सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished353 पृष्ठ

इस ग्रन्थ के बारे में

वात्स्यायन का कामसूत्र भारतीय परम्परा में 'काम' पुरुषार्थ का प्रामाणिक शास्त्र माना जाता है। इसका आरम्भ धर्म, अर्थ और काम तीनों को नमस्कार से होता है और यह काम को धर्म तथा अर्थ के साथ सन्तुलित जीवन का अंग मानकर चलता है। ग्रन्थ सात अधिकरणों, छत्तीस अध्यायों और चौंसठ प्रकरणों में बँटा है और प्राचीन नगर-जीवन, नागरक की दिनचर्या, चौंसठ कलाओं, विवाह, गृहस्थ स्त्री के कर्तव्यों और सामाजिक व्यवहार का विस्तृत चित्र देता है, इसलिए यह सांस्कृतिक इतिहास का भी महत्त्वपूर्ण स्रोत है।

विषय-सूची में सातों अधिकरण इस क्रम में हैं: साधारण, साम्प्रयोगिक, कन्यासम्प्रयुक्तक, भार्याधिकारिक, पारदारिक, वैशिक और औपनिषदिक।

यह स्कैन काशी संस्कृत सीरिज (हरिदास संस्कृत ग्रन्थमाला) की २९वीं संख्या है, जिसे चौखम्बा संस्कृत सीरिज ऑफिस, बनारस ने १९२९ में छापा। इसमें मूल सूत्रों के साथ यशोधर की प्रसिद्ध संस्कृत टीका 'जयमङ्गला' पूर्ण रूप में दी गई है, और सम्पादन साहित्याचार्य गोस्वामी दामोदर शास्त्री ने किया है। आरम्भ में द्वितीय संस्करण का उपसंहार है, जिसमें बम्बई के निर्णयसागर प्रेस से पहले छपे संस्करण की चर्चा है। यह प्रति केन्द्रीय पुरातत्त्व पुस्तकालय, नई दिल्ली की है।

इस संस्करण में सूत्र और टीका संस्कृत में ही हैं, हिन्दी अनुवाद नहीं है।

पृष्ठ 35
स्थायी लिंक
पृष्ठ 35 स्कैन

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । २३

र्यामहल्यां चकमे, ततः समित्कुशानादायागते गौतमे तद्भार्याऽहल्या शक्रं गर्भस्थमकरोत् ; तदैवोपनिमन्त्रणेन गौतमः सभार्य एवाश्रमन्तरंगतः, ततस्तेन योगचक्षुषा समुपलब्धेनेन्द्रागमनेनास्मै समुपस्थापितमासनत्रयं दृष्ट्वा चासौ "किमेतद्भार्याद्वितीयस्य ममे"ति जाताशङ्को ध्यानेन यथावृत्तमालोक्य रोषात् "सहस्रभगो भवे"ति शशाप, ततोऽसौ देवराजोऽपि कामाद्विनाशप्रत्ययां तादृशीमवस्थामाससाद, यस्याद्यापि कलङ्को "ऽहल्यायै जार" इति नास्तमेति। अतिबलः नागसहस्रबलत्वात्, सोऽपि कामाद् द्रौपदीमभिलषन्भीमसेनेन हत इति प्रतीतमेतद्, विनश्यन्तो दृश्यन्तइत्यत्र प्रत्यक्षं प्रमाणं; किं तत्र पूर्ववृत्तोदाहरणेनेति मन्यन्ते॥४५॥

अत्र संप्रतिपत्तिमाह —

शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः ॥ ४६ ॥

आहारसधर्माण इति । आहारतुल्याः, यथाऽऽहारोऽजीर्णादिदोषं जनयन्नपि प्रतिदिने शरीरस्थितये सेव्यते, तथा कामोऽपि, अन्यथा रागोद्रेकादुन्मादादिदोषेण न शरीरस्थितिरिति ॥ ४६ ॥

फलभूताश्च धर्मार्थयोः ॥ ४७ ॥

फलभूताश्च धर्मार्थयोरिति । सुखार्थं धर्मार्थयोः सेवा, तदसेवायां तौ बन्ध्यभूतौ केवलमायासाफलौ स्याताम् , तथा चोक्तम्—

'धर्ममूलः स्मृतः स्वर्गस्तत्रापि परमाः स्त्रियः।
गृहस्थधर्मो दुर्वारो नराणां धर्मयत्नजः ॥
हिताश्चापत्यसंतानैः स्त्रियस्त्विह परत्र च ।
परं सम्प्रत्ययो भोगप्रकर्षार्थाय वै स्त्रियः'॥ इति ॥ ४७ ॥

यद्येवं तर्हि दोषप्रसङ्गः ? इत्यत आह—

बोद्धव्यं तु दोषेष्विव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः ॥ ४८ ॥

बोद्धव्यमिति । अजीर्णादिदोषेष्विव बोद्धव्यम् । प्रतिविधानमिति शेषः । इदमाह—यत्र क्व चन दोषप्राप्तिरवश्यं सेव्यश्च कामस्तं दोष प्रतिविधानेन सेवेतेति, अयं च न्यायो लोकेष्वप्यस्तीति दर्शयति-न हीत्यादिना, तथा चोक्तम्—

'तृणानामिव हि व्यर्थं नृणां जन्म सुखद्विषाम् ।
दोषास्तु परिहर्तव्या इत्याचार्यैः स्थिरीकृतम् ॥ इति ॥ ४८ ॥

पृष्ठ 36
स्थायी लिंक
पृष्ठ 36 स्कैन

२४ सटीक कामसूत्रे [ १ अधिकरणे,

अनुष्ठानलक्षणायाः प्रतिपत्तेः फलमाह—
भवन्ति चात्र श्लोकाः—

एवमर्थं च कामं च धर्मं चोपाचरन्नरः ।
इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते ॥ ४९ ॥

एवमिति । यथोक्तेन न्यायेन प्रतिष्ठापिताचरणमर्थं प्रागाचरेत्, ततोऽधिगतार्थः कामं धर्मं च । इहामुत्र चेति । इह लोके परलोके च, निःशल्यं सुखमश्नुत इति । अनुतापाभावात् "समग्रो मे पुरुषार्थ" इति मनःप्रीतिमवाप्नोतीत्यर्थः । त्रिवर्गे ह्यसेवमानश्च तावदिह लोके; नैहिकं-सुखमवाप्तमिति विप्रतीकारं दुरन्तः कामानुबन्धनाद्, नापि परलोके; न मया मूढेन प्राक्कृतमवदातं कर्मेति धर्मानुषक्तत्वात्, नास्तिका निरीहकाः सुखद्विपस्त्वेकाङ्गविकलत्वात्सशल्यमवाप्नुवन्तीति मन्यते ॥ ४२ ॥

'परस्परस्यानुपघातकमन्योन्यानुबद्धम्' इत्युक्तम्, तस्यैव संग्रहः श्लोकद्वयेन—

किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते ।
न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥ ५० ॥

किं स्यादिति । उपघातः पूर्वेणोत्तरस्य, उत्तरेण वा पूर्वस्य । तत्र यस्मिन्कार्येऽर्थोऽपि साधयिष्यते यस्तत्र किं स्यादपायोऽनपायो वेत्याशङ्का नास्ति, धर्माबाधनाद्, यच्च सुखं नार्थं हन्ति तस्मिन्नर्थे सुखे च शिष्टास्त्रिवर्गविदः स्थिता अनुष्ठातुम्, पूर्वबाधके तु न स्थिताः, यस्तु दानेन धर्मोऽर्थं बाधते, ब्रह्मचर्येण च विद्याग्रहणमर्थः कामं, तस्मिन्नुत्तरबाधके स्थिता इत्यर्थोक्तम्,

तथा चाहुः—

'अपि नाम त्रिवर्गोऽस्मिन्सेवेतोत्तरबाधकम् ।
पूर्वस्य तु प्रधानत्वात्र सेव्यः पूर्वबाधकः ॥ इति ॥ ५० ॥

त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः ।
कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम् ॥ ५१ ॥

त्रिवर्गसाधकमिति । धर्मादीनां यदन्यतमं कार्यमनुष्ठेयमात्मन इतरयोस्तु साधकं तत्कुर्वीत, अयमुत्तमः पक्षो ह्यनुबन्धेऽन्तर्भूतः । द्वयोर्वैकस्येति । त्रयाणां यद् द्वयोरात्मन इतरस्य च साधकं तदपि कुर्वीतेति, अयं मध्यमः पक्ष एकानुबन्धेऽन्तर्भूतः, एतदुभयमपि प्रागुदाहृतम् । यदेकस्यात्मन एव साधकं तदपि कुर्वीतेति । अयं जघन्यो निरनुबन्धेऽन्तर्भूतः । तद्यथा—पञ्चानां महायज्ञानां प्रवर्तनं धर्मो निरनुबन्धः ।

इति त्रिवर्गप्रतिपत्तिर्द्वितीयं प्रकरणम् ॥ २ ॥

पृष्ठ 37 स्कैन

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २५

भूम्याद्यर्जनमर्थो निरनुबन्धः, परिचारिकायामभिप्रेतायां कामो निरनुबन्धः । अस्मिन्पक्षे परस्परस्यानुपघातकं प्रदर्शयन्नाह—न त्वेकार्थंद्विबाधकमिति । एक आत्मैषार्थः प्रयोजनं यस्य तदेकार्थं द्वयोर्बाधकं न कुर्याद्, अतिदानेन धर्मोऽर्थं बाधते कामं च बाधते, तपसा चात्यन्तसेवितेन कामं बाधित्वा

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 38 स्कैन

२६ सटीक कामसूत्रे [ १ अधिकरणे,

इति तत्त्वम् , ऊहेत्यर्थः, त्रिविधं दानम् , मनसा वाचा कर्मणा चेति । पत्युरभिप्रायादिति । यदा पत्याऽनुज्ञाता तदाऽधीयीत, अन्यथा स्वैरिणीत्याशङ्कनीया स्यात् ॥ ३ ॥

योषितां शास्त्रग्रहणस्याभावान्नर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः ॥ ४ ॥

शास्त्रग्रहणस्याभावादिति । तासां शास्त्रानधिकारात्, शास्त्रं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २७

पृष्ठ 39 स्कैन

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २७

क्रतुषु प्रयुञ्जते, तद्यथा—'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेद्' इति प्रकृतिप्रयोगः, 'सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम' इति विकृतिप्रयोगः, अत्र सूर्यमुद्दिश्योहो, निर्वपेदिति लिङ्गात्, सौर्यं चरुं निर्वपेदाग्नेयवदिति ॥ ८ ॥

**अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते ॥ ९

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 40 स्कैन
२८सटीके कामसूत्रे[ १ अधिकरणे,

अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येका-
किन्यभ्यसेत् ॥ १४ ॥

अभ्यासेति । अभ्यासेन प्रयोक्तुं ये शक्यन्ते बाडवकभ्रमरकादयः, चातुःषष्टिकांश्चतुःषष्टिभवान्। कन्येति। तदानीमभ्यस्तं यौवने प्रयुज्यते । रहसीति लज्जानिवृत्त्यर्थम् । एकाकिन्याचार्यनिरपेक्षा ॥ १४ ॥

कः पुनश्चैश्वासिक इत्याह—

**आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंयोगा सहसंवृद्धा धा-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २९

पृष्ठ 41 स्कैन

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । २९

३० नयज्ञानम्, ३१ करणादानम्, ३२ चित्राचित्रविधिः ३३ गूढराशिः ३४ तुल्यामिहारः ३५ क्षिप्रग्रहणम् ३६ अनुप्रातिलेखस्मृतिः ३७ अग्निक्रमः ३८ छलच्छ्यामोहनम् ३९ ग्रहदानं चेति । सजीवाः पञ्च, तद्यथा—४० उपस्थानविधिः ४१ युद्धम्, ४२ रुतम् ४३ गतम्, ४४ वृत्तं चेति ।

शयनोपचारिकाः षोडश, तद्यथा-४५ पुरुषस्य भावग्रहणम् , ४६ स्वरागप्रकाशनम् ४७

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 42 स्कैन
३०सटीक कामसूत्रे[ १ अधिकरणं,

वाहने केशमर्दने च कौशलम्, अक्ष॑रमुष्टिकाकथनम्, म्लेच्छितविकल्पाः, देशभाषाविज्ञानम्, पुष्पशकटिका, निमित्तज्ञानम्, यन्त्रमातृका, धारणेमातृका संपाठ्यम्, मानसी काव्यक्रिया, अभिधानकोषः, छन्दोज्ञानम्, क्रियाकल्पः, छलतैकयोगाः, वस्त्रगोपनानि, द्यूतविशेषः, आकर्षकीडा, बालकीडनकानि, वैनायिकीनां वैजयिकीनां व्यायामिकीनां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३१

पृष्ठ 43 स्कैन

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३१

मित्यपरा संज्ञा । ८दशनवसनाङ्गराग इति । रागशब्दः प्रत्येकं योज्यते, तत्राङ्गरागोऽङ्गमार्थिः कुङ्कुमादिना, रञ्जनविधिरिति वक्तव्ये दशनादिग्रहणमादरार्थं; विलासिनीनां दशनादिसंस्कारस्यात्यन्ताभीष्टत्वाद् इति । ९मणिभूमिकाकर्मेति । मणिभूमिका कृतकुट्टिमा भूमिः, ग्रीष्मे शयनापानकार्थं तस्या मरकतादिभेदेन करणम् । १०शयनरचनमिति । शयनीयस्य कालापेक्षया

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 44 स्कैन

३२ सटीक कामसूत्रे [ १ अधिकरणे,

'मूलपत्रकरीराग्रफलकाण्डप्ररूढकम् ।
त्वक्पुष्पं कण्टकं चेति शाकं दशविधं स्मृतम्' ॥

भक्ष्यं खण्डखाद्यादि, पेयं द्विविधम्-अग्निनिष्पाद्यमितरच्च, तत्र पूर्वं यूषाख्यं; तच्च द्विविधम्-मुद्गादिनिर्यूहकृतं मांसनिर्यूहकृतं च, एवं नानाप्रकाराणां क्रिया पाकविधानेन निष्पादनं, यदनग्निनिष्पादनं पेयं तद् द्विविधम्-सन्धानकृतमितरच्च, तत्राद्यं-द्रावितमद्रावितं च; तत्र यद् गुडतिन्तिडिकाऽऽदि जलेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 45 स्कैन

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३३

अस्यार्थः—दंष्ट्राऽग्रस्य ऋद्ध्या प्राक्पूर्वं द्राक्शीघ्रं क्ष्मा पृथ्वीमम्ब्वन्तःस्थां पातालस्थामुञ्चिक्षेपोत्क्षिप्तवान् , देवान्द्रुह्यन्तीति देवद्रुहोऽसुरास्तान्क्षिणोतीति देवद्रुट्‌क्षित् , हिशब्दः पादपूरणे, ऋत्विग्भिः स्तुत्यः, सर्पानत्तीति सर्पादुरुडः स केतुर्ध्वजो यस्येति । ३०पुस्तकवाचनमिति । भरतादिकाव्यानां पुस्तकस्थानां शृङ्गारादिरसापेक्षया गीतितः स्वरेण वाचनम् ,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 46 स्कैन

३६ | सटीके कामसूत्रे | [ १ अधिकरणे,

५८वस्त्रगोपनानीति । वस्त्रेणाप्रकाश्यदेशस्य संवरणं यथा तद्द्रूयमानमपि तस्मान्नापैति, त्रुटितस्यात्रुटितस्येव परिधानम्, महतो वस्त्रस्य संवरणं नीविसंकोचादिनाऽल्पीकरणम् इति गोपनानि । ५९द्युतविशेषाइति । निर्जीवद्यूतविधानमेतद्, यत्र ये प्राप्त्यादिभिः पञ्चदशभिरङ्गैर्मुष्टिशुल्कादयो द्यूतविशेषाः प्रतीतात्थः । ६०आकर्षकीडेति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 47 स्कैन

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३७

शब्दवाच्याऽपि विशिष्टं गणिकाऽभिधानं लभत इत्यर्थः, एवंलक्षण-
त्वाद्गणिकायाः, स्थानं च जनसंसदीति । जनसभायामासनभूमिं लभते,
न वेश्येत्यवगण्यते ॥ २० ॥

पूजिता सा सदा राज्ञा गुणवद्भिश्श्च संस्तुता ।
प्रार्थनीयाऽभिगम्या च लक्ष्यभूता च जायते ॥ २१ ॥

राज्ञा पूजितां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

शास्त्रकार एव प्रकरणसंबन्धमाह—

पृष्ठ 48 स्कैन

३८ सटीके कामसूत्रे [ १ अधिकरणे,

गरकाः कलाकुशलाः घटानिबन्धनादिकामा वेति प्रयोगः, नागरकशू-
न्यो वा देशः, गुणद्विषो वाऽत्र प्रतिवसन्ति, व्यसनकालो वा नागरका-
णामिति न वा प्रयोगसंभवः, अन्यथा तत्परिज्ञानं दोषफलं स्यादिति॥२५॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे
प्रथमेऽधिकरणे विद्यासमुद्देशस्तृतीयोऽध्यायः, तृतीयं प्रकरणं च ॥ ३ ॥


इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ३९

पृष्ठ 49 स्कैन

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ३९

यात्रावशाद्वेति । यत्र वा स्याद्यापनं शरीरस्थितिर्ग्रामे तत्रावस्थानं, तन्निबन्धनत्वादितरवृत्तेः ॥ ३ ॥

तत्रापि गृहमन्तरेण न संभवतीत्याह—

तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् ॥ ४ ॥

तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संबन्धः, आसन्नोदकं नदीवाप्यादिसमीपे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४० सटीके कामसूत्रे [ १ अधिकरणे,

पृष्ठ 50 स्कैन

४० सटीके कामसूत्रे [ १ अधिकरणे,

वेदिका च ॥ ७ ॥

वेदिका चेति। कुड्योपाश्रया शयनीयतुल्योत्सेधा हस्तमात्रविस्तारा कृतकुट्टिमा चतुरस्रिका स्यात् ॥ ७ ॥

तत्र रात्रिशेषमनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः ॥ ८ ॥

तत्र=वेदिकायां, रात्रिशेषं रात्र्युपयुक्तशेषम्, अनुलेपनं चन्दनादिकं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४१

पृष्ठ 51 स्कैन

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४१

आकर्षफलकं द्यूतफलकं च क्रीडार्थं भूमौ कुड्योपाश्रितं स्यात्,
काले च प्रसारयेत् ॥ १२ ॥

तस्य बहिः क्रीडाशकुनिपञ्जराणि ॥ १३ ॥

तस्येति । वासगृहस्य, नातिदूरे बहिस्तत्सविधागारके क्रीडार्थं-
यानि शकुनिपूर्णानि पञ्जराणि नागदन्तावसक्तानि स्युः, नाभ्यन्तरे
पुरीषोत्सर्गादिदोषात् ॥ १३ ॥

एकान्ते च तर्कुतक्षणस्थानमन्यासां च क्रीडानाम् ॥ १४ ॥

एकान्त इति । एकदेशे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४२ सटीके कामसूत्रे [ १ अधिकरणे,

पृष्ठ 52 स्कैन

४२ सटीके कामसूत्रे [ १ अधिकरणे,

अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह—

नित्यं स्नानं, द्वितीयकमुत्सादनं, तृतीयकः फेनकः, चतुर्थक-
मायुष्यम्, पञ्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् ॥ १७ ॥

नित्यमिति । प्रत्यहं स्नानम्, ओजस्करत्वात्पवित्रत्वाच्च, द्वितीयक-
मिति । यस्मिन्दिने कृतमुत्सादनं तदनन्तरं दिनं प्रथमं, तस्माद् द्वितीये-
ऽह्नि शरीरदार्थ्यार्थं स्यात्,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 53 स्कैन

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४३

टमेषयुद्धानि, तास्ताश्च कलाक्रीडाः, पीठमर्दविटविदूषकायत्ता-
व्यापाराः, दिवाशय्या च ॥ २१ ॥

भोजनानन्तरमिति । पूर्वाह्णे भोजनानन्तरं शुकसारिकाप्रलापना-
दयो दिवाशयनान्ता व्यापाराः स्युस्तेषामयमेव कालः, तास्ताश्चेति ।
या याः प्रहेलिकाप्रतिमालाऽऽदिभिः क्रीडा उक्ताः, पीठमर्दादीन्व(१)क्ष्य-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 54 स्कैन

४४ सटीक कामसूत्रे [ १ अधिकरणे,

र्षप्रमृष्टनेपथ्यानां दुर्दिनाभिसारिकाणां स्वयमेव पुनर्मण्डनम्, मित्रजनेन वा, परिचरणमित्याहोरात्रिकम् ॥ २५ ॥

मनोहरैरिति । "स्वागतम्, इदमासनमास्यताम्, साधु कृतं दयिते ! यदागताऽसि, त्वत्प्रतिबद्धजीवित एवास्मि, तत्किमिति कालोऽतिक्रमितः" इत्यादिभिरालापैः, उपक्रमाः प्रत्युद्गमादयः, ससहायस्येति । सहाया अपि तद्वचनमनुकुर्वन्तः स्वव्यापारेणोपक्रमेरन्,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें