भाषार्थ—रघु पारसी स्त्रियों के मुख की मद्य गन्ध को सहन न कर सके, जैसे असमय में उठा हुआ बादल कमलसम्बन्धित बालसूर्य के ताप को नहीं सहता ॥ ६१ ॥

१२८ रघुवंशमहाकाव्ये

सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनै ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ६२ ॥

अन्वयः—तस्य अश्वसाधनैः पाश्चात्त्यैः शार्ङ्गकूजितविज्ञेयप्रतियोधे रजसि तुमुलोऽभूत् ।

सङ्ग्राम इति । तस्य रघोरश्वसाधनैर्वाजिसैन्यैः । 'साधनं सिद्धिसैन्ययोः' इति हैमः । पश्चाद्भवः पाश्चात्यवनैः सह । 'दक्षिणापश्चात्पुरसस्त्यक् । इति त्यक् । सहार्थे तृतीया । शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि तेषां कूजितैः शब्दैः । 'शार्ङ्गं पुनर्घनुषि शार्ङ्गिणः । जये च शृङ्गविहिते चापेऽप्याह विशेषतः' इति केशवः । अथवा शार्ङ्गैः शृङ्गसम्बन्धिभिः कूजितैर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटा यस्मिंस्तस्मिन् रजसि तुमुलः संग्रामः संकुलं युद्धमभूत् । 'तुमुलं रणसंकुले इत्यमरः ।

भाषार्थं—अश्वसेना वाले पश्चिम देशवासियों के साथ धनुष की टङ्कारों से ही अपने शत्रु का द्योतक, धूलि के अन्धेरे में रघु, का भीषण संग्राम हुआ ॥६२॥

भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ ६३ ॥

अन्वयः—स तेषां भल्लापवर्जितैः श्मश्रुलैः शिरोभिः सरघाव्याप्तैः क्षौद्रपटलैः इव महीं तस्तार ।

भल्लेति । स रघुर्भल्लापवर्जितैर्बाणविशेषकृत्तैः । 'स्नुहीदलफलो भल्ल' इति यादवः । श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः । 'सिध्मादिभ्यश्च' इति लच्प्रत्ययः । तेषां पाश्चत्त्यानां शिरोभिः सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः । 'सरघा मधुमक्षिका' इत्यमरः । क्षुद्रः सरघा । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्ठकारिका' इत्यमरः । क्षुद्राभिः कृतानि क्षौद्राणि मधूनि । 'मधुः क्षौद्रं माक्षिकादि इत्यमरः । 'क्षुद्राभ्रमरवदपाददन्' इति संज्ञायामञ्प्रत्ययः । तेषां पटलैः सञ्चयैरिव । 'पटलं तिलकेनेत्ररोगे छन्दसि सञ्चये । विटके परिवारे च' इति हैमः । महीं तस्ताराच्छादयामास ।

भाषार्थं—रघु ने मधुमक्खियों से व्याप्त मधु के छत्तों के समान भल्ल बाणों से कटे हुए उनके दाढ़ीवाले शिरों से पृथ्वी को पाट दिया ॥६३॥

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ६४ ॥

अन्वयः—अपनीतशिरस्त्राणाः शेषा तं शरणं ययुः, महात्मनां संरम्भः हि प्रणिपातप्रतीकारः ।

अपनीतेति । शेषा हतावशिष्टा अपनीतशिरस्त्राणा अपसारितशीर्षण्याः सन्तः