रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
तृतीयः सर्गः ८१
तृतीयः सर्गः ८१
हैमः । ‘भृतिर्भर्म’ इति शाश्वतः । भृतो मनिच्प्रत्ययः । ‘गर्भकर्मणि इति
पाठे गर्भाधानप्रतीतावोचित्यभङ्गः । अनुष्ठिते कृते सति । काले दशमे
मासि । अन्यत्र ग्रीष्मावसाने । प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवा-
मित्यर्थः । ‘स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरः । प्रियां भार्याम् ।
अप्राण्यस्याः सञ्जातार्त्तवां ताम् । ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ इतो-
तच्प्रत्ययः । दिवमिव । पतिर्भर्त्ता प्रतीतो हृष्टः सन् । ‘ख्याते हृष्टे प्रतीत:’
इत्यमरः । ददर्श दृष्टवान् ।
भाषार्थ—बाद में बालचिकित्सा में कुशल विश्वासपात्र वैद्यों से गर्भ की
पुष्टि की जाने पर राजा दिलीप ने प्रसन्न हो दशवें मास में शीघ्र पुत्र जननेवाली सुद-
क्षिणा को तत्काल बरसने वाले मेघों से व्याप्त आकाश की भांति देखा ॥ १९ ॥
ग्रह्रैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् ।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ १३ ॥
अन्वयः—ततः समये शचीसमा (सा) उच्चसंश्रयै असूर्यगैः पञ्चभिः ग्रहैः
सूचितभाग्यसंपदं पुत्रं त्रिसाधना शक्तिः अक्षयम् अर्थम् इव असूत ।
ग्रहेरिति । ततः शच्येन्द्राण्या समा । ‘पुलोमजा शचीन्द्राणी’ इत्यमरः ।
सा सुदक्षिणा समये प्रसूतिक़ाले सति दशमे मासीत्यर्थः । ‘दशमे मासि जायते’ ।
इति श्रुतेः । उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद् यथा-
सम्भवं पञ्चभिर्ग्रहैः सूचिता भाग्यसम्पद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्सा-
हात्मकानि साधनान्द्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः । ‘शक्तयस्तिस्रः
प्रभावोत्साहमन्त्रजा’ इत्यमरः । अक्षयमर्थमिव । असूत । ‘षूङ् प्राणिगर्भविमो-
चने’ इत्यात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्त्तरि लङ् । अत्रेद्मनुसंधेयम्—
‘अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः । दशशिखिमनु-
युक्तिथीन्द्रियांशैस्त्रिनवविंशतिभिश्च तेज्ऽतनीचा’ ।। इति सूर्यादीनां सप्तानां
ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि स्वस्वतुङ्गा-
पेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेस्वपि दशमादयो राशित्रिंशांशा
यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः । बन्त्रांश-
स्त्रिंशो भागः । यथाऽऽह नारदः-“त्रिंशद्भागात्मकं लग्नम्” इति । सूर्यप्रत्या-
सत्तिर्ग्रहाणामस्तमयो नाम। तदुक्तं लघुजातके-“रविणाऽतमयो योगो वियोग-
स्तूदयो भवेत्” इति । ते च स्वोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः ।
तदुक्तं राजमृगाङ्के—‘‘स्वोच्चे पूर्णं” स्वक्षर्केऽद्धं सुहृद्भे पादं द्विभेऽल्पं शुभं
खेचरेन्द्राः । नीचस्थायी नास्तगो वा न किञ्चित्पादं नूनं स्वत्रिकोणे ददाति” । इति
६ २० सम्पृ०
८२ | रघुवंशमहाकाव्ये
तदिदमाह कविरुच्चसंस्थैरसूर्यगैरिति च । एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति । तदुक्तं कूटस्थीये—"सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः । एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः" इति तदिदमाह पञ्चभिरिति ।
भाषार्थ—उसके बाद दशवें महीने में इन्द्राणी के समान रानी सुदक्षिणा ने उच्च स्थान में स्थित, सूर्य की समीपता से अस्त न हुए पाँच ग्रहों से सूचित भाग्यसम्पत्ति वाले पुत्रको प्रभाव, उत्साह और मन्त्र से उत्पन्न होने वाली शक्ति के द्वारा सम्पत्ति के समान उत्पन्न किया ॥ १३ ॥
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे ।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ १४ ॥
अन्वयः—तत्क्षणं दिशः प्रसेदुः, मरुतः सुखाः ववुः, अग्निः प्रदक्षिणार्चिः (सन्) हविः आददे । इत्थम् सर्वं शुभशंसि बभूव । हि तादृशां भवः लोकाभ्युदयाय भवति ।
दिश इति । तत्क्षणं तस्मिन् क्षणे । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । दिशः प्रसेदुः प्रसन्ना बभूवुः । मरुतो वाताः सुखा मनोहरा ववुः । अग्निः प्रदक्षिणार्चिः सन् हविराददे स्वीचकार । इत्थं सर्वं शुभशंसि शुभसूचकं बभूव । तथाहि । तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय । भवतीति शेषः । ततो देवा अपि सन्तुष्टा इत्यर्थः ।
भाषार्थ—उस समय दिशायें निर्मल हो गयीं, सुखदायक वायु बहने लगी, अग्नि प्रदक्षिणज्वाल से हवि लेने लगा । इस तरह सभी वस्तुयें मंगलसूचक हुईं । क्योंकि ऐसे लोगों का जन्म संसार के कल्याण के लिए होता है ॥ १४ ॥
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ १५ ॥
अन्वयः—अरिष्टशय्यां परितः विसारिणा सुजन्मनः तस्य निजेन तेजसा सहसा हतत्विषः निशीथदीपाः आलेख्यसमर्पिता इव बभूवुः ।
अरिष्टशय्यामिति । 'अरिष्टं सूतिकागृहम्' इत्यमरः । अरिष्टे सूतिकागृहे शय्यां तल्पं परितोऽभितः 'अभितः परितः समयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । विसारिणा सुजन्मनः शोभनोत्पत्तेः । 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्द्धरात्रप्रदीपाः । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः ।