Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

७८२ कथासरित्सागर

Page 841Permalink

७८२ कथासरित्सागर

तं हृत्वा मायया तस्यास्तत्स्थाने त्वमिमां रतिम्।
निर्माय मानुषीं कन्यां त्यक्तदिव्यतनुं क्षिपेः॥४४॥
इतीश्वराज्ञामादाय मूर्ध्नि वेधस्यथो गते।
कलिङ्गसेना प्रसवं प्राप्ते काले चकार सा॥४५॥
जातमात्रं सुतं तस्या हृत्वाऽथात्र स्वमायया।
रतिं तां कन्यकां कृत्वा न्यधाद् विधिरलक्षितम्॥४६॥
सर्वैश्च तत्र तामेव कन्यां जातामलक्षत।
दिवाप्यकाण्डप्रतिपच्चन्द्रलेखामिवोदिताम् ॥४७॥
कान्तिद्योतिततद्वासगृहां निर्जित्य कुर्वतीम्।
रत्नदीपशिखाश्रेणिर्लज्जिता इव निष्प्रभाः॥४८॥
कलिङ्गसेना तां दृष्ट्वा जातामसदृशीं सुताम्।
पुत्रजन्माधिकं सोत्पादुत्सवं विततान सा॥४९॥
अथ वत्सेश्वरो राजा सदेवीकः समन्त्रिकः।
कन्यां कलिङ्गसेनाया जातां शुश्राव तादृशीम्॥५०॥
श्रुत्वा च स नृपोऽकस्माद्वाचेश्वरचोदितः।
देवीं वासवदत्तां तां स्थिते यौगन्धरायणे॥५१॥
जाने कलिङ्गसेनेषा दिव्या स्त्री शापतश्च्युता।
अस्यां जाता च कन्येयं दिव्याश्चर्यरूपधृक्॥५२॥
तदसौ कन्यका तुल्या रूपेण तनयस्य मे।
नरवाहनदत्तस्य महादेवीत्वमर्हति॥५३॥
तच्छ्रुत्वा जगदे राजा देव्या वासवदत्तया।
महाराज किमेवं त्वमकस्मादद्य भाषसे॥५४॥
कुलद्वयविशुद्धोऽयं क्व पुत्रस्ते वत क्व सा।
कलिङ्गसेनातनया बन्धकीगर्भसम्भवा॥५५॥
श्रुत्वैद् विमृशन् राजा सोऽब्रवीद्भद्राहं स्वतः।
वदाम्यतत्प्रविश्यान्तः कोऽपि जल्पयतीव माम्॥५६॥
नरवाहनदत्तस्य कन्ययं पूर्वनिर्मिता।
भार्येत्येवं वदन्तीं च शृणोमीव गिरं दिवः॥५७॥
कलिङ्गसेना हि वासावेवपरमा शुक्लोदयता।
पूर्वकर्मवशादेवस्या बन्धकीगर्भसम्भवः॥५८॥