सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

त्रयोदशः सर्गः ४३१

त्रयोदशः सर्गः ४३१

अन्वयः—आदिभवेन पुंसा रसातलात् प्रयुक्तोद्वहनक्रियायाः भुवः प्रलय-प्रवृद्धं अस्य अच्छं अम्भः मुहूर्तं वक्त्राभरणं बभूव।

रसातलादिति। आदिभवेन पुंसाऽऽदिवराहेण रसातलात्प्रयुक्तोद्वहनक्रियायाः कृतोद्धरणक्रियायाः। विवाहक्रिया च व्यज्यते। भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्त्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव। तदुक्तम्—"उद्धृतासि वराहेण कृष्णेन शतबाहुना" इति।

भाषार्थ—सृष्टि के आरम्भ में जब आदिपुरुष भगवान् वराह पाताल से पृथ्वी का उद्धार कर ले जा रहे थे उस समय प्रलय से बढ़ा हुआ इसका स्वच्छ जल क्षण भर के लिए पृथ्वी की घूंघट सा बन गया था ॥ ८ ॥

मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ ९ ॥

अन्वयः—अनन्यसामान्यकलत्रवृत्तिः तरङ्गाधरदानदक्षः असौ मुखार्पणेषु प्रकृतिप्रगल्भाः सिन्धूः स्वयं पिबति तरङ्गाधरं पाययते च।

मुखेति। अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्यो कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति—तरङ्ग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेरणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। 'सिन्धुः समुद्रे नद्यां च' इति विश्वः। स्वयं पिबति पाययते च। तरङ्गाधरमिति शेषः। "न पादम्याङ्य०" इत्यादिना पिबेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। "गतिबुद्धिप्रत्यवसनार्थ०" इत्यादिना सिन्धूनां कर्मत्वम्। दम्पत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः।

भाषार्थ—प्रिये ! देखो, दूसरे लोग केवल स्त्रियों का अधर पान करते हैं; किन्तु अपना अधर उन्हें नहीं पिलाते; पर यह समुद्र उस विषय में भी औरों से बढ़कर है, क्योंकि जब ढींठ होकर नदियाँ चुम्बन के लिए अपना मुख इसके आगे बढ़ातीं हैं तब यह बड़ी चतुरता से अपना तरंग रूप अधर उन्हें पिला देता है और उनका अधर स्वयं पीता है ॥ ९ ॥

ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात्।
अमी शिरोभिस्तिमयः सरन्ध्रै रूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ १० ॥

अन्वयः—अमी तिमयः विवृताननत्वात् ससत्त्वं नदीमुखाम्भः आदाय सरन्ध्रैः शिरोभिः जलप्रवाहान् वितन्वन्ति।

४३२ रघुवंशमहाकाव्ये

ससत्त्वमिति । अमी तिमयो मत्स्यविशेषाः तदुक्तम्—"अस्ति मत्स्यस्ति-
मिर्नाम शतयोजनमायतः" इति विवृताननत्वाद्व्यात्तमुखत्वाद्धे तोः । आननं
विवृत्येत्यर्थः । ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्च-
ञ्चुपुटानि सङ्घट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूध्वं वितन्वन्ति ।
जलयन्त्रक्रीडासमाधिर्व्यज्यते ।

भाषार्थ—यह देखो, ये बड़ी-बड़ी मछलियाँ पहले अपना-अपना मुंह
खोलकर अन्य जन्तुओं के सहित समुद्र का जल पी जाती है और फिर मुंह
बन्द करके अपने मस्तकों के छिद्रों से फुहरे के समान पानी की जलधारायें
छोड़ने लगती हैं ॥ १० ॥

मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ ११ ॥

अन्वयः—सहसोत्पतद्भिः मातङ्गनक्रैः द्विधाभिन्नान् समुद्रफेनान् पश्य ये
कपोलसंसगितया कर्णक्षणचामरत्वं व्रजन्ति ।

मातङ्गेति । सहसोत्पतद्भिर्मातङ्गनक्रैर्मातङ्गाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्र-
फेनान्पश्य । ये फेना एषां जलमातङ्गनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना
कर्णेषु क्षणं चामरत्वं व्रजन्ति ।

भाषार्थ—गजाकार मगरों के अचानक उठने से दो भागों में विभक्त समुद्र
के फेन को तो देखो--जो ऐसे सुन्दर लगते हैं मानों इनके दोनों कानों पर
चँवर टँगे हों ॥ ११ ॥

वेलानिलाय प्रसृता भुजङ्गा महोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्याशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ १२ ॥

अन्वयः—वेलानिलाय प्रसृता महोर्मिविस्फूर्जयथुनिर्विशेषाः एते भुजङ्गाः
सूर्यांशु सम्पर्कसमृद्धरागैः फणस्थैः मणिभिः व्यजन्ते ।

वेलेति । वेलानिलाय वेलानिलं पातुमित्यर्थः । "क्रियार्थोपपदस्य च कर्मणि
स्थानिनः" इत्यनेन चतुर्थी । प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः ।
"ट्वितोऽथुच्" इत्यथुच्प्रत्ययः तस्मान्निर्विशेषा दुर्ग्रहभेदा एते भुजङ्गाः सूर्याशु-
सम्पर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ।

भाषार्थ—ये जो बड़ी-बड़ी लहरों के समान दिखाई दे रहे हैं ये साँप हैं,
जो तट का वायु पीने के लिए बाहर निकल आये हैं, पर जब सूर्य की किरणों
से इनकी फणाओं की मणियाँ चमक जाती हैं तब वे पहचान में आ
जाते हैं ॥ १२ ॥

तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥ १३ ॥