सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टादशः सर्गः ५९५

अष्टादशः सर्गः ५९५

**भाषार्थ—**इन्द्र ने उस राजा अतिथि के साम्राज्य पर वर्षा की, यमराज ने रोगों का बढ़ना रोका, वरुणने नाव चलाने वालों के लिए जल-मार्ग खोल दिये और कुबेर ने इनका राजकोष भर दिया । इस प्रकार इन्द्र आदि लोकपाल मानो इनके प्रताप से ही डरकर इनकी सेवा कर रहे थे ॥ ८१ ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया
व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये
अतिथिवर्णनो नाम सप्तदशः सर्गः ॥ १७ ॥


अष्टादशः सर्गः

यत्पादपांसुसम्पर्कादहल्यासीदपांसुला ।
कारुण्यसिन्धवे तस्मै नमो वैदेहिबन्धवे ॥

स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधाज्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १ ॥

**अन्वयः—**निषिद्धशत्रुः स नैषधस्य अर्थपतेः सुतायां निषधात् नगेन्द्रात् अनूनसारं पुत्रं उत्पादयामास यं निषधाख्यं एव आहुः ।

स इति । निषिद्धशत्रुर्निवारितरिपुः सोऽतिथिर्नैषधस्य निषधदेशाधीश्वरस्यार्थपते राज्ञः सुतायां निषधान्निषधाख्यान्नगेन्द्रात्पर्वतादनूनसारमन्यूनबलं पुत्रमुत्पादयामास । यं पुत्रं निषधाख्यं निषधनामकमेवाहुः ।

**भाषार्थ—**शत्रुसंहारक राजा अतिथि ने निषध देश के राजा की कन्या से निषध पर्वत के समान बलवान् पुत्र उत्पन्न किया और उसका भी नाम निषध रखा ॥ १ ॥

तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्टियोगादिव जीवलोकः सस्येन सम्पत्तिफलोन्मुखेन ॥ २ ॥

**अन्वयः—**उरुवीर्येण प्रजायै कल्पिष्यमाणेन तेन पिता सुवृष्टियोगात् सम्पत्तिफलोन्मुखेन सस्येन जीवलोक इव ननन्द ।

तेनेति । उरुवीर्येणातिपराक्रमेणात एव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन

५९६ | रघुवंशमहाकाव्ये

तेन यूना निषधेन पितातिथिः सुवृष्टियोगात्सम्पत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोकः इव ननन्द जहर्ष ।

भाषार्थ—जिस प्रकार समय की वर्षा से फले हुए धानों को देखकर संसार के सभी प्राणी प्रसन्न होते हैं उसी प्रकार महापराक्रमी और भविष्य में प्रजा की रक्षा के लिए समर्थ युवराज निषध को देखकर राजा अतिथि परम प्रसन्न हुए ॥ २ ॥

शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैर्धामर्जितां कर्मभिरारुरोह ॥ ३ ॥

अन्वयः—कौमुद्वतेयः शब्दादि सुखं निर्विश्य चिराय तस्मिन् प्रतिष्ठापितराजशब्दः कुमुदावदातैः कर्मभिः अर्जितां द्यां आरुरोह ।

शब्दादीति । कुमुद्वत्या अपत्यं पुमान्कौमुद्वतेयोऽतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन् कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधाभिरजितां सम्पादितां द्यां स्वर्गमारुरोह ।

भाषार्थ—कुमुद्वती के पुत्र राजा अतिथि ने बहुत दिनों तक सुख, शब्दादि विषयों को भोग कर और अपने पुत्र निषध को राजपाट सौंपकर कुमुद के समान उज्ज्वल पुण्य कर्मों के बल से प्राप्त स्वर्ग में सुख भोगने के लिए चले गये ॥ ३ ॥

पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ ४ ॥

अन्वयः—कुशेशयाक्षः सागरधीरचेताः एकवीरः पुरार्गलादीर्घभुजः कुशस्य पौत्रः अपि ससागरां एकातपत्रां भुवं बुभोज ।

पौत्र इति । कुशेशयाक्षः शतपत्रलोचनः । ‘शतपत्रं कुशेशयम्’ इत्यमरः । सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः पुरस्यार्गला कपाटविष्कम्भः । ‘तद्विष्कम्भोऽर्गलं न ना’ इत्यमरः । तद्वद्दीर्घभुजः कुशस्य पोत्रो निषधोऽपि ससागरामेकातपत्रां भुवं बुभोज पालयामास । “भुजोऽनवने” इत्युक्तेः परस्मैपदम् ।

भाषार्थ—कमल के समान नेत्रवाले, समुद्रके समान गम्भीर चित्तवाले और नगर के प्रधान फाटक की अर्गला के समान बड़ी-बड़ी बाहुवाले, अद्वितीय वीर कुश के पौत्र निषध ने भी सागर तक फैली हुई एकछत्र पृथ्वी का भोग किया ॥ ४ ॥

तस्यानलौजस्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनामवक्त्रः ॥ ५ ॥