सामग्री पर जाएँ
सर्वकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 51, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 51

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४१

आकर्षफलकं द्यूतफलकं च क्रीडार्थं भूमौ कुड्योपाश्रितं स्यात्,
काले च प्रसारयेत् ॥ १२ ॥

तस्य बहिः क्रीडाशकुनिपञ्जराणि ॥ १३ ॥

तस्येति । वासगृहस्य, नातिदूरे बहिस्तत्सविधागारके क्रीडार्थं-
यानि शकुनिपूर्णानि पञ्जराणि नागदन्तावसक्तानि स्युः, नाभ्यन्तरे
पुरीषोत्सर्गादिदोषात् ॥ १३ ॥

एकान्ते च तर्कुतक्षणस्थानमन्यासां च क्रीडानाम् ॥ १४ ॥

एकान्त इति । एकदेशे यत्रासमये न पश्यति तत्र तर्कुकर्मणस्तक्ष-
णस्य च स्थानम्, अन्यासां च क्रीडानां लज्जाहेतूनामेकान्ते स्थानम्॥१४॥

स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया, स्थण्डिल-
पीठिका च सकुसुमेति भवनविन्यासः ॥ १५ ॥

स्वास्तीर्णेति । आतपपरिहारार्थमुपरि घनशाखाप्रतानत्वात्सुसं-
छन्ना, प्रेङ्खादोला प्रेरणया या दोल्यते, सुखावहा वृक्षवाटिकायां क्रीडार्थं-
स्यात् , न गृहाभ्यन्तरे, चक्रदोला तु चक्रपरिभ्रमणेन सा प्रेङ्खेति निग-
द्यते, सप्रच्छायेति, उपरिपुष्पलताऽवच्छिन्नत्वात्प्रकृष्टच्छायापेता, स्थ-
ण्डिलमयी पीठिका चेति-कृतकुट्टिमा वेदिका, सकुसुमेति, लतानिपतत्कु-
सुमावकीर्णा स्यात्, वृक्षवाटिकायामित्येव, लतामण्डपिकेत्यर्थः, तत्र पा-
नकादिभिरवस्थानाद्, भवनविन्यास उत्थापनावस्थानाभ्याम् ॥१५॥

तत्रस्थस्य वृत्तं द्विविधम् । नित्यं, नैमित्तिकं च, तत्र पूर्वमधिकृत्याह—

स प्रातरुत्थाय कृतनियतकृत्यः, गृहीतदन्तधावनः, मात्र-
याऽनुलेपनं धूपं स्रजमिति गृहीत्वा, दत्त्वा सिक्थकमलक्तकञ्च, दृष्ट्वा-
ऽऽदर्शे मुखम्, गृहीतमुखवासताम्बूलः, कार्याण्यनुतिष्ठेत् ॥ १६ ॥

स इति । नायकः शयनात्प्रातरुत्थायाभ्युदितस्वापपरिहारार्थं कृतनि-
यतकृत्यः कृतमूत्रपुरीषोत्सर्गः, गृहीतदन्तधावनो जग्धदन्तकाष्ठः, अत्रा-
न्तरे यथास्वं सन्ध्यावन्दनादेर्धर्मस्यानुष्ठानमर्थप्राप्तम्, मात्रयेति । प्रभू-
तानुलेपनादिग्रहणादनागरकः स्यात् कार्यानुष्ठाने प्रस्तुतत्वाद्, धूपम-
गुर्वादिना, स्रजं शेखरकमापीडं वा, अलक्तकं विशिष्टरागार्थं दत्तेति,
अर्थादोष्ठयोः, ईषदार्द्रयाऽलक्तकपिण्ड्या घृष्टौष्ठं ताम्बूलमुपयुज्य, सि-
क्थकगुटिकया ताडयेदित्ययं क्रमः, आदर्शे मुखमवलोक्य, मङ्गलार्थं-
प्रसाधनगुणदोषज्ञानार्थं च, गृहीतमुखवासताम्बूल इति । गन्धयुक्तिवि-
हितां मुखवासगुटिकां कपोले निधाय पुनरुपयोगार्थं च ताम्बूलं हस्त-
वर्तिकायां गृहीत्वेत्यर्थः, कार्याणि त्रिवर्गसाधनान्यनुतिष्ठेत् ॥ १६ ॥

६ का० सू०