सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

४२ सटीके कामसूत्रे [ १ अधिकरणे,

४२ सटीके कामसूत्रे [ १ अधिकरणे,

अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह—

नित्यं स्नानं, द्वितीयकमुत्सादनं, तृतीयकः फेनकः, चतुर्थक-
मायुष्यम्, पञ्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् ॥ १७ ॥

नित्यमिति । प्रत्यहं स्नानम्, ओजस्करत्वात्पवित्रत्वाच्च, द्वितीयक-
मिति । यस्मिन्दिने कृतमुत्सादनं तदनन्तरं दिनं प्रथमं, तस्माद् द्वितीये-
ऽह्नि शरीरदार्थ्यार्थं स्यात्, एकान्तरितमित्यर्थः, तृतीयक इति । तृतीये-
ऽह्नि जङ्घयोः फेनको देयः स्याद्, द्विदिनान्तरित इत्यर्थः, अन्यथा
ऊर्ध्वं जङ्घे कर्कशे स्याताम्, चतुर्थकमिति । त्रिः पक्षस्य च श्मश्रुनख-
रोमाणि वर्धयेदित्ययमागमः, अत्र केषां चिन्नागरकाणामुपायभेदात्का-
लभेदः, तत्रायुष्यं श्मश्रुकर्म क्षुरेण तच्चतुर्थेऽह्नि स्याद्, दिनत्रयान्तरि
तमित्यर्थः, कर्तर्या तु पञ्चमकमेव स्यात्, प्रत्यायुष्यमिति । यद् गुह्ये
क्षुरेण कर्म तत्पञ्चमेऽहनि, यत्तु लोम्नामुत्पाटनेन तद्दशमे स्यादित्याह—
दशमकं वेति । तत्र लोम्नां चिरेणोद्गमनात्, तथा चोक्तम्—

'आयुष्यं तच्चतुर्थेऽह्नि स्याद्यत्तु क्षुरकर्मणा ।
प्रत्यायुष्यं यदुद्धारालोम्नां तद्दशमेऽहनि' इति ॥

एवमर्थं च सामान्येन त्रिः पक्षस्यालङ्कारकमेति नोक्तम्, अहीनमि
ति । स्नानादिपञ्चकमविकलं स्यादित्यर्थः ॥ १७ ॥

सातत्याच्च संवृतकक्षास्वेदापनोदः ॥ १८ ॥

सातत्यादिति । सर्वदा कक्षां विवृत्यं स्थातव्यम्, यदा तु किञ्चित्कर्म
कुर्वतस्संवृता स्यात्तदा संश्लेपाश्रिततमस्यां स्वेदः, तं संततं कर्पटेना-
पनुदेद्, अन्यथा वैगन्ध्यमवैदग्ध्यं च जनयेत् ॥ १८ ॥

पूर्वाह्नापराह्नयोर्भोजनम् ॥ १९ ॥

पूर्वाह्नापराह्वयोरिति । दिनं रात्रिमष्टधा विभज्य पूर्वाह्णे त्रिभिर्भागैः
कार्याण्यनुतिष्ठेत्, चतुर्थे स्नानादिकं कृत्वा भुञ्जीत, अपराह्णे च प-
श्चिमे भागे बलाधानार्थं पुनर्भुञ्जीतेत्याचार्याणां मतमनुकमपि ज्ञेयम्,
मतान्तरोपन्यासात् ॥ १९ ॥

सायं चारायणस्य ॥ २० ॥

सायमिति । पूर्वाह्णे प्रदोषे च चारायणस्य मतम्, न तथाऽपरा-
ह्णे द्वितीयभोजनं बलमाधत्ते यथा रात्राविति, तथा चोक्तम्—

'अजीर्णे भोजनं यच्च यच्च जीर्णे न भुज्यते ।
रात्रौ न भुज्यते यच्च तेन जीर्यन्ति मानवाः' ॥ २० ॥

भोजनानन्तरं शुकसारिकाप्रलापनव्यापाराः, लावककुक्कु-

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४३

टमेषयुद्धानि, तास्ताश्च कलाक्रीडाः, पीठमर्दविटविदूषकायत्ता-
व्यापाराः, दिवाशय्या च ॥ २१ ॥

भोजनानन्तरमिति । पूर्वाह्णे भोजनानन्तरं शुकसारिकाप्रलापना-
दयो दिवाशयनान्ता व्यापाराः स्युस्तेषामयमेव कालः, तास्ताश्चेति ।
या याः प्रहेलिकाप्रतिमालाऽऽदिभिः क्रीडा उक्ताः, पीठमर्दादीन्व(१)क्ष्य-
ति, तेष्वायत्ता व्यापाराः संधिविग्रहादयः, दिवाशय्येति । दिवाश-
यनमधर्मोऽपि ग्रीष्म एव क्षयकाले शरीरपुष्ट्यर्थमनुज्ञातं, शरीरस्य ध-
र्मसाधनत्वात् ॥ २१ ॥

गृहीतप्रसाधनस्यापराह्णे गोष्ठीविचाराः ॥ २२ ॥

गृहीतप्रसाधनस्येति । प्रस्तुतव्यापारमुपसंहृत्य गृहीतवैहारिकवे-
षस्यापराह्नेऽह्नश्चतुर्थभागे, गोष्ठीविहारा गोष्ठ्यां क्रीडा इति । एतद्दैव-
सिकं वृत्तम् ॥ २२ ॥

रात्रिभवमाह—

प्रदोषे च संगीतकानि ॥ २३ ॥

प्रदोषे चेति । प्रतिष्टितायां संध्यायां रजनीमुखे सङ्गीतकानि नृत्य-
गीतवादित्रकाणि प्रकाराणि स्युः ॥ २३ ॥

तदन्ते च, प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहाय-
स्य शय्यायामभिसारिकाणां प्रतीक्षणं, दूतीनां प्रेषणं, स्वयं वा
गमनम् ॥ २४ ॥

तदन्ते च सङ्गीतकान्ते, प्रसाधिते संमार्जनपुष्पप्रकरशयनरचना-
ऽऽदिभिर्वासगृहे बाह्ये, संञ्चारितो विस्तारितः सुरभिधूपो यत्रेति, वास-
गृहं व्याप्य बहिरुपक्रान्त इत्यर्थः, ससहायस्येति । सहायान्वक्ष्य(२)ति,
तेषामप्यत्र व्यापारात्, शय्यायामिति । शय्यासमीपे स्थितस्य,
गौरवानुरागख्यापनार्थं न तावदध्यासीत शय्यां, स्वयं वा गमनं-
कदा चित्स्यादिति, आभिमुख्येन कान्तं सरन्तीत्यभिसारिकास्ता-
सां कृतसङ्केतानां प्रतीक्षणं, दूतीनां संप्रेषणं; सङ्केतितकालाति-
क्रमे तत्संप्रेषणेऽपि मानादनागमे स्वयं वा गमनं गौरवानुरागख्या-
पनार्थम् ॥ २४ ॥

आगतानां च मनोहरैरालापैरुपचारैश्च ससहायस्योपक्रमा व-


(१,) अधि० १, अ० ४, प्र० ४, सू० ४४, ४५, ४६, ।
(२,) अधि० १, अ० ५, प्र० ५, सू० ३५, ३६, ।

४४ सटीक कामसूत्रे [ १ अधिकरणे,

र्षप्रमृष्टनेपथ्यानां दुर्दिनाभिसारिकाणां स्वयमेव पुनर्मण्डनम्, मित्रजनेन वा, परिचरणमित्याहोरात्रिकम् ॥ २५ ॥

मनोहरैरिति । "स्वागतम्, इदमासनमास्यताम्, साधु कृतं दयिते ! यदागताऽसि, त्वत्प्रतिबद्धजीवित एवास्मि, तत्किमिति कालोऽतिक्रमितः" इत्यादिभिरालापैः, उपक्रमाः प्रत्युद्गमादयः, ससहायस्येति । सहाया अपि तद्वचनमनुकुर्वन्तः स्वव्यापारेणोपक्रमेरन्, प्रमृष्टं विलुप्तं दुर्दिनाभिसारिका दुर्दिनकालेऽभिसरन्ति याः, स्वयमेव नान्येन, लक्ष्यभूतानां गौरवानुरागख्यापनार्थम् , पुनर्मण्डनं वर्षेणोत्पादितवैकृतत्वाद् आसन्नोपभोगकालत्वाच्च, मित्रजनेनात्मनिर्विशेषेण पुनर्मण्डनम्, मध्यवृत्तीनाम्, परिचरणं चेति संवाहनवीजनादिकं सर्वासामेव परिचारकैः कारयितव्यम् , एतद् बाह्यस्त्रीषु, नान्तर्दारेषु, आहोरात्रिकमहोरात्रभवम् , सांप्रयोगिकं च रात्रिभवं सांप्रयोगिके वक्ष्य(१)ति ॥२५॥

नैमित्तिकमाह—

घटानिबन्धनं, गोष्ठीसमवायः, सपापानकम् , उद्यानगमनं, समस्याः क्रीडाश्च प्रवर्त्तयेत् ॥ २६ ॥

घटानिबन्धनमिति । देवानुद्दिश्य यात्रा घटाः नागरकाणां तत्र संघट्यमानत्वात्, तस्या निबन्धनं गणधर्मेण व्यवस्थापनम्, गोष्ठीसमवाय इति । गोष्ठ्यां नागरकाणां काव्यकलाविषयं समवायनं संधारणं प्रज्ञाविवृद्धये, यदपराह्णे गोष्ठीविहार इति नित्यकर्मोक्तं तस्य क्रीडामात्रफलत्वादिदं विशिष्यते, सपापानकमिति । संभूय समन्तात्पानमापानकमित्यर्थः, यन्नायिकया सहकस्य मात्रया पानं तत्सरकाख्यं नित्यमेव स्यात् , उद्यानगमनमिति । बहिः स्वकारितेऽन्यकारिते वोद्याने गमनं वनविहार इत्यर्थः, गृहवाटिकागमनं तु नित्यमेव स्यात् , समस्याः क्रीडाश्चेति । समस्यन्ते समग्रीभवन्ति नागरका यासु ताः समस्याः, अधिकरणे ण्य(२)त्प्रत्ययः, पूर्ववत् संभूय क्रीडा इत्यर्थः, ता द्विविधा—माहिमान्यो देश्याश्च, एतत् पञ्चविधं कर्म नैमित्तिकं नायकः प्रवर्त्तयेत् ॥ २६ ॥

तत्र घटानिबन्धनमाह—

पक्षस्य मासस्य वा प्रज्ञातेऽहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः ॥ २७ ॥


(१) अधि. २, द्वितीयादिषु नवस्वध्यायेषु ।
(२) प्रसिद्धलक्ष्यानुरोधात्संज्ञापूर्वकाबंधेरनित्यतया णित्वप्रयुक्तवृद्ध्यभावः ।
कृत्यल्युटो बहुलम् । ३।३।११३। इत्यतोऽर्थान्तराभ्युपगमः ।

४ अध्याये ] नागरकवृत्तप्रकरणम् । ४५

पक्षस्येति । पक्षस्य मासस्य वाऽतिक्रान्तस्यावसानिकेऽहनि, प्रज्ञात-इति । यद्दिनं यस्या देवताया लोकप्रसिद्धं तत् प्रज्ञातम्, यथा गणपतेश्च-तुर्थी, सरस्वत्याः पञ्चमी, शिवस्याष्टमीत्यादि, तत्र देवतायाः संनिधा-नात् , सरस्वती च नागरकाणां विद्याकलास्वधिदेवता, तस्या आयतने पञ्चम्याम् , नियुक्तानामिति । नायकेन पूजोपचारकत्वे प्रतिपक्षं प्रतिमासं-च ये नियुक्ता नागरकनटादयो नर्त्तितुं, तेषां समाजः, स्वव्यापारानुष्ठानेन मिलनं, यस्मिन् प्रवृत्ते नागरकाः सामाजिका भवन्ति, नित्यमिति । तत्र तत्राहनि ॥ २७ ॥

अन्येष्वहःसु धूपविलेपनघटा, तस्या निबन्धनमाह—

कुशीलवाश्चागन्तवः प्रेक्षणकमेषां दद्युः ॥ २८ ॥

कुशीलवाश्चेति । आगन्तवोऽन्यस्मादायतनाद् नटनर्तकाः, प्रेक्षण-कमेषां प्रज्ञातेऽहन्यन्यत्र वाऽहनि दद्युर्दर्शयेयुः, नियुक्तास्तु भृतिप्रति-बद्धा यात्रायां कुशीलवत्वात् प्रज्ञात एव दर्शयन्ति, इदमुक्तं भवति-पू-जोपचारकैः पात्रापात्रत्वमनपेक्ष्यैव प्रेक्षणमवश्यं ते दर्शयितव्या इति॥२८॥

द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन् ॥ २९ ॥

द्वितीय इति । प्रथमेऽहनि प्रेक्षणकव्यग्रत्वात् , तृतीयादिष्वपि क्लिष्ट-दानं स्यात्, तेभ्य इति । नियुक्तेभ्यः पूजोपचारकेभ्यः, पूजा प्रेक्षणक-फलम्, नियतमिति । एतावत् प्रेक्षणकमूल्यमागन्तूनामिति पूर्वकल्पितं-प्राप्नुयुः, अनियतात् प्रेक्षणकाद् रागाद्वस्त्रादिदानलक्षणं प्रथमे वाऽह्नि रङ्गमध्ये नागरकेभ्यो लभेरन् ॥ २९ ॥

ततो यथाश्रद्धमेषां दर्शनमुत्सर्गो वा ॥ ३० ॥

तत उत्तरकालम् , यथाश्रद्धमिति । पुनर्द्रष्टुं यदि श्रद्धाऽस्ति पुनरा-गन्तूनां नृत्यतां दर्शनं, नो चेदुत्सर्गः प्रियालापैः संप्रेषणम् ॥ ३० ॥

यदा पुनः पुनर्दर्शनकौतुकं तदा दर्शनविशेषमाह—

व्यसनोत्सवेषु चैषां परस्परस्यैककार्यता ॥ ३१ ॥

व्यसनोत्सवेषु चैषामिति । आगन्तूनां कस्य चिद्व्याधौ शोके व्य-सने वा तथा विवाहादावुत्सवे व्यग्रस्य यत्कर्म तन्नियुक्तेन कुशीलवेन प्रेक्षणकाविघातार्थं संपाद्यम् , नियुक्तानां वा कस्य चिद्व्यसनोत्सवे, तदाऽऽगन्तुनेति परस्परैककार्यता स्यात् ॥ ३१ ॥

आगन्तूनां च कृतसमवायानां पूजनमभ्युपपत्तिश्चेति गणधर्मः॥३२॥

कृतसमवायानामिति । ये नागरकपण्डेऽभिषिक्ता घटां द्रष्टुमन्यस्मा-दागतास्तेषां पूजोपचारकर्माल्यानुलेपनादिभिः पूजनम् , पारिषदना-

४६ सटीक कामसूत्रे [ १ अधिकरणे,

गरकैश्च यथापरिचयं माङ्गलिकम्, अभ्युपपत्तिश्चेति । व्यसने साहाय्यं-
तत्प्रतीकारेण, गणधर्म इति । तत्रत्यानामागन्तूनां कुशीलवनागरकाणां-
यथास्वं परिषद्धर्म उक्तः॥ ३२ ॥

एतेन तं तं देवताविशेषमुद्दिश्य सम्भावितस्थितयो विविधा-
घटा व्याख्याताः ॥ ३३ ॥

एतेनेति । सरस्वतीघटाऽऽदिनिबन्धेनेन, तं तमिति । यो यः सां-
निध्याल्लोके दृष्टातिशयः, संभावितस्थितय इति । देशकालापेक्षया कृत-
व्यवस्थाः ॥ ३३ ॥

गोष्ठीसमवायमाह—

वेश्याभवने सभायामन्यतमस्योद्वसिते वा समानविद्याबुद्धि-
शीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी॥३४॥

वेश्याभवन इति । सभायां=मण्डपे, अन्यतमस्य वा नागरकस्योद्-
वसिते गृहे, एषु नागरकाणामविरुद्धं मिलनं समानविद्यादीनां सुखा-
तिशयाद्, नासमानविद्यादीनाम्, बुद्धिः प्रज्ञा, अभिप्रायो वा, सह
वेश्याभिरिति । स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थमासां गोष्ठयामन्तर्भावः, अ-
नुरूपैः=परस्परस्तुत्यनुरागपरिहासानुविद्धैः, आसनबन्धो=यथायथमा-
सनेऽवस्थानम्, पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि स्यात्॥३४॥

तत्रैषां समवायमाह—

तत्र चैषां काव्यसमस्या कलासमस्या च ॥ ३५ ॥

काव्यसमस्या कलासमस्या चेति । संभूय दर्शनं निरूपणं तत्सम-
स्या चर्चेत्यर्थः, पूर्ववद्भावे (१)प्रत्ययः, 'अस गतिदीप्त्यादानेषु' इति
गत्यर्थस्य ज्ञानार्थत्वाद्, भरतादिकाव्यस्य नृत्यादिकलाया वा चर्चा
स्यात्, यत्तु काव्यसमस्यापूरणमित्युक्तं, तस्य भिन्नार्थत्वात् कलासम-
स्या चेत्यत्रान्तर्भावः ॥ ३५ ॥

तस्यामुज्ज्वला लोककान्ताः पूज्याः प्रीतिसमानाश्चाहारिताः॥३६॥

तस्यामिति । गोष्ठ्याम्, चर्चाऽवसाने प्रीतिवर्धनार्थं वस्त्रादिदाने-
न परस्परस्य कलापूजाः स्युः, उज्ज्वला=अग्राम्याः, लोककान्ताः=लो-
कमनोहराः, प्रीतिसमानाः=प्रीत्यनुरूपाः, आहारिताः=परिचारिकैरा-
नायिताः ॥ ३६ ॥

समानपानकमाह—

परस्परभवनेषु चापानकानि ॥ ३७ ॥

४ अध्याये ] नागरिकवृत्तप्रकरणम् । ४७

परस्परभवनेषु चेति। एकस्यैकदा भवनेऽन्यदाऽन्यस्य वा, पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि, आपानकानि=पानगोष्ठ्यः स्युः ॥ ३७ ॥
आपानकेषु विधिमाह—

तत्र मधुमैरेयासवान् विविधलवणफलहरितशाकतिक्तकटुकाम्लोपदंशान् वेश्याः पाययेयुरनुपिबेयुश्च ॥ ३८ ॥

तत्रेति। मधु=माध्वीकम्, मैरेयासवौ मद्यविशेषौ, तथा चोक्तम्—
'मेषशृङ्गीत्वक्कषाथाभियुतो गुडप्रतीवापः, पिप्पलीमरिचसंभारस्त्रिफलायुक्तो मद्यो मैरेयः। कपित्थतुल्यफाणितपञ्चतौलिकप्रस्थमधुनाश्वासवयोगः, सुराकल्कतण्डुलाभ्यां निष्पन्नो गुडस्तत्र निक्षिप्यते' इति। मद्यमिति वक्तव्ये विशेषोपादानं त्रैविध्यख्यापनार्थम्, तथा चोक्तम्—
'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा'।
अत्र सुराशब्दः सामान्यवाची द्रष्टव्यः, एवं च विविधपानादापानकं भवति, विविधानि लवणतिक्तरसभूयिष्ठानि हरितकटुकानि च शिग्रुपर्णादीन्युपदंशो येषामिति; तान् वेश्याः पाययेयुरभ्यर्थनापुरःसरमनुपिबेयुश्च, आदौ पिबद्भिर्गौरवानुरागो न प्रकाशितौ स्याताम्, अत्र सह पृथग्वेति देशप्रवृत्तिरपेक्षणीया ॥ ३८ ॥

एतेनोद्यानगमनं व्याख्यातम् ॥ ३९ ॥

एतेनेति। आपानकविधिना, उद्यानगतैरप्ययमेवापानकविधिः कार्य इत्यर्थः ॥ ३९ ॥
तत्रोद्यानगमने विशेषमाह—

पूर्वाह्न एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः, दैवसिकीं च यात्रां तत्रैवानुभूय कुक्कुटलाबकमेषयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वाऽपराह्ने गृहीततदुद्यानोपभोगचिह्नास्तथैव प्रत्याव्रजेयुः ॥ ४० ॥

पूर्वाह्न एवेति। तदा हि गतानां दैवसिकी यात्रा संपद्यते, **स्वलंकृताः=**गृहीतवैहारिकवेषाः, तुरगाधिरूढाः, तुरगाणां ललितयानत्वात्, वेश्याभिः सहेति। ता अपि पश्चादग्रतो वा तुरगमारोहयितव्याः, परिचारकाः, यथास्वं कर्मभिः परिचरन्ति ये तैरनुगताः, पक्षस्य मासस्य वा गमनयोग्यतया प्रज्ञातेऽहनि गच्छेयुः, दैवसिकां यात्रां, प्रत्यहं क्रि-


(१) कृत्यप्रत्ययस्य बाहुलकत्वादिति भावः ।

४८सटीके कामसूत्रे[ १ अधिकरणे,

यमाणां शरीरस्थितिं, तत्रैवोद्यानेऽनुभूय; कुक्कुटलावकमेषयुद्धद्यूतैः सजीवनिर्जीवैर्नटादिप्रेक्षाभिरनुकूलैश्च चेष्टितैर्यथास्वं वेश्याप्रतिबद्धैः केलिविशेषेण दिवसं गमयित्वा, अपराह्णे प्रशान्तवेलायाम्, तथैवेति । स्वलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानुगता इति । विशेषोऽत्र गृहीततदुद्यानोपभोगचिन्हा इति 'तदुद्यानमुपभुक्तमिति' यानि सूचयन्ति कुसुमस्तवककिसलयादीनि तानि गृहीतानि शिरःकर्णकण्ठेषु कृतानि यैरिति, प्रत्याव्रजेयुः=प्रतीपमागच्छेयुः ॥ ४० ॥

एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥४१॥

एतेनेति । उद्यानगमनविधिना, तत्रापि गमनं दैवसिकयात्राऽनुभवनमागमनं च तुल्यं, किं तु गृहीततदुद्यानोपभोगचिन्हा इति; तेन तत्रैव प्रायशोऽन्तर्भूतमिति नैमित्तिकवर्गे पृथङ् नोक्तं, योऽत्र विशेषस्तमाह-रचितोद्ग्राहोदकानामिति । उद्ग्राहमविद्यमानकुल्याऽऽद्युदकं यस्य तोयस्थानस्य तदुद्ग्राहोदकं वापीदीर्घिकाऽऽदि, रचितमिति, स्वार्थिकण्यन्ताद्धेतुमण्ण्यन्तात् क्तप्रत्यये रूपम्; रच 'प्रतियत्ने' इत्यस्यादन्तत्वाच्च वृद्धिः तीर्थविन्यासादिभिः रचितं कारितमुद्ग्राहोदकं यैर्नागरकैरिति, ग्रीष्म इति । अन्यदा तु पुनर्निमज्जनोदकवाद्यविधानादिप्रकारायाः क्रीडाया असंभवत् ॥ ४१ ॥

समस्याः, क्रीडा, आह—

यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः, सहकारभञ्जिका, ऽभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालाऽनुयानम्, एकशाल्मली, (१)यवचतुर्थी, आलोलचतुर्थी, मदनोत्सवो, दमनभञ्जिका, होलाका, अशोकोत्तंसिका, पुष्पावचायिका, चूतलतिका, इक्षुभञ्जिका, कदम्बयुद्धानि, तास्ताश्च महिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुरिति संभूय क्रीडाः ॥ ४२ ॥

यक्षरात्रिरिति । सुखरा(२)त्रिर्यक्षाणां तत्र संनिधानात्; तत्र प्रायशो लोकस्य द्यूतक्रीडा, कौमुदीजागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षेण प्रवृत्तेः, तत्र दोलाद्यूतप्रायाः क्रीडाः, सुवसन्तक इति । सुव(३)सन्तो मदनोत्सवः, तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः, एता महिमान्यः क्रीडाः, देश्या आह—सहकारभञ्जि-


(१,) स्पृहयन्तीवृत्तम् इति क० पु० अधिकम् ।
(२,) कार्त्तिकामावस्यारात्रिः ।
(३,) माघशुक्लपञ्चमीदिनम् ।