रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
द्वितीयः सर्गः
द्वितीयः सर्गः
७१
तुम्हारे दूध को ऋषि वसिष्ठ की आज्ञा पाकर पालन की गई पृथ्वी के छठे हिस्से के समान पीना चाहता हूँ ॥ ६६ ॥
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६७ ॥
अन्वयः—क्षितीशेन इत्थं विज्ञापिता वसिष्ठधेनुः प्रीततरा बभूव । तदन्विता वसिष्ठधेनुः हैमवतात् कुक्षेः सकाशात् अश्रमेण आश्रमं प्रत्याययौ च ।
इत्थमिति । इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुः प्रीततरा पूर्वं शुश्रूषया प्रीता सम्प्रत्यनया विज्ञापना प्रीतिराजतिसन्तुष्टा बभूव । तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्सम्बन्धिनः कुक्षेर्गुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ।
भाषार्थ—इस तरह राजा दिलीप की प्रार्थना से महर्षि वसिष्ठ की गौ नन्दिनी बहुत प्रसन्न हुई । और राजा के साथ हिमालय की गुफा से विना परिश्रम के आश्रम के प्रति लोटी ॥ ६७ ॥
तस्या प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥ ६८ ॥
अन्वयः—प्रसन्नेन्दुमुखः नृपाणां गुरुः प्रहर्षचिह्नानुमितं तस्याः प्रसादं पुनरुक्तया वाचा इव गुरवे निवेद्य प्रियायै शशंस ।
तस्या इति । प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमूर्हितं तस्या धेनोः प्रसादम नुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तमेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति । किन्तु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेत्युत्प्रेक्षा ।
भाषार्थ—निर्मल चन्द्रमा के समान मुख वाले, राजाओं में श्रेष्ठ दिलीप ने हर्ष के चिह्नों से अनुमित होने वाले नन्दिनी के वरदानरूपी अनुग्रह की दुबारा कही हुई के समान वाणी द्वारा गुरु से निवेदन कर रानी से कहा ॥ ६८ ॥
स नन्दिनीस्तन्यमनिन्दितात्मा सद्द्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातिसृष्णः ॥ ६६ ॥
अन्वयः—अनिन्दितात्मा सद्दत्सलः वसिष्ठेन कृताभ्यनुज्ञः सः (सन्) वत्सहुतावशेषं नन्दिनीस्तन्यं शुभ्रं मूर्तं इव अतितृष्णः पपौ ॥ ६९ ॥
स इति । अनिन्दितात्माऽगर्हितस्वभावः । सत्सु वत्सलः प्रेमवान्सद्वत्सलः ।
७२ रघुवंशमहाकाव्ये
'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स
राजावतंस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरं शुभ्रं
परिच्छिन्नं यश इव, अतितृष्णः सन् पपौ ।
**भावार्थ—**प्रशंसनीय स्वभाव वाले, सज्जनों पर दयालु, महर्षि वसिष्ठ की
आज्ञा पालन कर राजा दिलीप ने अतितृषित हो बछड़े के पीने और हवन से बचे
हुए नन्दिनी के दूध को उज्ज्वल मूर्तिमान् यश के समान पिया ॥ ६९ ॥
प्रातर्यथोक्तव्रतपारणाऽन्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥ ७० ॥
**अन्वयः—**वशी वसिष्ठः यथोक्तव्रतपारणाम्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य तौ
दम्पती स्वां राजधानीं प्रति प्रस्थापयामास ।
प्रातरिति । वशी वसिष्ठः प्रातः यथोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या
पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवं तत्कालोचितमित्यर्थः ।
'कालाट्ठञ्' इति ठञ्प्रत्ययः । 'यथा कथञ्चिद् गुणवृत्त्याऽपि काले वर्त्तमानत्वात्
प्रत्यय इष्यते' इति वृत्तिकारः । ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशी-
र्वादं प्रयुज्य तौ दम्पती स्वां राजधानीं प्रस्थापयामास ।
**भावार्थ—**प्रातः काल जितेन्द्रिय महर्षि वसिष्ठ ने विधिपूर्वक गोसेवा रूपी
व्रत की पारणा करने के बाद यात्रा के समय समुचित स्वस्तिवाचन कर, उन
दोनों राजा-रानी को उनकी राजधानी की ओर भेजा ॥ ७० ॥
प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे स मङ्गलोदग्रतरप्रभावः ॥ ७१ ॥
**अन्वयः—**नृपः हुतं हुताशं च भर्तुः अनन्तरम् अरुन्धतीं च सवत्सां धेनुं च
प्रदक्षिणीकृत्य सन्मङ्गलोदग्रतरप्रभावः (सन्) प्रतस्थे ।
प्रदक्षिणीकृत्येति । नृपो हुतं तर्पितं, हुतमश्नातीति हुताशोऽग्निः । 'कर्मण्यण्' ।
तं भर्त्तुमुनेरनन्तरम् प्रदक्षिणामन्तरमित्यर्थः । अरुन्धतीं च सवत्सां धेनुं च प्रदक्षि-
णीकृत्य प्रागतो दक्षिणम् । 'तिष्ठद्गुप्रभृतीनि च' इत्यव्ययीभावः । ततश्च्चिः ।
अप्रदक्षिणं प्रदक्षिणं सम्पद्यमानं कृत्वा प्रदक्षिणीकृत्य सद्भिर्मङ्गलाचारैरुदग्रतर-
प्रभावः सन् प्रतस्थे ।
**भावार्थ—**राजा दिलीप ने प्रज्वलित अग्नि और मुनि की प्रदक्षिणा के बाद
अरुन्धती और बछड़े के साथ नन्दिनी की प्रदक्षिणा करके अच्छे मङ्गलाचारों से
प्रवर्धित प्रताप वाला होते हुए प्रस्थान किया ॥ ७१ ॥
द्वितीयः सर्गः
७३
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥
अन्वयः—धर्मपत्नीसहितः सहिष्णुः सः श्रोत्राभिरामध्वनिना अनुद्घातसुखेन रथेन स्वेन पूर्णेन मनोरथेन इव मार्गं ययौ ।
श्रोत्रेति । धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामं ध्वनिना कर्णाल्हादकरस्वनेनानुद्घातः । पाषाणादिप्रतिघातरहितः । अत एव सुखयतीति सुखः, तेन रथेन स्वेन पूर्णेन सफलेन मनोरथेनैव मार्गमध्वानं ययौ । मनोरथपक्षे-ध्वनिः श्रुतिः ! अनुद्घातः प्रतिबन्धकनिवृत्तिः ।
भावार्थ—रानी सुदक्षिणा के साथ-साथ व्रतादि दुःखों को सहन करने वाले उस राजा ने कर्णसुखद-ध्वनि-युक्त, मार्ग के झटकों से रहित रथ से प्रतिबन्धरहित अतएव सुखप्रद सफल मनोरथ के समान मार्ग को तय किया ॥ ७२ ॥
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजाऽर्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवोषधीनाम् ॥ ७३ ॥
अन्वयः—अदर्शनेन आहितौत्सुक्यं प्रजार्थव्रतकर्शिताङ्गं प्रजाः तृप्तिम् अनाप्नुवद्भिः नेत्रैः नवोदयम् ओषधीनां नाथम् इव पपुः ।
तमिति । अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्य जनितदर्शनोत्कण्ठयम् । प्रजार्थेन सन्तानार्थेन व्रतेन नियमेन कशितं कृशीकृतमङ्गं यस्य तम् । नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः । ओषधीनां नाथं सोममिव तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः । चन्द्रपक्षे—अदर्शनं कलाक्षयनिमित्तं प्रजाऽर्थं लोकहितार्थं व्रतं देवताभ्यः कलादाननियमः “तं च सोमं पपुर्देवा पर्ययेणानुपूूर्वंशः” इति व्यासः । उदय आविर्भावः । अन्यत्समानम् ।
भावार्थ—(वसिष्ठाश्रम में रहने के कारण) न दिखाई पड़ने के कारण उत्कण्ठा उत्पन्न कर देने वाले, पुत्रार्थव्रत करने से कृश शरीर वाले, उस राजा को प्रजा ने दूज के चाँद की तरह अतृप्त नेत्रों से देखा ॥ ७३ ॥
पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ ७४ ॥
अन्वयः—पुरन्दरश्री सः पौरैः अभिनन्द्यमानः उत्पताकं पुरं प्रविश्य भुजगेन्द्र समानसारे भुजे भूयः भूमेः धुरम् आससञ्ज ।
पुरन्दरेति । पुरः पुरीरसुराणां दारयतीति पुरन्दरः शक्रः । 'पूःसर्वयोर्दारिसहोः' इति खप्रप्रत्ययः । 'वाचंयमपुरन्दरौ च' मुमागमो निपातितः । तस्त श्रीरिव श्री-
७४ रघुवंशमहाकाव्ये
र्यस्य स नृपः पौरैरभिनन्द्यमानः । उत्पताकमुच्छ्रितध्वजम् । ‘पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम्' इत्यमरः । पुर प्रविश्य भुजङ्गेन्द्रेण समानसारे तुल्य बले । 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । भुजे भूयो भूमेर्धुरमासमञ्ज स्यङ्कितवान् ।
**भाषार्थ—**इन्द्रतुल्यकान्तिवाले उस राजा ने नागरिकों द्वारा अभिनन्दित होकर शेषनाग तुल्य बलवाली भुजाओं पर पुनः पृथ्वी का भार उठा लिया ॥ ७४ ॥
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निborderनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ७५ ॥
**अन्वयः—**अथ द्यौः अत्रेः नयनसमुत्थं ज्योतिः इव सुरसरित् वह्निनिष्ठ्यूतम् ऐशं तेज इव, राज्ञी नरपतिकुलभूत्यै गुरुभिः लोकपालानुभावैः अभिनिविष्टं गर्भम् आधत्त ।
अथेति । अथ द्यौः सुरवर्त्म । ‘द्योः स्वर्गमुरवर्त्मनोः' इति विश्वः । अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । ज्योतिरिव चन्द्रमिवेत्यर्थः । ‘ऋक्षेशः स्यादत्रिनेत्रप्रसूतः' इति हलायुधः । चन्द्रस्यात्रि नेत्रोद्भूतत्वमुक्तं हरिवंशे—“नेत्राभ्यां वारि सुस्राव दशधा द्योतयदिदशः । तद्गर्भविधिना दृष्ट्वा दिशो देव्यो दधुस्तदा ॥ समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभावितः । पपात भासयंल्लोकञ्छिह्नितांशुः सर्वभावनः” । इति सुरसरिद् गङ्गा वह्निना निष्ठ्यूतं निक्षिप्तं ‘च्छ्वोः शूडनुनासिके च’ इत्यनेन निपूर्वात् ष्ठीवतेर्वकारस्य ऊठ् । ‘नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः’ इत्यमरः । ऐशं तेजः स्कन्दमिव । अत्र रामायणम्—“ते गत्वा पर्वतं राम ! कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः । देवकार्यमिदं देव ! समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ! देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि ! देवतानामिदं प्रियम् । इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । सा तस्या महिमां दृष्ट्वा समन्तादवकीर्य च । समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन !” इति । राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टं गर्भमाधत्त दधावित्यर्थः । अत्र मनुः—“अष्टानां लोकपालानां वपुर्धारयते नृपः” इति । आधत्त इत्यनेन स्वीकर्तुंक-