रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
चतुर्दशः सर्गः । ४७१
चतुर्दशः सर्गः । ४७१
कादिदानं बलिः। संबद्धाः कृतसम्बन्धाः कृतसख्या वैखानसानां कन्यका येषु तानि कुशवन्ति भागीरथीतीरतपोवनानि भूयः पुनरपि गन्तुमियेषाभिलाष ।
भाषार्थ—सीताजी ने कहा, मैं गङ्गा के तट के उन तपस्वियों को देखना चाहती हूँ जहां के हिंसक जन्तु मांस न खाकर नीवार ही खाते हैं, जहां मेरी सखियां तपस्वियों की कन्यायें रहती हैं और वहां कुशा की पर्णकुटियां चारों ओर खड़ी हैं ॥ २८ ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥ २९ ॥
अन्वयः—रघुप्रवीरः तस्यै तत् ईप्सितं प्रतिश्रुत्य पार्श्वचरानुयातः ( सन् ) मुदितां अयोध्यां आलोकयिष्यन् अभ्रंलिहं प्रासादम् आरुरोह ।
तस्या इति । रघुप्रवीरो रामस्तस्यै सीतायै तत्पूर्वोक्तमीप्सितं मनोरथं प्रतिश्रुत्य पार्श्वचरैस्तत्कालोचितैरनुयातः सन्मुदितां तामयोध्यामलोकयिष्यन् अभ्रं लेढीत्यभ्रंलिहमभ्रङ्कषं प्रासादमारुरोह । “वहाभ्रे लिहः” इति खश्प्रत्ययः । “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः ।
भाषार्थ—रामजी ने कहा—अच्छी बात है हम तुम्हें तपोवन में अवश्य भेजेंगे, वे वहांसे उठ कर अपने सेवकों के साथ सुन्दर अयोध्या की छटा देखने के लिए गगनचुम्बी अपने राजभवन की छतपर जा चढ़े ॥ २९ ॥
ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ ३० ॥
अन्वयः—सः ऋद्धापणं राजपथं नौभिः विगाह्यमानां सरयूञ्च पश्यन् पौरैः विलासिभिः अध्युषितानि पुरोपकण्ठोपवनानि रेमे ।
ऋद्धापणमिति । स रामः ऋद्धाः समृद्धा आपणाः पण्यभूमयो यस्मिंस्तं राजपथम् । नौभिः समुद्रवाहिनीभिर्विगाह्यमानां सरयूं च, पौरैर्विलासिभिरध्युषितानि पुरोपकण्ठोपवनानि च पश्यन्रेमे । विलासिन्यश्च विलासिनः । “पुमान्स्त्रिया” इत्येकशेषः ।
भाषार्थ—वहां से उन्होंने देखा कि राजमार्ग की दुकानें धन-धान्य से भरी हुई हैं, सरयू में नावें चल रही हैं और अयोध्या के उद्यानों में विलासी पुरवासी प्रसन्न होकर विलास कर रहे हैं ॥ ३० ॥
स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः ।
सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ ३१ ॥
| ४७२ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—वदतां पुरोगः विशुद्धवृत्तः सर्पाधिराजोरुभुजः विजितारिभद्रः सः स्ववृत्तम् उद्दिश्य भद्रं अपसर्पं किंवदन्तीं पप्रच्छ ।
स इति । वदतां वाग्मिनां पुरोगः श्रेष्ठो विशुद्धवृत्तः सर्पाधिराजः शेषः तद्वदूरू भुजो यस्य सः । विजितारिभद्रो विजितारिश्रेष्ठः स रामः । स्ववृत्तमुद्दिश्य भद्रं भद्रनामकमपसर्पं चरं किंवदन्तीं जनवादं पप्रच्छ । 'अपसर्पश्चरः स्पर्शः' इति, 'किंवदन्ती जनश्रुतिः' इति चामरः ।
भाषार्थ—नगर की यह शोभा देखकर वक्ताओं में श्रेष्ठ सदाचारी और शेष के समान बड़ी-बड़ी भुजाओं और जंघाओंवाले शत्रु विजयी राम ने अपने भद्रमुख नामक गुप्तचर से पूछा—कहो भद्र ! मेरे विषय में प्रजा क्या कहती है ? ॥ ३१ ॥
निबन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव ! देव्याः ॥ ३२ ॥
अन्वयः—निबन्धपृष्टः स जगाद—हे मानवदेव ! रक्षोभवनोषितायाः देव्याः परिग्रहात् अन्यत्र त्वदीयं सर्वं चरितं पौराः स्तुवन्ति ।
निबन्धेति । निर्बन्धेनाग्रहेण पृष्टः सोऽपसर्पो जगाद । किमिति ? हे मानवदेव ! रक्षोभवन उषिताया देव्याः सीतायाः परिग्रहात्स्वीकारादन्यत्रे तरांशे तं वर्जयित्वेत्यर्थः । त्वदीयं सर्वं चरितं पौराः स्तुवन्ति ।
भाषार्थ—पहले तो वह चुप रहा, पर राम के द्वारा आग्रह पूर्वक पूछे जाने पर वह बोला—हे मानवदेव ! जनता आपकी सब बातों की प्रशंसा करती है किन्तु आपने राक्षस रावण के घर में रहने वाली सीता को ग्रहण कर लिया, इसे लोग अच्छा नहीं समझते ॥ ३२ ॥
कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ ३३ ॥
अन्वयः—एवं किल कलत्रनिन्दागुरुणा कीर्तिविपर्ययेण अभ्याहतं वैदेहिबन्धोः हृदयं अयोघनेन अभितप्तं अय इव विदद्रे ।
कलत्रेति । एवं किल कलत्रनिन्दया गुरुणा दुर्वहेण कीर्तिविपर्ययेणापकीर्त्याभ्याहतं वैदेहिबन्धोर्वैदेहिबल्लभस्य । "ड्यापोः संज्ञाछन्दसोर्बहुळम्" इति ह्रस्वः । कालिदास इतिवत् । हृदयम् अयोघनेनाभितप्तं संतप्तमय इव विदद्रे विदीर्णम् । कर्तरि लिट् ।
भाषार्थ—इस प्रकार अपनी पत्नी पर लगाए गए इस भीषण कलंक को