सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

२२ कथासरित्सागर

२२ कथासरित्सागर
द्वितीयस्तरङ्गः
वररुचेर्विन्ध्यवासिनी प्रति गमनम्
ततः स मर्त्यवपुषा पुष्पदन्त परिभ्रमन्।
नाम्ना वररुचि किञ्च कात्यायन इति श्रुतः ॥१॥
पारं सम्प्राप्य विद्यानां कृत्वा मन्त्रस्य मन्त्रिनाम्।
खिन्नः समाययौ द्रष्टुं कदाचिद् विन्ध्यवासिनीम् ॥२॥
तपसाराधिता देवी स्वप्नावद्यान सा च तम्।
प्राहिणोद्विन्ध्यकान्तारं काणभूतिमवेक्षितुम् ॥३॥
व्याघ्रवानरसङ्कीर्णं निस्तोयपरुषद्रुम।
श्मशानं च स प्रांशु न्यग्रोधतरुमैक्षत ॥४॥
वररुचेः काणभूतिना समागमः
ददर्श च समीपेऽस्य पिशाचानां शतवृतम्।
काणभूतिं पिशाचं च वर्ष्मणा सालसन्निभम् ॥५॥
स काणभूतिना दृष्ट्वा कृतपाद्यापसंग्रहः।
कात्यायनो जगादैनमुपविष्टः क्षणान्तरम् ॥६॥
सदाचारो भवानेवं कथमेतां गतिं गतः।
उच्छ्रखा कृतसौहार्दं काणभूतिस्तमब्रवीत् ॥७॥
काणभूतिवक्त्रिता शिवोक्ता कथा
स्वतो मे नास्ति विज्ञानं किं तु शर्वा गया श्रुतम्।
उज्जयिन्यां श्मशाने यच्छृणु तत्कथयामि त ॥८॥
कपाल्यु श्मशानेषु कस्माद्देव ! रतिस्तव।
इति पृष्टस्ततो देव्या भगवानिदमब्रवीत् ॥९॥
पुरा कल्पक्षये वृत्ते जातं जलमयं जगत्।
मया ततो निमिषोदं रक्तबिन्दुनिपातितः ॥१०॥
अण्डान्तस्तदभूदण्डं तस्माद्देवाहृतात्पुमान्।
निरगच्छत्तत सृष्टा सर्गाप प्रवृत्तिमया ॥११॥
तौ च प्रजापतीनन्यान सृष्टवन्तौ प्रजाश्च ते।
अतः पितामहः प्रोक्तः स पुमा जगति प्रिये ! ॥१२॥
एवं चराचरं सृष्ट्वा विश्वं दर्पमगादसौ।
पुरुषास्तन मूर्धानमथतस्याहमच्छिदम् ॥१३॥