सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished353 पृष्ठ

इस ग्रन्थ के बारे में

वात्स्यायन का कामसूत्र भारतीय परम्परा में 'काम' पुरुषार्थ का प्रामाणिक शास्त्र माना जाता है। इसका आरम्भ धर्म, अर्थ और काम तीनों को नमस्कार से होता है और यह काम को धर्म तथा अर्थ के साथ सन्तुलित जीवन का अंग मानकर चलता है। ग्रन्थ सात अधिकरणों, छत्तीस अध्यायों और चौंसठ प्रकरणों में बँटा है और प्राचीन नगर-जीवन, नागरक की दिनचर्या, चौंसठ कलाओं, विवाह, गृहस्थ स्त्री के कर्तव्यों और सामाजिक व्यवहार का विस्तृत चित्र देता है, इसलिए यह सांस्कृतिक इतिहास का भी महत्त्वपूर्ण स्रोत है।

विषय-सूची में सातों अधिकरण इस क्रम में हैं: साधारण, साम्प्रयोगिक, कन्यासम्प्रयुक्तक, भार्याधिकारिक, पारदारिक, वैशिक और औपनिषदिक।

यह स्कैन काशी संस्कृत सीरिज (हरिदास संस्कृत ग्रन्थमाला) की २९वीं संख्या है, जिसे चौखम्बा संस्कृत सीरिज ऑफिस, बनारस ने १९२९ में छापा। इसमें मूल सूत्रों के साथ यशोधर की प्रसिद्ध संस्कृत टीका 'जयमङ्गला' पूर्ण रूप में दी गई है, और सम्पादन साहित्याचार्य गोस्वामी दामोदर शास्त्री ने किया है। आरम्भ में द्वितीय संस्करण का उपसंहार है, जिसमें बम्बई के निर्णयसागर प्रेस से पहले छपे संस्करण की चर्चा है। यह प्रति केन्द्रीय पुरातत्त्व पुस्तकालय, नई दिल्ली की है।

इस संस्करण में सूत्र और टीका संस्कृत में ही हैं, हिन्दी अनुवाद नहीं है।

३ अध्याये ] निष्कासनक्रमप्रकरणम् । २९९

पृष्ठ 306
स्थायी लिंक
पृष्ठ 306 स्कैन

३ अध्याये ] निष्कासनक्रमप्रकरणम् । २९९

हसेद्, वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च, आहत्य
चास्य कथामन्याः कथाः, तदलीकानां व्यसनानां चापरिहार्या-
णामनुकीर्तनं, मर्मणां च चेटिकयोपक्षेपणम् ॥ ४२ ॥

वाक्येष्विति । छलग्रहणं विरूपकमुक्तमिति, अनर्मणीति । क्रीडार-
हितेऽपि संकथने हासोऽकस्मात्कर्तव्यः, येनायं विनैव क्रीडाक्रियया
मामुपहसतीति मन्यते, नर्मणि चेति । क्रीडायां प्रस्तुतायामर्थान्तरमप-
दिश्य हसेत्, तस्मिन्नायके वदति सति परिजनस्य स्वस्य कटाक्षेण
प्रेक्षणं कर्तव्यं, ताडनं च, सहासं हस्तेन येनायं जानाति नास्मत्कथायां
रमत इति, आहत्य चेति । तेन क्रियमाणां कथामपास्यान्‍याः कथाः-
कर्तव्याः, तदलीकानां नायकापराधानां व्यसनानां द्यूतादी-
नाम्, अपरिहार्याणामिति । यान्युभयान्यपि परिहर्तुमशक्यानि तेषा-
मनुकीर्तनं वैराग्यजननार्थम्, मर्मणां चानुकीर्तनं येषूक्तेषु दुःखमास्ते,
चेटिकामुपक्षिप्य सर्वमभिधापयेद्, एभिरुपायैर्निष्क्रमणयोग्यतामापा-
दितस्योपायद्वयं यतः पुनर्नार्गच्छतीति ॥ ४३ ॥

यदाह—

आगते चादर्शनमयाच्ययाचनमन्ते स्वयं मोक्षश्चेति परिग्रह-
कल्पो दत्तकस्य ॥ ४४ ॥

आगते चादर्शनमिति । यावद्यावदागच्छति तावत्तावदात्मानं-
न दर्शयेत्, पश्यति चेदयाच्ययाचनं, यन्न याचितुमर्हाति तद्या-
चेत, अन्ते चावसाने मोक्षः स्वयमेव परित्यागः कर्तव्यः, तस्योपायैः-
प्रायेण निवारितत्वात्, परिग्रहकल्प इति । वेश्याया गम्यस्य यः परि-
ग्रहस्तस्य कल्पो विधिरेतावानेव दत्तकप्रोक्तो न मयाऽभिहितः, तेन हि
गणिकानां नियोगात्संक्षेपेणाभिधातुमीप्सितत्वात् ॥ ४४ ॥

यत्त तच्छेषभूतं विशीर्णप्रतिसंधानादिकमपि बाभ्रव्योक्तं, तदहं व-
क्ष्यामीति मन्मते, यदि परिग्रहः कर्तव्याऽनेनाधिकरणेन कथ्यते,
कथं वैशिकम् ? इत्युच्यत इत्याह—

भवतश्चात्र श्लोकौ—

परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम् ।
सक्तार्थस्य चादानमन्ते मोक्षश्च वैशिकम् ॥ ४५ ॥

परीक्ष्येति । सहायगम्यागम्यगमनकारणचिन्तां कृत्वेत्यर्थः, गम्यैः-
संयोगो गम्योपावर्तनेन, संयुक्तस्यानुरञ्जनं कान्तानुवृत्तेः, सक्तार्थस्य
चादानं तदुपायैः, अन्ते मोक्षश्च निष्कासनक्रमैः, एतत्सर्वं वेश्योचितं न

इति निष्कासनक्रमाः पञ्चपञ्चाशत्तमं प्रकरणम् ॥

पृष्ठ 307
स्थायी लिंक
पृष्ठ 307 स्कैन

३०० सटीक कामसूत्रे [ ६ अधिकरणे,

कुलयोषिदुचितं, तच्च वैशिकमिति संज्ञितं, यदाह कात्यायनः-‘वेशं-वेश्याजनोचितम्’ इति, स प्रयोजनमस्येति वैशिकम् ॥ ४५ ॥

तस्य वेशस्य प्रयोजनमाह—

एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे ।
नातिसंधीयते गम्यैः करोत्यर्थांश्च पुष्कलान् ॥ ४६ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः ।

एवमिति । कल्पेनेति । वैशिकाख्येन, नातिसंधीयते = नातिवञ्च्यते, पुष्कलानिति । अनेकानित्यर्थः ॥ ४६ ॥

इति निष्कासनक्रमाः पञ्चपञ्चाशत्तमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः ।


चतुर्थोऽध्यायः

शास्त्रकार एव प्रकरणसंबन्धमाह--

वर्तमानं निष्पीडितार्थमुत्सृजन्ती विशीर्णेन सह संदध्यात् ॥१॥

वर्तमानमिति । तस्यां यो वर्तते तमलक्तकवन्निष्पीडितार्थमुत्सृजन्ती यदा त्यक्तुकामा तदा, विशीर्णेनेति । पूर्वसंसृष्टेन निष्कासितेन संधित्सुना सह संदध्याद्, एवं सति 'अपवाहयेदन्यमवष्टभ्य' इत्यनुगतं भवतीति विशीर्णप्रतिसंधानमुच्यते ॥ १ ॥

विशीर्णस्यालक्तकवदुत्सृष्टस्य किं संधानेनेति चेदाह—

स चेदवसितार्थो वित्तवान्सानुरागश्च ततः संधेयः ॥ २ ॥

सेति । वित्तवानपि यदाऽवसितार्थोऽवश्यं दास्यतीति, सानुरागश्च, अन्यथा विश्वसनार्थं यत्किंचिद्दत्त्वाऽपि निष्कासितोऽहमनयेति विरक्तोऽपकुर्यात्, तत इति । तस्मात्कारणात्संधेयः, सोऽप्यन्यया यदि न संसृष्टः ॥ २ ॥

यस्तु संसृष्टस्तत्र विधानान्तरमाह—

अन्यत्र गतस्तर्कयितव्यः स कार्ययुक्त्या षड्विधः ॥ ३ ॥

अन्यत्र गत इत्यनेन षड्विधो विशीर्ण इति, तर्कयितव्य इति । निरूप्यो वक्ष्यमाणेन न्यायेन सहसा न संधेयः, स इति । योऽन्यत्र गतः, कार्ययुक्त्येति । कार्ययोगाद् षड्विधः, असंसृष्टस्त्वेकविधः ॥ ३ ॥

पृष्ठ 308
स्थायी लिंक
पृष्ठ 308 स्कैन

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०१

कार्ययुक्तिमाह—

इतः स्वयमपसृतस्ततोऽपि स्वयमेवापसृतः ॥ ४ ॥

इत इति । स्वदोष एवास्य, यदस्या नायिकातः स्वयमेवापसृत्यान्यत्र गतः, यत्रापि गतस्तत्रापि स्वयमेवापसृत इत्येकः ॥ ४ ॥

इतस्ततश्च निष्कासितापसृतः ॥ ५ ॥

इतस्ततश्चेति । अत्राश्रययोर्दोषो नाश्रितस्य दोषः, यस्मादितो निष्कासितोऽपसृतस्तत्र गतस्ततोऽपि निष्कासित एवापसृत इति द्वितीयः ॥ ५॥

इतः स्वयमपसृतस्ततो निष्कासितापसृतः ॥ ६ ॥

इतः स्वयमपसृत इति । आश्रितस्य दोषः, ततोऽपि निष्कासितोऽपसृत इत्याश्रयस्य चेति तृतीयः ॥ ६ ॥

इतः स्वयमपसृतस्तत्र स्थितः ॥ ७ ॥

इतः स्वयमपसृत इत्याश्रितस्य दोषः, तत्र स्थित इति । नोभयोरिति चतुर्थः ॥ ७ ॥

इतो निष्कासितापसृतः ॥ ८ ॥

इतो निष्कासितापसृत इति । उभयस्य दोषः, ततः स्वयमपसृत-इत्याश्रितस्येति पञ्चमः ॥ ८ ॥

इतो निष्कासितापसृतस्तत्र स्थितः ॥ ९ ॥

इतो निष्कासितः सन्नपसृत इत्याश्रयदोषः, तत्र स्थित इति । नोभयोरपीति षष्ठः ॥ ९ ॥

एषु संधेयासंधेयतया तर्कमाह—

इतस्ततश्च स्वयमेवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलबुद्धिरसंधेयः ॥ १० ॥

उपजपति चेदिति । यदि संधातुं पीठमर्दादिमुखेनोपसृत्य भणतीत्यर्थः, तत्र द्वितीयपक्षाभावात्तर्कयितव्य इति नोक्तं, यदाह—उभयोरिति । तस्यास्तस्याश्च, ताभ्यामनिष्कासितत्वात्, सतोऽपि गुणाननपेक्ष्य चलबुद्धित्वात्स्वदोषेणैवापसृतः, स संहितोऽपि न स्थायी न च तस्मादर्थेन योग इत्यसंधेयः ॥ १० ॥

इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः स चेदन्यतो बहु लभमानया निष्कासितः स्यात्ससारोऽपि तया रोषितो ममामर्षार्दू, बहु दास्यतीति संधेयः ॥ ११ ॥

इतस्ततश्च निष्कासितेति । उपजपति चेदिति वर्तते, स्थिरबुद्धिः-

पृष्ठ 309
स्थायी लिंक
पृष्ठ 309 स्कैन

३०२ सटीक कामसूत्रे [ ६ अधिकरणे,

स्वयमपसृतत्वाद्, अत्र पक्षद्वयमप्यस्ति, यदाह-स चेदिति । अत्र तर्कयितव्य इति नोक्तं, चेच्छब्देनैव यद्यर्थेन तदर्थस्योक्तत्वाद्, अन्यतइति । अन्यस्माद्गम्याद्बहु लभमानया निष्कासितः, ससारोऽपि सद्द्रव्योऽपि, ततश्च तया सरोषितो जनितरोषोऽमर्षाद्बहु दास्यतीति ज्ञात्वा; तदानीमेव संधेयस्तयैव रोषितत्वात्, तस्यामनुशयं बध्नाति ॥ ११ ॥

निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् ॥ १२ ॥

निःसारतया निर्द्रव्यतया ससारश्च कदर्यतयाऽवदान्यतया, त्यक्तो निष्कासितः, न श्रेयान् संधातुमिहापि तुल्यत्वात् ॥ १२ ॥

इतः स्वयमपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तमादौ च दद्यात्ततः प्रतिग्राह्यः ॥ १३ ॥

इतः स्वयमपसृतस्ततो निष्कासितापसृत इति । अत्राप्युपजपेदिति वर्तते, अत्रापि यदि शब्दात्तर्कयितव्य इति नोक्तम्, अतिरिक्तं पूर्वस्माद्दानाद्, आदौ च यावन्न संप्रयोगः, कृतकृत्यस्य हि स्वयमपसर्पणसंभवात्, प्रतिग्राह्यः, संधेयः अत्र विपर्ययेणाप्रतिग्राह्य इत्यर्थोक्तो द्वितीयपक्षः ॥ १३ ॥

इतः स्वयमपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः ॥ १३ ॥
तर्कयितव्यः किमुपकर्तुमपकर्तुं वोपजपतीति ॥ १४ ॥

अत्र संधेयपक्षमाह—

विशेषार्थी चागतस्तत्र विशेषमपश्यन्नागन्तुकामो मयि मां जिज्ञासितुकामः स आगत्य सानुरागत्वाद्व्यास्यति ॥ १५ ॥

विशेषार्थितया यत्र गतस्तत्र विशेषं सुरतगतमपश्यंस्तस्या अविदग्धत्वात्, तत इति । तस्याः सकाशाद्, अस्मन्मूलमागन्तुकामोमयि दृष्टविशेषत्वाद्, मां जिज्ञासितुकाम इति । तत्रत्य एव मयि जिज्ञासां कर्तुमिच्छुः, किमियं मां स्वयमपसृतमिच्छति न वेति, सानुरागत्वाद्दास्यति दृष्टविशेषत्वात् ॥ १५ ॥

तस्यां वा दोषान्दृष्ट्वा मयि भूयिष्ठान्गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दास्यति ॥ १६ ॥

तस्यां वा दोषान्गुणविपर्ययान्दृष्टवान्, आगन्तुकाम इति योज्यं, सत्सु वा गुणेषु मयि भूयिष्ठान्प्रभूततमान्गुणानधुना पश्यति, तद्गुणान्स्तोकान्दृष्ट्वा, स उभयस्मिन्नपि पक्षे मयि गुणदर्शी, भूयिष्ठं = प्रभूतं, दास्यति ॥ १६ ॥

पृष्ठ 310 स्कैन

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०३

-असंधेयपक्षमाह-

बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा य-
त्किंचनकारी वेत्यवेत्य संदध्यान्न वा ॥ १७ ॥

बालो वेति । आरोहद्यौवनत्वाद्, नैकत्रदृष्टिस्तत्रान्यत्र वाऽभिप्रायो-
ऽस्य स काकाक्षिवद् वर्त्तमानः किं दास्यति, अतिसंधानप्रधानो वा,
वञ्चनैकनिष्ठः, हरिद्रारागो वेति । हरिद्राराग इव रागो यस्य, न चिर-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 311 स्कैन

३०४ सटीक कामसूत्रे [ ६ अधिकरणे,

सनेनापादितवैकृतत्वाद्, लम्भयितव्य इति। प्रापयितव्यो न तु प्राप्यः-स्वातन्त्र्येण लाघवात् ॥ २१ ॥

इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः ॥२२॥

एतेनेति। अनन्तरोक्तेन विशीर्णेन व्याख्यातः, अयमपि तथैव तर्कयित्वा; अकल्याणबुद्धिरसंधेयोऽन्यथाबुद्धिः कालेन, न तदानीमेव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०९

पृष्ठ 312 स्कैन

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०९

अनेन वा प्रतिबद्धमिति । तस्य मित्रत्वाद्, अनेन संधिं कृत्वा संक्र-मस्थानीयेन ॥ २८ ॥

विमानितो वा भार्यया तमेव तस्यां विक्रमयिष्यामि ॥ २९ ॥

विमानितो वेति । मत्तो विशीर्णः स्वभार्यया संसृष्टः, तया चास्म-दमर्षादवमानितोऽहं चाकृष्ट्या तमेव संधाय, तस्यां विक्रमयिष्यामि = विग्रहं कारयिष्यामि,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 313 स्कैन

३०६ सटीक कामसूत्रे [ ६ अधिकरणे

अपूर्वस्यासम्भवे विशीर्णप्रतिसंधानमुक्तं, सम्भवति चापूर्वे, विशीर्णे चोपजपति सति, केन संधानं युक्तमित्याह—

अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान्, स हि विदितशीलो दृढरागश्च सूपचरो भवतीत्याचार्याः ॥ ३६ ॥

अपूर्वेति । विदितशील इति । संवासेन ज्ञातस्वभावः, दृढानुरागश्च पूर्वमासक्तत्वात्, स

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 314 स्कैन

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०७

तिसक्तं विशीर्णे वाऽनुरक्तमपेक्ष्य तदैव सम्प्रयोग इति दर्शन्नाह—

बिभेत्यन्यस्य संयोगाद्व्यलीकानि च नेक्षते ।
अतिसक्तः पुमान्यत्र भयाद्बहु ददाति च ॥ ४० ॥

बिभेतीति । यत्र यस्मिन्सन्निधाने वर्तमानेऽतिसंसक्तोऽप्यन्यस्य संयोगाद्विभेति, संयुक्तोऽयं कदा चिदपकरिष्यतीति, व्यलीकानि च

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 315 स्कैन

३०८ सटीक कामसूत्रे [ ६ अधिकरणे,

आयतिमिति। प्रभावं, लाभमायत्यां, तदात्वे प्रीतिं पुष्कलां निर्व्याजं तस्यात्मविषये, सौहृदमात्मनस्तस्मिन् विषये, विचक्षणेति । परीक्षणे विचक्षणा = कुशला ॥ ४४ ॥

इति विशीर्णप्रतिसन्धानं षट्पञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 316 स्कैन

५ अध्याये ] लाभविशेषप्रकरणम् । ३०९

योऽनुरागाल्लभ्यते स लाभातिशयः, तं चेतादेव लभते भद्रकमेव नो चेदत्राह—

द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत् परिग्रह-
कल्पं सकलं च चरेत् ॥ ४ ॥

द्वीति । इतिशब्दो विकल्पार्थः, द्वौ त्रींश्चतुरो वा वारानेकस्यापि मूलं गच्छेत्, परिग्रहकल्पं सकलं चेति । तावत्सु

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 317 स्कैन

३१० सटीक कामसूत्रे [ २ अधिकरणे,

इति । यद्वा द्वावपि रूपतः प्रमाणतस्तुल्यं द्रव्यं प्रयच्छतस्तत्र मित्रवचनमनुष्ठेयं, यत्र वा तदानीमदीयमानमतिपतति, यत्र चायतिः-प्रभावः पुरुषगुणा वा, यत्र गम्ये सति प्रीतिर्वा नायिकायाः, नायकस्य नायिकायां वेति ॥ = ॥

गम्यतो विशेषमाह—

रागित्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ९ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

५ अध्याये ] लाभविशेषप्रकरणम् । ३११

पृष्ठ 318 स्कैन

५ अध्याये ] लाभविशेषप्रकरणम् । ३११

ऋजवोऽप्याहताश्च त्यागिनो भवन्ति, कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते परीक्षितशीलत्वाच्च न मिथ्या दूष्यत इति वात्स्यायनः ॥ १५ ॥

चिरमिति । दीर्घकालम्, आराधितोऽपि कान्तानुवृत्त्या, व्यलीकं नायिकाऽपराधमुपलभ्य, मिथ्यादूषित इति । मिथ्यैव दोषं ग्राहितः सदैवेयं व्यलीकं कुरुत इति,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 319 स्कैन

३१२ | सटीके कामसूत्रे | [ ६ अधिकरणे,


अर्थागमानर्थप्रतीघातयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥ २१ ॥

अर्थागमे विशेषः प्रत्यक्ष इति । दृश्यमानत्वात् ॥ २१ ॥

अर्थः परिमितावच्छेदोऽनर्थः पुनः सकृत्प्रसृतो न ज्ञायते-कावतिष्ठत इति वात्स्यायनः ॥ २२ ॥

अर्थः परिमितावच्छेद इति । अस्यावच्छेद इयत्ता सा परिमिता स्वल्पा रजन्यर्घस्यानतिशयात्, सकृत्प्रसृत इति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

५ अध्याये ] लाभविशेषप्रकरणम् । ३१३

पृष्ठ 320 स्कैन

५ अध्याये ] लाभविशेषप्रकरणम् । ३१३

तस्मिन्प्रधानेऽर्थे साध्ये यद्व्ययं सहते धनं तस्य परिग्रहणमयं प्रकृष्टो-
लाभातिशयः, उत्तमगणिकानामिति । रूपादिभिर्नायिकागुणैः, काला-
दिभिश्चान्विता उत्तमगणिकाः, गुणानां च पादार्धाभ्यां शून्या मध्य-
माधमाः ॥ २५ ॥

सर्वाङ्गिकोऽलंकारयोगः, गृहस्योदारस्य करणं, महार्हभाण्डैः-
परिचारकैश्च गृहपरिच्छदस्योज्ज्वलतेति, रूपाजीवानां लाभाति-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 321 स्कैन

३१४ सटीक कामसूत्रे [ ६ अधिकरणे,

देशकालविभवसामर्थ्यानुरागलोकप्रवृत्तिवशादनियतलाभादियमवृत्तिरिति वात्स्यायनः ॥ २९ ॥

देशेति । देशस्य सुसंपन्नस्यासंपन्नस्य वा, कालस्य सुभिक्षस्य दुर्भिक्षस्य वा, विभवस्यात्मीयस्य महतोऽल्पस्य वा, सामर्थ्यस्याविपन्नशक्तेर्महत्या इतरस्या वा, गम्यानुरागस्य महतोऽल्पस्य वा, लोकप्रवृत्तेर्व्यवस्थायाः, वशादनियतो लाभस्तासां, ततश्च नेयं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 322 स्कैन

५ अध्याये ] लाभविशेषप्रकरणम् । ३१५

त्यक्ष्याम्येनमन्यतः प्रतिसन्धास्यामि, गमिष्यति दारैर्योक्ष्यते,
नाशयिष्यत्यनर्थान्, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी
पिता वा, स्थानभ्रंशो वाऽस्य भविष्यति, चलचित्तश्चेति मन्यमाना
तदात्वे तस्माल्लाभमिच्छेत् ॥ ३२ ॥

त्यक्ष्याम्येनं तदात्वे ततो लाभं गृहीत्वाऽन्यतः प्रतिसन्धास्यामि तस्याधिकत्वाद्, गमिष्यति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

शास्त्रकार एव प्रकरणसंबन्धमाह—

पृष्ठ 323 स्कैन

३१६ सटीक कामसूत्रे [ ६ अधिकरणे,

केषां तर्हि ? उपादानमित्याह—

अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा ।
प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत् ॥ ३५ ॥

अनर्थ इति । यांस्त्यक्त्वाऽन्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानूभयप्रयोजनत्वात्, प्रयत्नेनापि तान्गत्वेति । अभिगम्य, सापदेशमुपक्रमेदिति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७

पृष्ठ 324 स्कैन

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७

तत्रार्थास्तदनुबन्धाश्चोपादेया एव, तत्संशयाश्च केषां चित्प्रवृत्तेः, येऽनर्थास्तदनुबन्धास्तत्संशयाश्च तेषामनुपादेयत्वादुत्पत्तिकारणान्याह-

ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदम्भादत्यार्जवाद-
तिविश्वासादतिक्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः ॥ २ ॥

त इति । अनर्थादयः, बुद्धिदौर्बल्यादिति । ऊहापोहतत्त्वाभिनिवेशाविवेकाभ्यां वैकल्यं,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 325 स्कैन

३१८ सटीक कामसूत्रे [ ६ अधिकरणे,

तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥ ६ ॥

तेष्विति । अर्थादिषु षट्सु साध्यमानेषु, अन्यस्यापीति । न केवलं साध्यमानस्याप्यन्यस्यापि सजातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्योत्पत्तिरनुबन्ध इति ॥ ६ ॥

संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥ ७ ॥

अभिगमने क्रियमाणेऽर्थादिफलस्य संप्राप्तौ

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें