रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
त्रयोदशः सर्गः ४३९
त्रयोदशः सर्गः ४३९
आसारेति । अथ शृङ्गे विभिन्नकोशैर्विकसितकुड्मलैर्र्नवकन्दलैः कन्दली-
पुष्पैररुणवर्णैरासारेण धारासंपातेन । 'धारासंपात आसारः' इत्यमरः । सिक्तायाः
क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोर्विडम्ब्यमानाऽनुक्रियमाणा ते विवाहधूमेनारुणा
लोचनश्रीः सादृश्यात्स्मर्यमाणेति शेषः । मामक्षिणदपीडयत् ।
भाषार्थ—धारा पूर्वक वर्षा होने से भीगी हुई पृथ्वी से जो वहाँ भाप निक-
लती थी उससे कन्दलियों की कलियाँ खिल उठीं और वैसी ही लाल हो गईं
जैसे विवाह के समय होम का धुंआँ लगने से तुम्हारी आँखें लाल हो गई थीं,
यह स्मरण आ जाने से मुझे बड़ा कष्ट हुआ ॥ २९ ॥
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्ण पिवतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ ३० ॥
अन्वयः—उपान्तवानीरवनोपगूढानि आलक्ष्य पारिप्लवसारसानि अमूनि
पम्पासलिलानि दूरावतीर्णा मे दृष्टिः खेदात् पिवति इव ।
उपान्तेति । उपान्तवानीरवनोपगूढानि पार्श्ववज्जुलवनच्छन्नान्यलक्ष्या ईष-
द्ददृश्याः पारिप्लवाश्चञ्चलाः सारसा येषु तान्यमूनि पम्पासलिलानि पम्पासरोज-
लानि दूरादवतीर्णा मे दृष्टिरत एव खेदात्पिवतीव । न विहातुमुत्सह्त इत्यर्थः ।
भाषार्थ—प्रिये ! देखो अधिक ऊँचे होने के कारण और समीपस्थ वेत के
जंगलों से ढंके रहने के कारण पम्पासर का पानी ठीक-ठीक नहीं दिखाई दे
रहा है उनपर दूर से पड़ती हुई दृष्टि मानों खेद से उन्हें पी रही है ॥३०॥
अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये ! सस्पृहमीक्षितानि ॥३१॥
अन्वयः—हे प्रिये ! अत्र अन्योऽन्यदत्तोत्पलकेसराणि अवियुक्तानि रथाङ्ग-
नाम्नां द्वन्द्वानि ते दूरान्तरवर्तिना मया सस्पृहं ईक्षितानि ।
अत्रेति । अत्र पम्पासरस्यन्योन्यस्मै दत्तोत्पलकेसराण्यविमुक्तानि रथाङ्ग-
नाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया। हे
प्रिये ! सस्पृहं साभिलाषमीक्षितानि । तदानीं त्वामस्मार्षमित्यर्थः ।
भाषार्थ—हे प्रिये ! यहाँ चकवा चकवी के जोड़े एक दूसरे को प्रेमपूर्वक
कमल का केशर दिया करते थे, तुमसे दूर होने के कारण उन्हें देखकर मैं यही
सोचा करता था कि मुझे भी ये दिन कब देखने को मिलेंगे ॥ ३१ ॥
इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् ।
त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥३२॥
४४० रघुवंशमहाकाव्ये
अन्वयः—स्तनाभिरामस्तबकानि नम्रां तन्वीं इमां तटाशोकलतां त्वत्प्राप्ति-बुद्ध्या परिरब्धुकामः अहं सौमित्रिणा साश्रुः निषिद्धः ।
इमामिति । किंच स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्रां तन्वीमिमां तटाशोकस्य लतां शाखामतस्त्वत्प्राप्तिबुद्ध्या त्वमेव प्राप्तेति भ्रान्त्या परिरब्धु-मालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः । नेयं सीतेति निवारितः । परिरब्धुकाम इत्यत्र "तुं काममनसोरपि" इति वचनान्मकारलोपः ।
भाषार्थ—प्रिये ! तुम्हारे वियोग में मैं ऐसा पागल हो गया था कि एक दिन स्तन के समान मनोहर गुच्छे से झुकी हुई पतली तटवर्तिनी अशोक लता को मैंने यह समझकर गले लगाना चाहा था कि तुम ही हो । तब तक मेरे इस पागलपन को देखकर लक्ष्मण ने रोते हुए मुझे वहां से हटा दिया ॥ ३२ ॥
अमूविमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्द्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपंक्तयस्त्वाम् ॥ ३३ ॥
अन्वयः—विमानान्तरलम्बिनीनां काञ्चनकिंकिणीनां स्वनं श्रुत्वा उत्प-तन्त्यः अमू गोदावरीसारसपंक्तयः त्वां प्रत्युद्द्रजन्ति इव ।
अमूरिति । विमानस्यान्तरेष्ववकाशेषु लम्बन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपंक्तयस्त्वां प्रत्यु-द्द्रजन्तीव ।
भाषार्थ—यह देखो, विमान में लगे हुए छोटे-छोटे सुवर्ण के घुंघुरुओं की आवाज को सुनकर गोदावरी नदी के सारस पक्षियों की पंक्तियाँ अपने झुण्ड के भ्रम से आकाश में ऊपर उड़ती हुई चली आ रही हैं मानो ये तुम्हारी अगवानी करने आ रही हैं ॥ ३३ ॥
एषा त्वया पेशलमध्ययाऽपि घटाम्बुसंवर्धितबालचूता ।
आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ ३४ ॥
अन्वयः—पेशलमध्ययापि त्वया घटाम्बुसंवर्द्धितबालचूता, उन्मुखकृष्णसारा चिराद्दृष्टा एषा पञ्चवटी मे मनः आनन्दयति ।
एषेति । पेशलमध्ययाऽपि भाराक्षमयाऽपीत्यर्थः । त्वयाघटाम्बुभिः संवर्धिता बालचूता यस्याः सा । उन्मुखा अस्मदभिमुखास्त्वत्संवर्धिता एव कृष्णसारा यस्याः सा । चिराद्दृष्टैषा पञ्चवटी मे माम् आनन्दयत्याह्लादयति । पञ्चवटी पूर्वमेव व्याख्यातः ।
भाषार्थ—बहुत दिनों पर पञ्चवटी को देखकर आज मेरा हृदय खिल उठा है यह देखो, यहाँ के मृग ऊपर शिर उठाकर विमान को देख रहे हैं । यहीं
त्रयोदशः सर्गः ४४१
पर तो तुमने अपनी पतली कमर पर घड़े लेकर छोटे-छोटे आम के वृक्षों को सींचकर पाला-पोसा था ॥ ३४ ॥
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ ३५ ॥
अन्वयः—अत्र अनुगोदं मृगयानिवृत्तः तरंगवातेन विनीतखेदः रहः त्वदुत्संगनिषण्णमूर्धा ( सन् अहं ) वानीरगृहेषु सुप्तः स्मरामि ।
अत्रेति । अत्र पञ्चवट्यां गोदा गोदावरी तस्या, समीपेऽनुगोदम् । 'अनुर्यत्समया'' इत्यव्ययीभावः । मृगयाया निवृत्तस्तरङ्गवातेन विनीतखेदो रहो रहसि । अत्यन्तसंयोगे द्वितीया । त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि । वाक्यार्थः कर्म । सुप्त इति यत्तत्स्मरामीत्यर्थः ।
भाषार्थ—मुझे उन दिनों का स्मरण हो रहा है जब मैं यहाँ एकान्त में वेतों की कुञ्जों में तुम्हारी गोद में शिर रखकर सोया करता था और गोदावरी की ठंडी हवा मेरे शिकार के श्रम को मिटाया करती थी ॥ ३५ ॥
भ्रूभेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भीमो मुनेः स्थानपरिग्रहोऽयम् ॥ ३६ ॥
अन्वयः—यः भ्रूभेदमात्रेण नहुषं मघोनः पदात् प्रभ्रंशयांचकार आविलाम्भ परिशुद्धिहेतोः तस्य मुनेः भौमः स्थानपरिग्रहः अयम् ( अस्ति ) ।
भ्रूभेदेति । यो मुनिर्भ्रूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्प्रभ्रंशयाञ्चकार प्रभ्रंशयति स्म । आविलाम्भः परिशुद्धिहेतोः कलुषजलप्रसादहेतोस्तस्य मुनेरगस्त्यस्य अगस्त्योदये शरदि जलं प्रसीदतीत्युक्तं प्राक् । भूमौ भवो भौमः । स्थानपरिग्रह आश्रमोऽयं दृश्यत इति शेषः । भौम इत्यनेन दिव्योऽप्यस्तीत्युक्तम् । परिगृह्यत इति परिग्रहः स्थानमेव इति विग्रहः ।
भाषार्थ—यह देखो, सामने ही उस अगस्त्य मुनि का आश्रम है जिन्होंने केवल भ्रूकुटी टेढ़ी करके ( शाप देकर ) राजा नहुष को इन्द्रपद से गिरा दिया । ये जब उदय होते हैं तब वर्षों का गन्दा जल स्वच्छ हो जाता है ॥ ३६ ॥
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ ३७ ॥
अन्वयः—अनिन्द्यकीर्तेः तस्य आक्रान्त विमानमार्गं हविर्गन्धि त्रेताग्निधूमाग्रं घ्रात्वा रजोविमुक्तः मे आत्मा लघिमानं समश्नुते ।
| ४४२ | रघुवंशमहाकाव्ये |
|---|
त्रेतेति । अनिन्द्यकीर्तेस्तस्यागस्त्याक्रान्तविमानमार्गम् । हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रेताग्नेरग्नित्रयम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । पृषोदरादित्वादेत्वम् । त्रेताग्नेर्धूम्रामिदं घ्रात्वाऽऽघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ।
भाषार्थ—उसी प्रशंसनीय यशवाले अगस्त्य ऋषि द्वारा गार्हपत्य, दाक्षिणात्य एवं आहवनीय अग्नियों में दी गई हवन सामग्री की गन्ध से मिला हुआ यह धुआं विमान के पास तक उठा चला आ रहा है जिसे सूंघते ही मेरी आत्मा पवित्र हो गई और मेरे अन्तःकरण से रजोगुण निकल गया । अर्थात् मैं शान्ति का अनुभव कर रहा हूँ ॥ ३७ ॥
एतन्मुनेर्मानिनि ! शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ ३८ ॥
अन्वयः—हे मानिनि ! शातकर्णेः मुनेः पञ्चाप्सरो नाम पर्यन्तवनं एतत् बिहारवारि विदूरात् मेघान्तरालक्ष्यं इन्दुबिम्बं इव आभाति ।
एतदिति । हे मानिनि ! शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् । पञ्चाप्सरसो यस्मिन्निति विग्रहः पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् मेघानामन्तरे मध्य आलक्ष्यमीषदृदृश्यम् । 'आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । इन्दुबिम्बमिव आभाति ।
भाषार्थ—हे मानिनि प्रिये ! यह आगे शातकर्णी ऋषि का पञ्चाप्सर नामक क्रीड़ा सरोवर चारों ओर काले-काले जंगलों से घिरा हुआ दूर से ऐसा दिखाई पड़ रहा है मानो बादलों के बीच में कुछ-कुछ दिखाई देने वाला चमकीला चन्द्रमा का बिम्ब हो ॥ ३८ ॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ ३९ ॥
अन्वयः—पुरा दर्भाङ्कुरमात्रवृत्तिः मृगैः सार्द्धं सह चरन् स ऋषिः समाधिभीतेन मघोना पञ्चाप्सरो-योजनकूटबन्धं उपनीतः किल ।
पुरेति । पुरा पूर्वस्मिन्काले दर्भाङ्कुरमात्रवृत्तिस्तन्मात्राहारो मृगैः सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम् । 'तद्धितार्थोत्तरपदसमाहारे च' इत्यनेनोत्तरपदसमासः । तदेव कूटबन्धं कपटयन्त्रमुपनीतः । 'उन्माथः कूटयन्त्रं स्यात्' इत्यमरः । किलेत्यैतिह्ये । मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ।