सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

८२ कथासरित्सागर

८२ कथासरित्सागर
सर्वस्तत्वं सभाप्येतद् ब्रूमः पृष्टा वयं त्वया।
इत्युक्त्वा सारमन्योन्यं ते निश्चित्यैवमब्रुवन् ॥१९०॥
आरुह्य नृपति पूर्वमिन्द्रियाश्वान् वशीकृतान्।
कामक्रोधादिकां जित्वा रिपूनाभ्यन्तरांश्च तान् ॥१९१॥
ज्रयेदात्मानमेवादी विजयायान्यविद्विषाम्।
अजितात्मा हि विवशो वशी कुर्यात्कथं परम् ॥१९२॥
ततो जानपदत्वादिगुणयुक्तांश्च मन्त्रिणः।
पुरोहितं चाध्वंशं कुर्याच्च तपोनन्वितम् ॥१९३॥
उपाधिभिर्भये लोभे धर्मे कामे परीक्षितान्।
योग्येष्वमात्यान् कार्येषु युञ्जीतान्तरवित्तमः ॥१९४॥
सत्यं द्वेषप्रयुक्तं वा स्नेहोक्तं स्वार्थसंहतम्।
वचस्तेषां परीक्षेत मिथः कार्येषु जल्पताम् ॥१९५॥
सत्ये तुष्येदसत्ये तु यथार्हं दण्डमाचरेत्।
जिज्ञासेत पृथक् चैषां चारैराचरितं तथा ॥१९६॥
इत्यनावृतवृक्षस्यन् कार्याण्युत्थाय कण्टकान्।
उपार्य्य कोषडण्डादि साधयेद् दृढमूलताम् ॥१९७॥
उत्साहप्रभुतामन्त्रशक्तिन्त्रययुतस्तत १
परदेशजिगीषुः स्याद् विचार्य स्वपरान्तरम् ॥१९८॥
आदौ धूतान्वितं प्राज्ञेमन्त्रं कुर्यादनायतम्।
तैनिश्चितं स्वबुद्ध्या यत्सर्वाङ्गं परिशोधयेत् ॥१९९॥
सामदानाद्युपायज्ञो योगक्षेमं प्रसाधयेत्।
प्रयुञ्जीत ततः सन्धिविग्रहादीन् गुणांश्च' षट् ॥२ ०० ॥
एवं वितन्द्रो विदधत्स्ववेशपरवेदाभोः।
धिन्तां राजा जयत्येव न पुनर्जतु जीयते ॥२०१॥


१ अयं परीक्षाप्रकारः कामन्दके चतुर्थे सर्गे पञ्चत्रिंशत्तमे श्लोके समुल्लिखितः।
२ याज्ञवल्क्यस्मृतौ प्रथमाध्याये ३३८ संख्याकः श्लोको द्रष्टव्यः।
३ कामन्दके नवमे सर्गे षोडशधा सन्धिः प्रतिपादितः।