रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
१२२ रघुवंशमहाकाव्ये
अन्वयः—सः गजदानसुगन्धिना सैन्यपरिभोगेन कावेरीं सरितां पत्युः शङ्कनीयाम् इव अकरोत् ।
स इति । सः रघुः गजानां मदेन दानेन सुगन्धिना सुरभिगन्धिना । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्यनेनेकारादेशः समासान्तः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिकगन्धविवक्षायामेवेकारादेशः, तथाऽपि 'निरङ्कुशाः कवयः' तथा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः १२५
चतुर्थः सर्गः १२५
अन्वयः—अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः फलरेणवः तुल्यगन्धिषु मत्तेभकटेषु ससञ्जुः ।
ससञ्जुरिति । अश्वैः क्षुण्णानामेलालतानामुत्पतिष्णव उत्पतनशीलाः । 'अलंकृञ्निराकृञ्–' इत्यादिनेष्णुच्प्रत्ययः । फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु । सर्वधनीतिवदिषन्तो बहुव्रीहिः । मत्तेभानां कटेषु ससञ्जुः सक्ताः । 'गजगण्डकटीकटौ' इति कोशः ।
भाषार्थ—घोड़ों
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१२४ रघुवंशमहाकाव्ये
अन्वयः— ते ताम्रपर्णीसमेतस्य महोदधेः मुक्तासारं स्वं सञ्चितं यशः इव तस्मै निपत्य ददुः ।
ताम्रपर्णीति । ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य सङ्गतस्य महोदधेः सम्बन्धि सञ्चितं मुक्तासारं मौक्तिकवरम् । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः । स्वं स्वकीयं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः । यशसः शुभ्रत्वाद्दोपम्यम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः । १२५
तस्येति । अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः । 'अपरान्तास्तु, पाश्चात्त्यास्ते च सूर्पारकादयः' इति यादवः । विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः । 'अनीकं तु रणे सैन्ये' इति विश्वः । अर्णवो रामस्य जामदग्न्यस्यास्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१२६ रघुवंशमहाकाव्ये
अभ्यभूयतेति । चरतां गच्छतां वाहनां वाजिनाम् । 'वाजिवाहार्षगन्धर्वहय-
सैन्धवसप्तयः' इत्यमरः । गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः । कर्तरि क्तः । 'गात्र-
सञ्जितैः' इति वा पाठः । सञ्जतेर्ण्यन्तात्कर्मणि क्तः । वर्मभिः कवचैः । 'मर्मरः'
इति पाठे वाहनां गात्रशिञ्जितैर्गात्रध्वनिभिरित्यर्थः । मर्मरो मर्मरायमाण इति
ध्वनेर्विशेषणम् । पवनेनोद्धूतानां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः । १२७
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ५९ ॥
अन्वयः—तत्र सः मत्तभरदनोत्कीर्णव्यक्तविक्रमलक्षणं त्रिकूटमे वोच्चैर्जयस्तम्भं चकार ।
मत्तेति । तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव । भावे क्तः । व्यक्तानि स्फुटानिविक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णविलिस्थानानि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१२८ रघुवंशमहाकाव्ये
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनै ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ६२ ॥
अन्वयः—तस्य अश्वसाधनैः पाश्चात्त्यैः शार्ङ्गकूजितविज्ञेयप्रतियोधे रजसि तुमुलोऽभूत् ।
सङ्ग्राम इति । तस्य रघोरश्वसाधनैर्वाजिसैन्यैः । 'साधनं सिद्धिसैन्ययोः' इति हैमः । पश्चाद्भवः पाश्चात्यवनैः सह । 'दक्षिणापश्चात्पुरसस्त्यक् । इति त्यक् । सहार्थे तृतीया । शृङ्गाणां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः
चतुर्थः सर्गः
१२६
'शीर्षकम् । शीर्षण्यं च शिरस्त्रे' इत्यमरः । शरणागतलक्षणमेतत् । तं रघुं शरणं ययुः तथाहि । महात्मनां संरम्भः कोपः । 'संरम्भः सम्भ्रमे कोपे' इति विश्वः । प्रणिपातः प्रणतिरेव प्रतिकारो यस्य सः । हि महतां परकीयमौद्धत्यमेवासह्यं न तु जीवितमिति भावः ।
**भाषार्थ—**शेष बचे हुए यवन अपने शिर के टोपों को उतार कर उस रघु की शरण में गये और क्षमा पा गये, क्योंकि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १३० | रघुवंशमहाकाव्ये |
|---|
विनीतेति । सिन्धुर्नाम काश्मीरदेशेषु कश्चिन्नदविशेषः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । सिन्धोस्तीरे विचेष्टनै रङ्गपरिवर्तनैर्विनीताध्व-श्रमास्तस्य रघोर्वाजिनोऽश्वाः, लग्नाः कुङ्कुमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान् । यद्वा लग्नकुङ्कुमाः केसराः सटा येषां तान् । 'अथ कुङ्कुमम् । कश्मीर-जन्म' इत्यमरः । केसरो नागकेसरे । तुरङ्गसिंहयोः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः १३१
चतुर्थः सर्गः १३१
अन्वयः—तेषां सदश्वभूयिष्ठाः तुङ्गाः द्रविणराशयः उपदाः कोसलेश्वरं शश्वत् विविशुः, उत्सेका न (विविशुः)।
तेषामिति। तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम्। 'हिरण्यं द्रविणं द्युम्नम्' इत्यमरः। राशय एवोपदा उपायनानि। 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः। कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसकृद्विविशुः।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १३२ | रघुवंशमहाकाव्ये |
|---|
बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः। असम्भ्रान्तत्वे हेतुस्तुल्यसत्त्वानामिति। न हि समबलाः समबलाद् बिभ्यतीति भावः।
भाषार्थ— रघु ने समान बलवाले कन्दरा-स्थित सिंहों का, सेना के कोलाहल से भी न घबड़ाते हुए, उपेक्षा से गर्दन उठा कर देखना सैनिकों से कहा ॥७२॥
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः।
गङ्गाशीकरिणो मार्गे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः १९३
चतुर्थः सर्गः १९३
सरलेति। सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम्
ग्रीवासु भवानि ग्रैवेयाणि कण्ठशृङ्खलानि। ‘ग्रीवाभ्योऽण्ढ’ इति चकाराद्ढन्-
प्रत्ययः। तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्लता-
विशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन्।
भाषार्थ—देवदारु में बँधे हुए हाथियों के गले के हारों
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १३४ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—सः शरैः उत्सवसङ्केतान् विरतोत्सवान् कृत्वा किन्नरान् बाह्वोः जयोदाहरणं गापयामास ।
शरैरिति । स रघुः शरैर्बाणैरुत्सवसङ्केतान्नाम गणान्विरतोत्सवान्कृत्वा । जित्वेत्यर्थः । किन्नरान्बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास । 'गतिबुद्धिप्रत्यवसानार्थ०' इत्यनेन किन्नराणां कर्मत्वम् ।
भाषार्थ—उस
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः १३५
चकम्प इति । तस्मिन् रघौ । तीर्णा लोहित्या नाम नदी येन तस्मिंस्तीर्णलोहित्ये सति । प्राग्ज्योतिषाणां जनपदानामीश्वरः, तस्य रघोर्गजानामालनतां प्राप्तैः कालागुरुद्रुमैः कृष्णागुरुवृक्षैः सह चकम्पे कम्पितवान् ।
**भावार्थ—**उस रघु के लौहित्यनद के पार उतर जाने पर प्राग्ज्योतिष (आसाम) के राजा रघु के हाथियों की सीकरों के
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १३६ | रघुवंशमहाकाव्ये |
|---|
कामेति । कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कन-
कमयपादपीठव्यापिनीं कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणेनानर्चर्च-
यामास ।
भाषार्थ—कामरूप के राजा ने सुवर्णनिर्मित राजसिंहासन के देवता उस रघु के पैरों की उपहारभूत रत्नमय पुष्पों को अर्पित करके पूजा की ॥ ८४ ॥
इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंचतुर्थः सर्गः १३७
सत्रान्त इति। काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते। 'सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः। सचिवानांममात्यानां सखेति सचिवसखः सन्। 'सचिवो भृतकेऽमात्ये' इति हैमः। तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः। 'राजाहः सखिभ्यष्टच्'। गुर्वीभिर्महतीभिः। 'गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके' इति हैमः। पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपञ्चमः सर्गः
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ १ ॥
इन्दीवरदलश्याममिन्दिराऽऽनन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥
**अन्वयः—**विश्वजिति अध्वरे निःशेषविश्राणितकोशजातम् तं क्षितीशम् उपात्तविद्यः गुरुदक्षिणार्थी वरतन्तुशिष्यः कौत्सः प्रपेदे ।
तमिति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपञ्चमः सर्गः १३९
पञ्चमः सर्गः १३९
च' इति यत् । पूजार्घ्यं द्रव्यं निधाय श्रुतेन शास्त्रेण प्रकाशं प्रसिद्धम् । श्रूयत इति
श्रुतं वेदशास्त्रम् । अतिथिमभ्यागतं कौत्सम् । प्रत्युद्जगाम ।
भाषार्थ—असाधारणस्वभाव, यशस्वी और अतिथिसेवी रघु सुवर्ण पात्रों के
अभाव में मृत्पात्र में अर्घ्य रखकर वेदाध्ययन से देदीप्यमान कौत्स के सम्मुख हुए।
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशाम्पतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१४०
रघुवंशमहाकाव्ये
कायेन वाचा मनसाऽपि शश्वत्सम्भृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ ५ ॥
अन्वयः—कायेन वाचा मनसा अपि वासवधैर्यलोपि यत् शश्वत् सम्भृतम् महर्षेः त्रिविधम् तत् तपः अन्तरायै व्ययम् न आपाद्यते कच्चित् ?
कायेनेति । कायेनोपवासादिकृच्छ्रचान्द्रायणादिना, वाचा वेदपाठेन, मनसा गायत्रीजपादिनां, कायेन वाचा मनसाऽपि कारणेन वासवस्येन्द्रस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपञ्चमः सर्गः १४१
**भाषार्थ—**अनुष्ठान के लिए रखे गए कुशों को भी खाने को इच्छुक जिन हरिणों के शावकोंको स्नेहवश मुनि लोग नहीं रोकते, मुनियों की गोद में नाभि-नाल के गिराने वाले वे नवजात हरिणों के बच्चे कुशल से तो हैं ? ॥७॥
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ८ ॥
**अन्वयः—**यैः नियमाभिषेकः निर्वर्त्यते, येभ्यः पितॄणाम् निवापाञ्जलयः, उञ्छषष्ठाङ्कितानि वः तानि तीर्थजलानि शिवानि कच्चित् ।
निर्वर्त्यत इति । यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निवर्त्यते निष्पाद्यते । येभ्यो जलेभ्यः उद्धृत्येति शेषः । पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः । निर्वर्त्यन्ते । उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्ठैः षष्ठभागैः पालकत्वाद्रा जगाहै रङ्कितानि सैकतानि पुलिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कच्चित् । अनुप्लवानि किमित्यर्थः ।
**भाषार्थ—**जिन तीर्थजलों से नित्यस्नानादि क्रियायें निष्पन्न होती हैं और पितरों का तर्पण किया जाता है, देय षष्ठांश राजभाग उञ्छ से सुशोभित वे तीर्थजल उपद्रवरहित तो हैं न ? ॥८॥
नीवारपाकादि कडङ्गरीयैरामृश्यतेः जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ ६ ॥
**अन्वयः—**कालोपपन्नातिथिकल्प्यभागम् वन्यम् शरीरस्थितिसाधनम् वः नीवारपाकादि जानपदैः कडङ्गरीयैः न आमृश्यते कच्चित् ।
नीवारेति । कालेषु योग्यकालेषूपपन्नानामागतानामतिथीनां कल्प्या भागा य॑स्य तत्तथोक्तम् । वने भवं वन्यम् शरीरस्थितेर्जीवितस्य साधनं वो युष्माकम् । पच्यत इति पाकः फलम् । धान्यमिति यावत् । नीवारपाकादि । जनपदेभ्य आगतैर्जानपदैः । कडङ्गरं बुसमर्हन्तीति कडङ्गरीयाः तैर्गोमहिषादिभिर्नामृश्यते कच्चित् न भक्ष्यते किमित्यर्थः ।
**भाषार्थ—**बलि वैश्वदेव के बाद उचित समय पर उपस्थित अतिथियों के भाग वाले, आप लोगों के जीवन के आधार, वनों में उत्पन्न नीवार आदि धान्य को ग्रामीण घास भूसा खाने वाले पशु तो नहीं खा जाते ? ॥ ९ ॥
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ १० ॥