Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

२८ कथासरित्सागर

Page 61Permalink

२८ कथासरित्सागर
ततः सुप्तोत्थिते तस्मिन्बाल वा प्राप्य काञ्चनम् ।।
यज्ञदत्तसुता साध्यो ननन्दु फलितव्रता ॥२३॥
अथ तेन सुवर्णेन धृतकोपोऽचिरेण सः।
बभूव पुत्रको राजा तपोऽधीना हि सम्पदः ॥२४॥
कदाचिद्यज्ञदत्तोऽथ रहः पुत्रकमब्रवीत्।
राजन्कुभिक्षदोषेण क्वापि ते पितरो गताः ॥२५॥
तत्सदा देहि विप्रेभ्यो यतायान्ति निशम्य ते।
ब्रह्मदत्तकथां चातो कथयामि च ते शृणु ॥२६॥
वाराणस्यामभूत्पूर्व ब्रह्मदत्ताभिधो नृपः।
सोऽपश्यद्धंसयुगलं प्रयातं गगने निशि ॥२७॥
विस्फुरत्कनकच्छायं राजहंसशतैर्वृतम् ।
विद्युत्पुञ्जमिवाकाण्डसिताभ्रपरिवेष्टितम् ॥२८॥
पुनस्तद्दर्शनेात्कण्ठा तस्यास्य ववृधे ततः।
यथा नृपतिसौख्येषु न बबन्ध रतिं क्वचित् ॥२९॥
मन्त्रिभिः सह संमन्त्र्य ततश्चाकारयत्सरः।
स राजा स्वमते कान्तं प्राणिनां चाभयं ददौ ॥३०॥
ततः कालेन तौ प्राप्तौ हंसौ राजा ददर्श सः।
विश्वस्तो चापि पप्रच्छ हैमे वपुषि कारणम् ॥३१॥
व्यक्तवाचौ ततस्तौ च हंसौ राजानमूचतुः।
पुरा जन्मान्तरे काकावावां जातौ महीपते ॥३२॥
बल्यर्थ युध्यमानौ च पुण्ये शून्ये शिवालये
विनिपत्य विपन्नौ स्वस्तत्स्थानद्रोणिकान्तरे ॥३३॥
जातौ जातिस्मरावावां हंसौ हेममयौ ततः।
तच्छ्रुत्वा तौ यथाकामं पश्यन् राजा तुतोष सः ॥३४॥
अतोऽन्यव्यापृत्यादेव पितॄन्दानाववाप्स्यसि।
इत्युक्तो यज्ञदत्तेन पुत्रकस्तत्तथाकरोत् ॥३५॥
श्रुत्वा प्रदानवार्तां तामाजग्मुस्ते द्विजातयः।
परिज्ञाता परा लक्ष्मीं पत्नीदत्त सह रमिरे ॥३६॥
आश्चर्यमपरित्याज्यो दृष्टनष्टापनामपि।
अविवेकाभ्युदीर्णा स्वात्नुभावो दुरात्मनाम् ॥३७॥