सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

त्रयोदशः सर्गः | ४३३

त्रयोदशः सर्गः४३३

अन्वयः—तव अधरस्पर्धिषु विद्रुमेषु सहसोर्मिवेगात् पर्यस्तम् ऊर्ध्वाङ्कुर-प्रोतमुखं एतत् शंखयूथम् कथंचित् अपक्रामति ।

तवेति । तवाधरस्पर्धिषु अधरसदृशेष्वित्यर्थः । विद्रुमेषु प्रबालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं कथञ्चित्क्लेशादपक्रामति बिलुम्ब्यापसरतीत्यर्थः ।

भाषार्थ—देखो तुम्हारे अधर के समान लाल मूंगों से लहरों की झोंक में टकरा जाने से इन जीवित शंखों के मुंह छिद गये हैं और उस पीड़ा से ये बेचारे बड़ी कठिनाई से इधर-उधर चल पा रहे हैं ॥ १३ ॥

प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन ।
आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ १४ ॥

अन्वयः—पयांसि पातुं प्रवृत्तमात्रेण आवर्तवेगात् भ्रमता घनेन अयं समुद्रः भूयः गिरिणा प्रमथ्यमानः इव भूयिष्ठं आभाति ।

प्रवृत्तेति । पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रे न तु पीतवांस्तेनावर्तवेगात् । ‘स्यादावर्तोऽम्भसां भ्रमः’ इत्यमरः । भ्रमता घनेन मेघेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ।

भाषार्थ—वह देखो, काले बादल समुद्र का पानी पीने के लिए आये हैं और समुद्र के भँवरों के साथ-साथ बड़ी तीव्र गति से चक्कर काट रहे हैं, इस समय वह समुद्र ऐसा जान पड़ रहा है मानो मन्दराचल से यह पुनः मथा जा रहा हो ॥ १४ ॥

दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥ १५ ॥

अन्वयः—अयश्चक्रनिभस्य लवणाम्बुराशेः दूरात् तन्वी तमालतालीवन-राजिनीला वेला धारानिबद्धा कलङ्करेखा इव आभाति ।

दूरादिति । अयश्चक्रनिभस्य लोहचक्रसदृशस्य लवणाम्बुराशेर्दूरात्तन्व्यणुत्वेनावभासमाना तमालतालीवनराजिभिर्नीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखा मालिन्यरेखेव आभाति । ‘मालिन्यरेखां तु कलङ्कमाहुः’ इति दण्डी ।

भाषार्थ—देखो, दूर होने के कारण लोहे के हाल समान पतला ताल और तमाल वृक्षों के समूह से काला दिखाई देनेवाला यह समुद्र का तट ऐसा दिखाई दे रहा है मानों चक्र की धार पर मोर्चा जम गया हो ॥ १५ ॥

वेलानिलः केतकरेणुभिस्ते सम्भावयत्याननमायताक्षि ! ।
मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ १६ ॥

२८ र० सम्पू०

४३४रघुवंशमहाकाव्ये

अन्वयः—हे आयताक्षि ! वेलानिलः केतकरेणुभिः ते आननं सम्भावयति बिम्बाधरबद्धतृष्णम् मां मण्डलकालहानेः अक्षमं वेत्ति इव ।

वेलेति । हे आयताक्षि ! ‘वेला स्यात्तीरनीरयोः’ इति विश्वः । वेलानिलः समुद्रतीरवायुः केतकरेणुभिस्ते आननं सम्भावयति । किमर्थमित्यपेक्षायामुत्प्रेक्षते—बिम्बाधरे बद्धतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बतया अक्षममसहमानं कर्मणि षष्ठी । कालहानिमसहमानं वेत्तीव वेत्ति किम् । नो चेत्कथं सम्भावयेदित्यर्थः ।

भाषार्थ—हे विशाललोचने प्रिये ! समुद्रतट का वायु तुम्हारे मुखको केतकी के पराग से अलंकृत कर रहा है, मानो वह यह जान गया है कि मैं तुम्हारे अधरों को चूमने वाला ही हूँ और अब अधिक शृङ्गार करने की राह नहीं देख सकता ॥ १६ ॥


एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १७ ॥

अन्वयः—एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्ताः पटलं फलावर्जितपूगमालम् पयोधेः कूलं विमानवेगात् मुहूर्तेन प्राप्ताः ।

एत इति । एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरावर्जिता आनमिताः पूगमाला यस्मिंस्तत्पयोधेः सागरस्य कूलं तीरं विमानवेगात्पुष्पकविमानवेगान्मुहूर्तेन प्राप्ताः ।

भाषार्थ—यह देखो, विमान के तेजी से चलने के कारण क्षण भर में ही हम लोग समुद्र के उस तट पर पहुँच गये, जहाँ बालू पर सीपों के फैल जाने से मोती बिखरे पड़े हैं और फलों के भार से सुपारी के पेड़ झुके खड़े हैं ॥ १७ ॥


कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि ! दृष्टिपातम् ।
एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ १८ ॥

अन्वयः—हे करभोरु ! मृगप्रेक्षिणि ! तावत् पश्चात् मार्गे दृष्टिपातं कुरुष्व । एषा सकानना भूमिः विदूरी भवतः समुद्रात् निष्पतति इव ।

कुरुष्वेति । ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः । करभ इवोरू यस्याः सा करभोरूः । “ऊरूत्तरपदादौपम्ये” इत्यूङ् । तस्याः सम्बुद्धिर्हे करभोरु ! मृगवत्प्रेक्षत इति विग्रहः । हे मृगप्रेक्षिणि ! तावत्पश्चान्मार्गे लङ्घिताध्वनि दृष्टिपातं कुरुष्व । एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव । विदूरशब्दाद्विशेष्यनिघ्नाच्च्विः ।

भाषार्थ—हे कदली दल के समान जङ्घावाली मृगनयनीप्रिये ! जरा पीछे की

त्रयोदशः सर्गः ४३५

ओर तो देखो, दूर चले आने के कारण यह जंगलों से भरी हुई भूमि ऐसी दिखाई दे रही है मानों समुद्र से अभी निकल पड़ी हो ॥ १८ ॥

क्वचित्पथा सञ्चरते सुराणां क्वचिद्घनानां पततां क्वचिच्च ।
यथाविधो मे मनसोऽभिलाषः प्रवर्त्तते पश्य तथा विमानम् ॥ १९ ॥

अन्वयः— ( हे देवि ! ) विमानं मे मनसः अभिलाषः यथाविधः प्रवर्त्तते, तथा पश्य, क्वचित् सुराणां क्वचित् घनानां क्वचित् पततां च पथा संचरते ।

क्वचित्पथेति । हे देवि ! विमानं पुष्पकं मे मनसोऽभिलाषो यथाविधस्तथा प्रवर्त्तते पश्य । क्वचित्सुराणां पथा मार्गेण सञ्चरते क्वचिद् घनानां क्वचित्पततां पक्षिणां च पथा संचरते । "समस्तृतीयायुक्तात्" इति सम्पूर्वाच्चरतेरात्मनेपदम् ।

भाषार्थ— हे प्रिये ! मैं जिधर चाहता हूँ उधर ही यह विमान घूम जाता है, यह कभी तो देवताओं के मार्ग में उड़ता चलता है, कभी बादलों के मार्ग से पहुँच जाता है और कभी पक्षियों के मार्ग ( आकाश ) में उड़ने लगता है ॥ १९ ॥

असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ २० ॥

अन्वयः— महेन्द्रद्विपदानगन्धिः त्रिमार्गगावीचिविमर्दशीतः असौ आकाश-वायुः दिनयौवनोत्थान् ते मुखे स्वेदलवान् आचामति ।

असाविति । महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः । त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा । "तद्धितार्थोत्तरपदसमाहारे च" इत्यनेनोत्तरपदसमासः । तस्या वियद्गङ्गाया वीचीनां विमर्देन सम्पर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्था-मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति । अनेन सुरपथसञ्चारो दर्शितः ।

भाषार्थ— ऐरावत के मद से सुगन्धित आकाश गङ्गा की लहरों के स्पर्श से शीतल यह आकाश का वायु तुम्हारे मुखपर दोपहर की गर्मी से उत्पन्न हुए पसीने की बूंदों को सुखा रहा है ॥ २० ॥

करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि ! कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ २१ ॥

अन्वयः— हे चण्डि ! कुतूहलिन्या त्वया वातायनलम्बितेन करेण स्पृष्टः उद्भिन्नविद्युद्वलयः घनः ते द्वितीयं आभरणं आमुञ्चति इव ।

करेणेति । हे चण्डि कोपने ! 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः । कुतूहलिन्या विनोदायिन्या त्वया कर्त्र्या वातायने गवाक्षे लम्बितेनासंसितेन करेण स्पृष्ट

४३६ रघुवंशमहाकाव्ये

उद्भिन्नविद्युद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुखतीवार्पयतीव । चण्डी-
त्वनेन कोपनशीलत्वाद्व्रीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ।
भाषार्थ—हे प्रिये ! जब तुम कौतुकवश अपना हाथ विमान से बाहर
निकालकर बादल को छूने लगती हो तो तुम्हारे मणिबन्ध चारों तरफ बिजली
चमक जाती है उस समय मालूम पड़ता है मानो वह बादल तुम्हारे हाथ में
दूसरा कंकण पहना रहा हो ॥ २१ ॥

अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अभ्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ २२ ॥

अन्वयः—अमी चीरभृतः जनस्थानम् अपोढविघ्नं मत्वा समारब्धनवोटजानि
चिरोज्झितानि आश्रममण्डलानि यथास्वं अभ्यासते ।

अमी इति । अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्यविघ्नं मत्वा
ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि । 'पर्णशालोटजोऽस्त्रियाम्'
इत्यमरः । चिरोज्झितानि राक्षसभयादित्यर्थः । आश्रममण्डलान्याश्रमविभागान्य-
थास्वं स्वमनतिक्रम्याभ्यासतेऽधितिष्ठन्ति ।

भावार्थ—प्रिये ! नीचे देखो, रावण आदि राक्षसों के मारे जाने की
बात सुनकर वल्कल वस्त्रधारी इन तपस्वियों ने समझ लिया है कि अब कोई
बाधा नहीं रही । इसलिए ये नई २ कुटिया बनाकर बहुत दिनों से छोड़े हुए
आश्रमों में पहले के समान निवास कर रहे हैं ॥ २२ ॥

सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥

अन्वयः—सा स्थली एषा यत्र त्वां विचिन्वता मया त्वच्चरणारविन्द-
विश्लेषदुःखात् इव बद्धमौनं उर्व्यां भ्रष्टं एकं नूपुरं अदृश्यत ।

सैषेति । सा पूर्वानुभूता स्थल्येषा दृश्यत इत्यर्थः । यत्र स्थल्यां त्वां
विचिन्वताऽन्विष्यता मया । त्वच्चरणारविन्देन यो विश्लेषो वियोगस्तेन यद्
दुःखं तस्मादिव बद्धमौनं निःशब्दम् । उर्व्यां भ्रष्टमेकं नूपुरं मञ्जीरः । 'मञ्जीरो
-नूपुरोऽस्त्रियाम्' इत्यमरः । अदृश्यत दृष्टम् । हेतूत्प्रेक्षा ।

भावार्थ—प्रिये ! देखो यह वही स्थान है जहाँ तुम्हें ढूंढते हुए मैंने पृथ्वी
पर पड़े हुए तुम्हारे एक नूपुर को पाया था । गुप-चुप पड़ा हुआ वह ऐसा
मालूम पड़ रहा था मानों तुम्हारे चरणों से अलग हो जाने के दुःख से चुप
हो गया हो ॥ २३ ॥