सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

त्रयोदशः सर्गः ४५५

त्रयोदशः सर्गः ४५५

इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य
स भ्रातरं भरतमर्घ्यपरिग्रहान्ते ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ ७० ॥

अन्वयः—प्रयतः सः इक्ष्वाकुवंशगुरवे प्रणम्य अर्घ्यपरिग्रहान्ते पर्यश्रुः (सन् ) भ्रातरं भरतं अस्वजत, तद्भक्त्यपोढपितृराज्यमहाभिषेके मूर्धनि उपजघ्रौ च ।

इक्ष्वाक्विति । प्रयतः स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्या-
र्घ्यस्य परिग्रहः स्वीका रस्तस्यान्ते पर्यश्रुः परिगतानन्दबाष्पः सन् भ्रातरं भरत-
मस्वजतालिङ्गत । तस्मिन्द्रा मे भक्त्यापोढ परिहृतः पितृराज्यमहाभिषेको येन
तस्मिन्मूर्ध्न्युपजघ्रौ च । 'घ्रा गन्धोपादने' लिटि रूपम् ।

भाषार्थ—विनीत राम ने इक्ष्वाकु वंश के गुरु वसिष्ठजी को प्रणाम किया ।
बाद अर्घ्य ग्रहण करके आँख से आँसू भरकर उन्होंने पहले भरतजी को छाती
से लगा लिया पुनः उनके उस मस्तक को सूंघा जिससे राम की भक्ति के कारण
राज्यभिषेक भी अस्वीकार कर दिया था ॥ ७० ॥

श्मश्रुप्रवृद्धिजगताननविक्रियांश्च
प्लक्षांन्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै-
र्वार्तानुयोगमधुराक्षरया च वाचा ॥ ७१ ॥

अन्वयः—श्मश्रुप्रवृद्धिजनिताननविक्रियान् प्ररोहजटिलान् प्लक्षान् इव प्रण-
मतः मन्त्रिवृद्धान् च शुभदृष्टिपातैः वार्तानुयोगमधुराक्षरया वाचा च अन्वग्रहीत् ।

श्मश्र्विति । श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिता-
नानेषु विक्रिया विकृतिर्येषां तानत एव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैर्जटि-
लाञ्जटावतः प्लक्षान् न्यग्रोधानिवस्थितान् प्रणमतो मन्त्रिवृद्धांश्च शुभैः कृपाद्रै-
र्हृष्टिपातैरवलोकनैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहोद-
नुगृहीतवान् ।

भाषार्थ—फिर रामजी प्रणाम करते हुए वृद्ध मन्त्रियों से मिले और प्रेम-
भरी आंखों से मधुर भाषा में कृपा पूर्वक उनसे कुशल मंगल पूछा, मूंछ दाढ़ी
बढ़ जाने के कारण ये ऐसे दिखाई दे रहे थे जैसे घने वरोहवाला वट का
वृक्ष हों ॥ ७१ ॥

दुर्जातबन्धुरयमृक्षहरीश्वरो मे
पौलस्त्य एष समरेषु पुरः प्रहर्ता ।

४५६रघुवंशमहाकाव्ये

इत्याहृतेन कथितौ रघुनन्दनेन
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ ७२ ॥

अन्वयः—अयं मे दुर्जातिबन्धुः ऋक्षहरीश्वरः एष समरेषु पुरः प्रहर्ता इत्याह तेन रघुनन्दनेन कथितौ उभौ लक्ष्मणं व्युत्क्रम्य भरतः ववन्दे ।

दुर्जात इति । अयं मे दुर्जातिबन्धुरापद्वन्धुः । 'दुर्जातं व्यसनं प्रोक्तम्' इति विश्वः । ऋक्षहरीश्वरः सुग्रीवः, एष समरेषु पुरः प्रहर्ता पौलस्त्यो विभीषणः, इत्याहृतेनादरवता । कर्तरि क्तः । रघूणां नन्दनेन रामेण कथितावुभौ विभीषण-सुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ।

भाषार्थ—भरतजी के सुग्रीव का परिचय देते हुए राम ने कहा कि ये वानर और भालुओं के राजा हैं, ये बड़े दुःख के समय मेरे का काम आये हैं, पुनः विभीषण का परिचय देते हुए राम ने कहा कि ये पुलस्त्य कुल में उत्पन्न विभीषण हैं ये युद्ध के समय हमसे आगे बढ़कर शत्रुओं पर प्रहार करते थे, यह सुन कर भरतजी ने लक्ष्मण को छोड़कर पहले उन्हीं दोनों का प्रणाम किया ॥ ७२ ॥

सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्नन्निवास्य भुजमध्यमुरःस्थलेन ॥ ७३ ॥

अन्वयः—तदनु स सोमित्रिणा संससृजे नम्रशिरसं एवं उत्थाप्य भृशम् आलि-लिंग, रूढेन्द्रजित्प्रहरणव्रणकर्कशेन अस्य उरः स्थलेन भुजमध्यं क्लिशयन् इव ।

सौमित्रिणेति । तदनु सुग्रीवादिवन्दनादनन्तरं सः भरतः सौमित्रिणा संससृजे सङ्गतः । 'सृजविसर्गे' दैवादिकात्कर्तरि लिट् । नम्रशिरसं प्रणतमेनं सौमित्रि-मुत्थाप्य भृशं गाढमालिङ्ग च । किं कुर्वन् रूढेन्द्रजित्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुरःस्थलेन भुजमध्यं स्वकीयं विलशयन्निव पीडयन्निव । क्लिशनातिरयं सकर्मकः 'क्लिशनाति भुवनत्रयम्' इति दर्शनात् । ननु रामायणे—'ततो लक्ष्मणमा-साद्य वैदेहि च परन्तपः । अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत्' ॥ इति । भरतस्य कानिष्ठ्यं प्रतीयते । किमर्थं ज्यैष्ठ्यमवलम्ब्यमानाजर्वेन श्लोको व्या-ख्यातः ? सत्यम् । किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम् 'ततो लक्ष्मण मासाद्य—' इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः अभिवादनं तु वैदेह्या एव, अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ।

भाषार्थ—उसके बाद भरतजी लक्ष्मण से मिले ओर प्रणाम के लिए झुके

त्रयोदशः सर्गः [४५७]

हुए लक्ष्मण के मस्तक को उठाकर मेघनाद के प्रहरों से घाव के कारण कर्कश हुई उनकी छाती को अपनी भुजाओं से दबाते हुए उन्हें अपनी छाती से लगा लिया ॥ ७३ ॥

रामाज्ञया हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे ते ॥ ७४ ॥

अन्वयः—तदानीं हरिचमूपतयः रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्रान् आरुरुहुः, बहुधा मदवारिधाराः क्षरत्सु तेषु ते शैलाधिरोहणसुखानि उपलेभिरे ।

रामेति । तदानीं हरिचमूपतयः रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्राना-रुरुहुः । बहुधा मदवारिधाराः क्षरत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ।

भाषार्थ—राम के कहने से वानर और भालुओं के सेनापति मनुष्यों का वेश बना-बना कर उन हाथियों पर चढ़ गये, जिनके मस्तक से मद की धारा बह रही थीं इसलिए सूंड की ओर से चढ़ते समय उनको वही आनन्द मिला झरनों वाले पहाड़ों पर ही चढ़ रहे हों ॥ ७४ ॥

सानुप्लवः प्रभुरपि क्षणदाचराणां
भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयै-
र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ ७५ ॥

अन्वयः—सानुप्लवः क्षणदाचराणां प्रभुः अपि दशरथप्रभवानुशिष्टः रथान् भेजे, ये मायाविकल्परचितैः अपि तदीयैः स्यन्दनैः तुलितकृत्रिमभक्तिशोभाः न ( भवन्ति ) ।

सानुप्लव इति । सानुप्लवः सानुगः । 'अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः' इति यादवः । क्षणदाचराणां रक्षसां प्रभुर्विभीषणोऽपि प्रभवत्यस्मादिति प्रभवो जनकः, दशरथः प्रभवो यस्य स दशरथप्रभवो रामः तेनानुशिष्ट आज्ञप्तः सन्-रथान्भेजे । तानेव विशिनष्टि—ये रथा मायाविकल्परचितैः संकल्पविशेषनिर्मितैरपि यदीयैर्विभीषणीयैः स्यन्दनैः रथैस्तुलितकृतिमभक्तिशोभास्तुलितासमीकृता कृत्रिमा क्रियया निर्वृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति । तेऽपि तत्साम्यं न लभन्त इत्यर्थः । कृत्रिमेत्यत्र 'ड्वितः क्त्रिः' इति क्त्रिप्रत्ययः । 'क्त्रेर्मम्नित्यम्' इति ममागमः ।

४५८रघुवंशमहाकाव्ये

**भावार्थ—**रामकी आज्ञा से राक्षसराज विभीषण और उनके साथी भी रथों पर चढ़ गये, वे रथ यद्यपि मनुष्यों के बनाए थे फिर भी वे इतने सुन्दर थे कि राक्षसों की माया से बनाए हुए रथ भी उनके सामने तुच्छ थे ॥ ७५ ॥

भूयस्ततो रघुपतिर्विलसत्पताक-
  मध्यास्त कामगति सावरजो विमानम् ।
दोषातनं बुधबृहस्पतियोगदृश्य-
  स्तारापतिस्तरलयिद्यु दिवाभ्रवृन्दम् ॥ ७६ ॥

**अन्वयः—**ततः रघुपतिः सावरजः विलसत्पताकं कामगतिविमानं भूयः बुधबृहस्पतियोगदृश्यः तारापतिः दोषातनं तरलविद्युत् अभ्रवृन्दम् इव अध्यास्त ।

भूय इति । ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन् विलसत्पताकं कामेनेच्छानुसारण गतिः यस्य तद्विमानं भूयः पुनरपि बुधबृहस्पतिभ्यां योगेन दृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम् । “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्चुलौ तुट् च” इत्यनेन दोषाशब्दाव्ययाट्ट्युत्प्रत्ययः । तरलविद्युच्चलत्तडिदभ्रवृन्दमिव अध्यास्ताधिष्ठितवान् ।

**भावार्थ—**उसके बाद राम भी भरत और लक्ष्मण के साथ पताकाओं से सजे हुए और इच्छानुसार चलनेवाले पुष्पक विमान पर उस प्रकार चढ़ गये, जिस प्रकार बुध और बृहस्पति के साथ होने से विशेष दर्शनीय चन्द्रमा सन्ध्या के समय चञ्चल बिजली युक्त बादलों पर बैठता है ॥ ७६ ॥

तत्रेश्वररेण जगतां प्रलयादिवोर्वी
  वर्षात्ययेन रुचमभ्रघन।द्विवेन्दोः ।
रामेण मैथिलसुतां दशकण्ठकृच्छा-
  त्प्रत्युदृधृतां धृतिमतीं भरतो ववन्दे ॥ ७७ ॥

**अन्वयः—**तत्र जगताम् ईश्वरेण प्रलयात् उर्वीम् इव वर्षात्ययेन अभ्रघनात् इन्दो रुच इव रामेण दशकण्ठकृच्छ्रात् प्रत्युद्धृतां धृतिमतीं मैथिलसुतां भरतः ववन्दे ।

तत्रेति । तत्र विमाने जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव वर्षात्ययेन शरदागमेनाभ्रघनान्मेघसङ्घातादिन्दो रुचं चन्द्रिकामिव रामेण दशकण्ठ एवं कृच्छ्रं सङ्कटं तस्मात्प्रत्युद्धृतां धृतिमतीं सन्तोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ।

**भावार्थ—**जिस प्रकार आदिवराह ने प्रलय से पृथ्वी का उद्धार किया था और जिस प्रकार वर्षा ऋतु बीत जाने पर शरद् ऋतु बादलों से चन्द्रमा की