कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
३ कथासरित्सागर
३ कथासरित्सागर
ततस्तास्ताः सविश्रम्भाः कथाः कुर्वंस्तया सह।
यौगन्धरायणोक्तं च तस्यै राजा शशंस सः॥१३॥
सा च तत्प्रतिपद्यैव निश्चिक्ये गमनं प्रति।
आनाम्याषाढकं सज्जं हस्त्यारोहं चकार तम्॥१४॥
देवपूजापदेशेन दत्त्वा मद्यं मदान्वितम्।
सर्वाधोरणसंयुक्तं महामात्रं च साकरोत्॥१५॥
ततः प्रदोषे बिल्वस्थेमेघदाम्बवसमाकुले।
आषाढकः करेणुं तां सज्जीकृत्यानिनाय सः॥१६॥
सज्जमाना च सा शब्दं चकार करिणी किल।
तं च हस्तिरुताभिज्ञो महामात्रोऽप्य सोऽशृणोत्॥१७॥
त्रिशष्टियोजान्यद्य यास्यामीत्याह हस्तिनी।
इत्युवाच स मोहाममदविस्खलिताक्षरम्॥१८॥
विचारार्हं पुनस्तस्य मत्तस्याभून्न मानसम्।
तन्न हस्तिपकाः क्षीबास्तद्वाक्यं नव शुश्रुवुः॥१९॥
ततश्च वत्सराजोऽत्र वीणामादाय तां निजाम्।
यौगन्धरायणाप्ताप्तैर्योगैः श्वसितबन्धनः॥२०॥
उपनीतप्रहरणः स्वैरं वासवदत्तया।
करेणुकायामारोहत्स तस्यां सवसन्तकः॥२१॥
ततो वासवदत्तापि सह काञ्चनमालया।
सख्या रहस्यभारिण्या तस्यामेवारुरोह सा॥२२॥
अयोऽश्मयिम्या निरगात् स हस्तिपक्पञ्चमः।
वत्सेशो निशि मत्तगभिन्नप्राकारवर्त्मना॥२३॥
तत्स्थानरक्षिणौ वीरौ स्वैरं स हतवान्नृपः।
वीरबाहुं तथा तालभटं राजसुताश्रयौ॥२४॥
ततः प्रतस्थे वेगेन स राजा दयितासखः।
हृष्टः करेणुकारूढो दक्षश्यावाब्जेङ्ककुञ्जरम्॥२५॥
तज्जन्मिन्या च तौ दृष्ट्वा हतौ प्राकाररक्षिणौ।
राज्ञे न्यवेदयन्ग्रात्रौ क्षुभिताः पुररक्षिणः॥२६॥
सोऽप्यन्विष्य प्रभातच्छण्डमहासेनः पलायितम्।
हृतवासवदत्तं च वत्सराजमबुध्यत॥२७॥
तत्पुत्रः पालकाख्योऽथ ज्ञातकोलाहले पुरे।
अभ्यधावत्स वत्सेशामभिरुह्य नडागिरिम्॥२८॥