सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

१ अध्याये ] प्रमाणकालभाववृत्तावस्थापनप्रकरणम् । ७३

१ अध्याये ] प्रमाणकालभाववृत्तावस्थापनप्रकरणम् । ७३

ज्ञास्तेषां सदृशं कार्यम्, न हि मेषयोः समानाकृत्योरेकस्मिन्युद्धलक्ष-
णार्थे प्रवृत्तयोरभिघातः कार्यं कालस्वरूपाभ्यां भिद्यते ॥ ४३ ॥

पुनः पुनः शास्त्रकार एव परपक्षमुपोद्वलयन्नाह—

स्यादुपायवैलक्षण्यादभिमानवैलक्षण्याच्च ॥ ४४ ॥

स्यादुपायवैलक्षण्यादिति । भवेत्तत्र कार्यभेद उपायभेदादभिमान-
भेदाच्चेत्यर्थः ॥ ४४ ॥

कथम् ? ॥ ४५ ॥

कथमिति ॥ ४५ ॥

स चोपायभेदो निरूप्यमाणः स्त्रीपुंसव्यापारव्यतिरेकेण नास्तीत्याह—

उपायवैलक्षण्यं तु सर्गात् कर्ता हि पुरुषोऽधिकरणं युवतिः ॥ ४६ ॥

उपायवैलक्षण्यं तु सर्गादिति । उपायभेदः, सृष्टेरित्यर्थः, एषैव हि
सृष्टिः स्त्रीपुंसयोर्यदेकः कर्ताऽन्यश्चाधार इति ॥ ४६ ॥

तदेव योजयन्नाह—

अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः ॥ ४७ ॥

अन्यथेति । एकस्य निम्नं मेहनमपरस्योन्नतम्, ग्रास्यग्रासकभा-
वान्मेहनयोः क्रियाभेदः ॥ ४७ ॥

तस्माच्चोपायवैलक्षण्यात्, सर्गादभिमानवैलक्षण्यमपि भवति ॥ ४८ ॥

तस्माच्चैवंभूतव्यापारात्मकत्वादुपायवैलक्षण्यान्न केवलं भवत्प-
रिकल्पितः कार्यभेदोऽभिमानभेदोऽपि भवति ॥ ४८ ॥

तदेव दर्शयन्नाह—

अभियोक्ताऽहमिति पुरुषोऽनुरज्यते, अभियुक्ताऽहमनेनेति युवतिरिति वात्स्यायनः ॥ ४९ ॥

अभियोक्तेत्यादि । अहमेनां रन्तुमनुयुञ्ज इति कर्तृव्यापारापेक्षया
पुरुषोऽभिमन्यमानोऽनुरज्यते, अहमनेनाभियुक्ता रन्तुमिति चाधार-
व्यापारापेक्षया युवतिरभिमन्यमाना ऽनुरज्यते, ततश्च तावुत्पन्नाभिमा-
नानुरागौ संप्रयोगे व्याप्रियमाणावपि कालस्वरूपाभ्यां सदृशं भावमभि-
गच्छतो न तु क्रियाभेदमात्राद्विसदृशम्, ततो ह्यभिमानमात्रं भिद्यते
न कार्यमित्येतत्तच्चेतसि कृत्वा शास्त्रकारो व्यक्ताभिप्रायं स्वपक्षं दर्श-
यति स्वनाम्ना ॥ ४९ ॥

परस्यापि शास्त्रकारेणाभिमानवैलक्षण्यमभ्युपगच्छतोपायवैलक्ष-
ण्यमभ्युपगत स्तस्मात्स्वयं कथं कार्यभेदः, परं नाभ्युपगच्छेदित्यभिप्रा-
यो वर्तते तन्निराकर्तुं शास्त्रकारः प्रकटयति—

१० का० सू०

७४ | सटीके कामसूत्रे | [ २ अधिकरणे,

तत्रैतत्स्यादुपायवैलक्षण्यदेव हि कार्यवैलक्षण्यमपि कस्मान्न स्यादिति ॥ ५० ॥

उपायवैलक्षण्यवदिति । यथाऽनयोर्व्यापारो भिन्नोऽभ्युपगतस्तद्वदेव सुखाख्यमपि कार्यं भिन्नं कस्मान्नाभ्युपगम्यते तज्जन्यत्वादिति ५०॥

तच्च न ॥ ५१ ॥

तच्च नेति ।
तज्जन्यत्वे कार्यस्य न वैलक्षण्यमपि तूपायवैलक्षण्यमेव युक्तम् ॥५१॥

हेतुमदुपायवैलक्षण्यम् ॥ ५२ ॥

तस्माद्धेतुमदुपायवैलक्षण्यम् ॥ ५२ ॥
कुत इत्याह—

तत्र कर्त्राधारयोर्भिन्नलक्षणत्वाद् ॥ ५३ ॥

कर्त्राधारयोर्भिन्नलक्षणत्वादिति । स्वतन्त्रः कर्ता, अधिकरणमाधारः, तयोर्हेत्वोर्भिन्नस्वभावत्वात्तद्व्यापारावपि तज्जन्यत्वान्द्भिन्नावित्यर्थः ॥५३॥

यत्तु कार्यस्य तज्जन्यत्वेऽपि वैलक्षण्यमुक्तं तस्य निरूप्यमाणोऽन्योहेतुर्नास्तीत्याह—

अहेतुमत्कार्यवैलक्षण्यमन्याय्यं स्यात् ॥ ५४ ॥

अहेतुमदिति । अहेतुत्वाच्च कार्यवैलक्षण्यमित्यन्याय्यं युक्तिशून्यमभ्युपगतं स्यात् ॥ ५४ ॥

तामेव युक्तिं स्मारयन्नाह—

आकृतेरभेदादिति ॥ ५५ ॥

आकृतेरभेदादिति । समानामेव मनुष्यजातावेकाभिसन्धानयोः स्त्रीपुरुषयोर्व्यापारौ परस्परापेक्षौ कालस्वरूपाभ्यां सदृशं सुखं जनयतः॥५५॥

तत्रैतत्स्यात्, संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते, पृथक्पृथक्स्वार्थसाधकौ पुनरिमौ तदयुक्तमिति ॥ ५६ ॥

देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ देवदत्तादिभिः कर्तृकरणाधारैः कारकैः संभूयौदनो दृश्यते, स्वकार्यसाधकौ पुनरिमौ स्त्रीपुंसौ, यतो युवतिराधारः पुरुषव्यापारापेक्षः स्वसन्तानेषु सुखाख्यं स्वार्थं साधयति, पुरुषश्च कर्ता स्त्रीव्यापारापेक्ष इति, एतच्च भिन्नार्थसाधकत्वं कारकाणामयुक्तम्, ओदनादावदृष्टत्वाद्, दृश्यते च स्त्रीपुंसयोः, तत्र भिन्नार्थसाधकत्वेऽपि कारकाणां यथा स्त्रीपुंसयोः सुखरूपं पृथक्कार्यं, तथा समानाकृतित्वेऽपि तदेव कार्यं कालस्वरूपाभ्यां विसदृशं स्यादित्यभिप्रायः ॥ ५६ ॥

१ अध्याय ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७५

तच्च न ॥ ५७ ॥

तच्च नेति । नैतद्युक्तं किं तु युक्तमेव ॥ ५७ ॥

युगपदनेकार्थसिद्धिरपि दृश्यते, यथा मेषयोरभिघाते कपित्थयोर्भेदे मल्ल्योर्युद्ध इति ॥ ५८ ॥

युगपदनेकार्थसिद्धिदर्शनाद्, यथा मेषयोरभिघात इति । अभिघातविषये युगपदनेकार्थसिद्धिर्दृश्यते, युगपद् द्विधा चाभिघातो भवतीत्यर्थः, एवं कपित्थयोर्भेदे मल्ल्योर्युद्ध इति, तथा स्त्रीपुंसयोः कारकयोः पृथक्कार्यं सदृशं च स्यादिति, मेषकपित्थमल्लग्रहणं तिर्यगचेतनमनुष्येष्वप्यस्य न्यायस्य प्रातिख्यापनार्थम् ॥ ५८ ॥

तत्र को भेद इति चेत्, तत्रैतत्स्यात्—

न तत्र कारकभेद इति चेद् ? ॥ ५९ ॥

मेषादियुद्धादावपि द्वावपि प्रतियोगिनौ कर्तारौ न तत्र कारकान्तरमिति ॥ ५९ ॥

इह तु कर्त्राधाराविति कथं न विसदृशं कार्यमित्याशङ्कयाह—

इहापि न वस्तुभेद इति ॥ ६० ॥

इहापीति । स्त्रीपुंसयोरपि न कश्चित्परमार्थतः कारकयोर्भेदः, अपि तु द्वावप्येतौ कर्तारौ क्रियां निर्वर्तयतः, केवलं करणाधिकरणादयो भेदा बुद्धिकल्पिता व्यवहारार्थं व्यवस्थाप्यन्ते ॥ ६० ॥

उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात् ॥ ६१ ॥

एवं च सति 'उपायवैलक्षण्यं तु सर्गात्' । २ । १ । १ । ४६ । इति यदुक्तं तदभिहितं प्रतिविहितं पुरस्ताद् द्रष्टव्यम्, कर्त्राधारलक्षणस्यैव वास्तवत्वात् ॥ ६१ ॥

तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥ ६२ ॥

तेन प्रतिविहितेनोभयोरपि स्त्रीपुंसयोः सदृशी सुखप्रसिद्धिः, कालस्वरूपाभ्यां सदृशं सुखमुत्पद्यत इत्यर्थः, अन्यथा कथं तयोरागज्वरोपशमः, तामेवात्यानन्दावस्थामधिकृत्योपस्थेन्द्रियमानन्देन्द्रियमिति गीयते ॥ ६२॥

अमुमेवार्थं शास्त्रकारः संग्रहश्लोकेनाह—

जातेरभेदाद्दम्पत्योः सदृशं सुखमिष्यते ।
तस्मात्तथोपचर्या स्त्री यथाऽग्रे प्राप्नुयाद्रतिम् ॥ ६३ ॥

दम्पत्योः स्त्रीपुंसयोः, एकार्थमभिप्रपन्नयोरित्यर्थः, एतावत्तु स्यात्, अवान्तरस्त्रीजातिभेदाद्यदपरमस्याः, कण्डूत्यपनोदसुखं यच्चोपमृद्यमाने

७४७६सटीके कामसूत्रे[ २ अधिकरणे,

(वाम पृष्ठस्य अवशिष्टभागः)

तन्नैतत्स्या
स्यादिति ॥ ५
उपायवैलक्ष्
देव सुखाख्यम

तच्च नेति ।
तज्जन्यत्वे

तस्मा
कुत
तत्र
कर्त्राधारयो
तयोर्हेत्वोर्भिन्नरू
यत्तु कार्यरू
हेतुर्नास्तीत्याह-
अहे
अहेतुमदिति
भ्युपगतं स्यात्
तामेव युक्तिं स्

आकृतेरभेव
पुरुषयोर्व्यापारौ
तन्नैतत्स्य्
कस्वार्थसाधकं
देवदत्तः व
णधारैः कारवै
यतो युवां
चयति,
कारक
भिन्न


(मुख्य पृष्ठम्)

संबाधे स्यन्दनं शुक्रस्य, विसृष्टिसुखं तु पुरुषवदन्त एवेति यथोक्तम्—

'कण्डूत्यपगमात्स्त्रीणां क्षरणाच्च सुखं द्विधा ।
स्यन्दनं च विसृष्टिश्च शुक्रस्य क्षरणं द्विधा ॥
क्लिन्नता केवलस्यन्दाद्विसृष्टेर्मथनात्सुखम् ।
अन्ते त्वाश्चितवेगाया विसृष्टिर्नरवत्स्मृता' ॥

तत्रावसाने दंपत्योः समकाला चेद्रतिरुत्तमः पक्षः, समरतत्वात्, भिन्नकाला चेत्, पुरुषस्य प्रागधिगतभावत्वान् ध्वजभङ्गे न स्त्रीभावमधिरुच्छेत् तस्मात्समरताद्विषमरते तथा स्त्री चुम्बनालिङ्गनादिभिरुपचरणीया यथाऽग्रे प्राप्नुयाद्रतिम् , स्त्रिया प्रागधिगते भावे पुरुषो युक्तयन्त्रो वेगं कुर्यादात्मनो भावं निर्वर्तयितुमिति ॥ ६३ ॥

सदृशत्वस्य सिद्धत्वात्, कालयोगीन्यपि भावतोऽपि कालतः प्रमाणवदेव नव रतानि ॥ ६४ ॥

कालयोगीन्यपीति । अपिशब्दाद्भावयोगीन्यपि; अन्यथा कण्डूत्यपनोदसुखस्य विसृष्टिसुखस्य वा वैसादृश्यात्कथं भावतो नव रतानि ६४॥

रतिरतयोर्व्यवहारार्थं पर्यायानाह—

रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः, संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥ ६५ ॥

फलावस्था रतिः, हेत्ववस्था च रतम्, तयोः पर्यायशब्दानामेकार्थविषयत्वेऽपि निमित्तं भिद्यते, यथा—ऐश्वर्ययोगादिन्द्रः, शक्तियोगाच्छक्रः, तत उपस्थेन्द्रियेण रसनादनुभवाद्रासः, फलावस्थायां सुखत्वेन चित्तपरिस्पन्देन रमणाद्रतिः, चित्तप्रणयनात्प्रीतिः, कामिताऽऽख्येन भावेन भाव्यमानत्वाद्भावः, कामिताऽऽख्योऽपि भाव्यते फलरूपोऽनेनेति भावः, चित्तरञ्जनाद्रागः, शुक्रधातोः सुखानुविद्धस्य नाडीसुखात्पृथग्भवनाद्वेगः, रतस्य समापनात्समाप्तिरिति, सङ्गतयोः स्त्रीपुंसयोः सम्यक्प्रकृष्टो योगः संप्रयोगः, हेत्ववस्थायां वाक्कायचित्तपरिस्पन्देन रमणाद्रतम्, दम्पतिव्यतिरिक्तमन्यं रहयतीति रहः, शयनीयप्रतिशब्द्यिकयोः शयनाच्छयनम्, अन्यथ्यागारेषु मोहनाद्वावश्यकत्वान्मोहनमिति ॥ ६५ ॥

प्रमाणकालभावजानां संप्रयोगाणामेकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुमतिबहुत्वात् ॥ ६६ ॥

प्रमाणकालभावजानां त्रयाणां रतानामेककस्य नवविधत्वात्समुदायेन

१ अध्याये ] प्रमाणकालभावतावस्थानप्रकरणम् । ७७

सप्तविंशतिः, द्विविधं रतम्—शुद्धं संकीर्णं च, तत्र शुद्धस्यासम्भवात्सं-
कीर्णमेव युक्तमभिधातुमिति मन्यमानः शास्त्रकार आह—तेषामिति ।
सप्तविंशतिसंख्यानां व्यतिकरे संयोगे, तत्रापि न द्वाभ्याम्, असंभवात्,
त्रिभिरेव व्यतिकरः, सुरतसंख्या न शक्यते वक्तुम्, प्रत्येकनिर्देशेनाति-
बहुत्वात्, तेषु हि प्रत्येकं निर्दिश्यमानेषु ग्रन्थगौरवं स्यात्, संक्षेपेण च
संख्यानस्य प्रयोजनं नास्ति, तस्मात्पूर्वसंख्ययैव योजनीयमित्यभिप्रायः,
तत्र समं विषमं च संकीर्णकम्, तद्यथा—शशस्य मन्दशीघ्रवेगस्य मृग्या
तथाविधया, शशस्य मध्यमध्यवेगस्य मृग्या तथाविधया, शशस्य शी-
घ्रचिरवेगस्य मृग्या तथाविधया, शशस्य मन्दमध्यवेगस्य मृग्या तथा-
विधया, शशस्य मन्दचिरवेगस्य मृग्या तथाविधया, शशस्य मध्यशी-
घ्रवेगस्य मृग्या तथाविधया, शशस्य मध्यचिरवेगस्य मृग्या तथावि-
धया; शशस्य चण्डशीघ्रवेगस्य मृग्या तथाविधया, शशस्य चण्ड-
चिरवेगस्य मृग्या तथाविधया, इति सदृशसंप्रयोगे समानि नव सं-
कीर्णरतानि ।

एषामेव नवानां शशानामेकैकस्य सदृशीं मृगीमेकां त्यक्त्वा
शेषाभिरतथाविधाभिरष्टाभिर्योगे द्वासप्ततिरिति विषमाणि संकीर्णर-
तानि, यथा शशस्य नवप्रकारस्य नवप्रकारया तथाविधया बडवया
विषमाणि नव संकीर्णरतानि, अतथाविधाभिरष्टाभिर्योगे द्वासप्तति-
रिति विषमाण्येव

एवं हस्तिन्या तावन्त्येव विषमाण्यतिविषमाणि चेति संक्षेपेण शश-
स्य त्रिचत्वारिंशच्छतद्वयम्(२४३), तावदेव वृषस्याश्वस्य च, समुदा,
येन चैकोनत्रिंशत्सप्तशतानि (७२९) ॥ ६६ ॥

तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥ ६७ ॥

संकीर्ंणरतेषु बुद्ध्या परिच्छिन्नेषु तर्कादुपचारान्प्रयोजयेत्, प्रमा-
णकालभावजेषु ये यथायथमालिङ्गनादय उपचारास्तान्तरहयित्वा संकी,
र्णानिव योजयेत्, तथा तत्समरतमेव प्रायत्निकं स्यादित्यर्थः, अत्र बा-
भ्रवीयाः श्लोकाः—

‘पौरुषं मेहनं यत्र मेहने परिघृष्यते ।
भावकालौ समानौ च तद्रतं श्रेष्ठमुच्यते ॥
भिद्यते मेहनं यत्र घृष्यते च न सर्वशः ।
विषमौ कालभावौ च कनिष्ठं तदुदाहृतम् ॥
सुरतं सर्वसाम्ये स्याद्वैषम्ये दुरतं स्मृतम् ।
मध्यमानि तु सर्वाणि तेषु चाहुर्बलाबलम् ॥

७८सटीके कामसूत्रे[ २ अधिकरणे,

बलीयान्सर्वतः कालः कालेऽपि हि शशोऽपि सन् ।
संस्पृशत्येव सर्वत्र हस्तिनीमेहनोदरम् ॥
एवं वाजी विरुध्येत मृगीकालप्रकर्षतः ।
तस्मात्प्रमाणमेवाहुर्बलीयः सर्वतः परे ॥
बलीयान्वेग इत्यन्ये यस्मादश्वोऽप्यवेगवान् ।
नैव साधयितुं शक्तो वेगः कालप्रकर्षणः ॥
एवं तु नैव खिद्येत मन्दवेगाऽपि नायिका ।
यथाविषयमेतासां तस्माज्ज्ञेयं बलाबलम् ॥
हीनो भावप्रमाणाभ्यां वेगवान्कालवर्जितः ।
कालप्रमाणहीनश्च तत्र शेषेण साधयेद्' इति ॥ ६७ ॥

तत्र स्वभावतो यो यस्य भावः कालश्च स भावान्तरं कालान्तरं च यदा प्रतिपद्यते तदा भावकालान्तरसंक्रान्तिः, तां दर्शयितुमाह—

प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतमुत्तरेषु, योषितः पुनरेतदेव विपरीतमधातुक्षयात् ॥ ६८ ॥

शीघ्रमध्यचिरवेगा(१)णां मन्दमध्यचण्डवेगानामन्यतमस्य प्रकृतिस्थस्य प्रथमरते स्वभेदापेक्षया शीघ्रवेगता चण्डवेगता च द्रष्टव्या, तदानीं प्रवृद्धत्वाद्रागश्चण्डायमानो द्रुतं प्रशाम्यति, तद्यथा—चिरचण्डवेगस्य प्रथमरते मध्यवेगता चण्डतरवेगता च कालभावाभ्याम्, मध्यमध्यवेगस्य शीघ्रवेगता चण्डवेगता च, शीघ्रमन्दवेगस्य शीघ्रतरवेगता मध्यवेगता च, शीघ्रमध्यवेगस्य शीघ्रतरवेगता चण्डवेगता च, शीघ्रचण्डवेगस्य शीघ्रतरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीघ्रवेगता मध्यवेगता च, मध्यचण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य मध्यवेगता, चिरमध्यवेगस्य मध्यवेगता चण्डवेगता, चेति(२) नव प्रथमरते संक्रान्तिरुतानि, तद्विपरीतमुत्तरेष्विति, प्रथमरते यदुक्तं तस्य विपरीतं द्वितीयादिषु रतेष्वित्यर्थः, तत्र कामस्यैकगुणत्वात्पुरुषस्य प्रशान्तरागत्वाद् द्वितीये रते प्रकृतिस्थैव भावकालान्तरसंक्रान्तिः,

योषितः पुनरेतदेव विपरीतमिति । अत्रापि प्रकृतिस्थायाः प्रथमरते स्वभेदापेक्षया चिरवेगता मन्दवेगता च द्रष्टव्या, तस्या अष्टगुणोऽपि रागो निसर्गादेव प्रथमरतेन संधुक्ष्यते, ततश्च तदानीं मन्दायमानश्चिरेण-


( १ ) वैयधिकरण्ये षष्ठी ।
( २ ) कालभावाभ्यामिति क्रमेण सर्वत्रान्वितम् ।