कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 87, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] प्रमाणकालभावतावस्थानप्रकरणम् । ७७
सप्तविंशतिः, द्विविधं रतम्—शुद्धं संकीर्णं च, तत्र शुद्धस्यासम्भवात्सं-
कीर्णमेव युक्तमभिधातुमिति मन्यमानः शास्त्रकार आह—तेषामिति ।
सप्तविंशतिसंख्यानां व्यतिकरे संयोगे, तत्रापि न द्वाभ्याम्, असंभवात्,
त्रिभिरेव व्यतिकरः, सुरतसंख्या न शक्यते वक्तुम्, प्रत्येकनिर्देशेनाति-
बहुत्वात्, तेषु हि प्रत्येकं निर्दिश्यमानेषु ग्रन्थगौरवं स्यात्, संक्षेपेण च
संख्यानस्य प्रयोजनं नास्ति, तस्मात्पूर्वसंख्ययैव योजनीयमित्यभिप्रायः,
तत्र समं विषमं च संकीर्णकम्, तद्यथा—शशस्य मन्दशीघ्रवेगस्य मृग्या
तथाविधया, शशस्य मध्यमध्यवेगस्य मृग्या तथाविधया, शशस्य शी-
घ्रचिरवेगस्य मृग्या तथाविधया, शशस्य मन्दमध्यवेगस्य मृग्या तथा-
विधया, शशस्य मन्दचिरवेगस्य मृग्या तथाविधया, शशस्य मध्यशी-
घ्रवेगस्य मृग्या तथाविधया, शशस्य मध्यचिरवेगस्य मृग्या तथावि-
धया; शशस्य चण्डशीघ्रवेगस्य मृग्या तथाविधया, शशस्य चण्ड-
चिरवेगस्य मृग्या तथाविधया, इति सदृशसंप्रयोगे समानि नव सं-
कीर्णरतानि ।
एषामेव नवानां शशानामेकैकस्य सदृशीं मृगीमेकां त्यक्त्वा
शेषाभिरतथाविधाभिरष्टाभिर्योगे द्वासप्ततिरिति विषमाणि संकीर्णर-
तानि, यथा शशस्य नवप्रकारस्य नवप्रकारया तथाविधया बडवया
विषमाणि नव संकीर्णरतानि, अतथाविधाभिरष्टाभिर्योगे द्वासप्तति-
रिति विषमाण्येव
एवं हस्तिन्या तावन्त्येव विषमाण्यतिविषमाणि चेति संक्षेपेण शश-
स्य त्रिचत्वारिंशच्छतद्वयम्(२४३), तावदेव वृषस्याश्वस्य च, समुदा,
येन चैकोनत्रिंशत्सप्तशतानि (७२९) ॥ ६६ ॥
तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥ ६७ ॥
संकीर्ंणरतेषु बुद्ध्या परिच्छिन्नेषु तर्कादुपचारान्प्रयोजयेत्, प्रमा-
णकालभावजेषु ये यथायथमालिङ्गनादय उपचारास्तान्तरहयित्वा संकी,
र्णानिव योजयेत्, तथा तत्समरतमेव प्रायत्निकं स्यादित्यर्थः, अत्र बा-
भ्रवीयाः श्लोकाः—
‘पौरुषं मेहनं यत्र मेहने परिघृष्यते ।
भावकालौ समानौ च तद्रतं श्रेष्ठमुच्यते ॥
भिद्यते मेहनं यत्र घृष्यते च न सर्वशः ।
विषमौ कालभावौ च कनिष्ठं तदुदाहृतम् ॥
सुरतं सर्वसाम्ये स्याद्वैषम्ये दुरतं स्मृतम् ।
मध्यमानि तु सर्वाणि तेषु चाहुर्बलाबलम् ॥