कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
४८ कथासरित्सागर
४८ कथासरित्सागर
वत्सराजोऽपि सञ्चिन्तां मुक्त्वा मन्त्रिवचः स्मरन्।
ननन्द लब्धं मन्वानो देवीं राज्यं सुतं तथा ॥२९॥
देवी वासवदत्ता च मन्त्री यौगन्धरायणः।
अभूतां निर्वृतौ सिद्धे नीतिकल्पलताफले ॥३०॥
मदनमञ्चुका जन्म कथा
अथ गच्छत्सु दिवसेष्वापाण्डुमुखपङ्कजा।
दध्रे कलिङ्गसेना सा गर्भमुत्पन्नदोहदा ॥३१॥
तुङ्गौ विरेजतुस्तस्या स्तनौवाश्यामचूचुकौ।
निधानकुम्भौ कामस्य मदमुद्राङ्किताविव ॥३२॥
ततो मदनवेगस्तामुपेत्य परिसम्यधात्।
कलिङ्गसेने दिव्यानामस्माकं समयोऽस्त्ययम् ॥३३॥
जातं मानुषगर्भं यन्मुक्त्वा यामो विदूरतः।
कण्वाश्रमे न तत्याज मेनका किं शकुन्तलाम् ॥३४॥
त्वं यद्यप्यप्सराः पूर्वं तदप्यविनयान्निजात्।
क्षत्रशापेन सम्प्राप्ता मानुष्यं देवि साम्प्रतम् ॥३५॥
तेनैव बन्धकीशब्दो जातो साध्व्या अपीह ते।
तस्मादपत्यं रक्षेस्त्वं स्थानं यास्याम्यहं निजम् ॥३६॥
स्मरिष्यसि यदा मां च सन्निधास्ये सदा तव।
एवं कलिङ्गसेनां तामुक्त्वा साश्रुविलोचनाम् ॥३७॥
समाश्वास्य च दत्त्वा च तस्यै सद्रत्नसञ्चयम्।
तच्चित्तः समयाकृष्टो ययौ विद्याधरेश्वरः ॥३८॥
कलिङ्गसेनाप्यत्रासीदपत्यार्था शचीमिव।
आलम्ब्य वत्सराजस्य भुजच्छायामुपाश्रिता ॥३९॥
अत्रान्तरे कृतवतीं साङ्गमप्राप्तये तपः।
आदिदेश रतिं मार्त्तामनङ्गस्याम्बिकापतिः ॥४०॥
वत्सराजगृहे जातो दग्धपूर्वः स ते पतिः।
नरवाहनदत्ताख्यो योनिजो मद्विसर्जनात् ॥४१॥
मदाराधनतस्त्वं तु मर्त्यलोकेऽप्ययोनिजा।
जनिष्यसे ततस्तेन भर्त्रा साङ्गेन मोक्ष्यसे ॥४२॥
एवमुक्त्वा रतिं शम्भुः प्रजापतिमथाविशत्।
कलिङ्गसेना तनयां सोष्यते दिव्यसम्भवम् ॥४३॥