सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

७९६ कथासरित्सागर

७९६ कथासरित्सागर
दृष्ट्वा तदद्भुतं राजा किमेतदिति पृष्टवान्।
कलिङ्गसेनामातिथ्यमग्र्यं वत्सेश्वरस्तदा ॥१४७॥
सा प्रत्युवाच सर्वेषु शृण्वत्सु नृपतिं च तम्।
विश्वकर्मावतारोऽस्ति मयो नाम महासुरः ॥१४८॥
युधिष्ठिरस्य यश्चक्रे पुरं रम्यं च दक्षिण।
तस्य सोमप्रभा नाम तनयास्ति सखी मम ॥१४९॥
तया रात्राविहागत्य मत्समीपं स्वमायया।
प्रीत्या कृतमिदं दिव्यमुद्यानं मत्सुताकृते ॥१५०॥
इत्युक्त्वा यच्च सख्यास्या मूर्त्तं माभ्युदितं तया।
तत्तथैवोक्तमित्युक्त्वा तदा सर्वं शशंस सा ॥१५१॥
ततः कलिङ्गसेनोक्तिं ससंवादामवेक्ष्य_ताम्।
निरस्तसंशयाः सर्वे तोषं तत्रातुलं ययुः ॥१५२॥
कलिङ्गसेनातिथ्येन निनाय दिवसं च तत्।
उद्यानेनैव वत्सेशो भार्या पुत्रादिभि सह ॥१५३॥
अन्येद्युर्निर्गतो द्रष्टुं देवं देवकुले च सः।
ददर्श नृपतिर्बह्वी सुवस्त्राभरणाः स्त्रियः ॥१५४॥
का यूयमिति पृष्टाश्च तेन तास्तं वभाषिरे।
वयं विद्याः कलाश्चैतास्त्वत्पुत्रार्थमिहागताः ॥१५५॥
गत्वा विशाम स्तस्तान्तरित्युक्त्वा तास्तिरोऽभवन्।
सविस्मयः स राजापि वत्सेशोऽभ्यन्तरं ययौ ॥१५६॥
तत्र वासवदत्तायै देव्यै मन्त्रिगणाय च।
तच्छशंसाम्यनन्दंस्ते देवानुग्रह च तम् ॥१५७॥
ततो राजनिवेशनं वीणा वासवदत्तया।
नरवाहनदत्तेऽत्र प्रविष्टे जगृहे क्षणात् ॥१५८॥
वादयन्तीं ततस्तां च मातरं विनयेन सः।
राजपुत्रोऽब्रवीद् वीणा च्युता स्थानादसाविति ॥१५९॥
त्वं वाद्य गृहाणैतामिति पित्रोदितेऽथ सः।
वीणामवादयत् कुर्वन् गन्धर्वानपि विस्मितान् ॥१६०॥
एवं सर्वासु विद्यासु कलासु च परीक्षितः।
पित्रा यावद् वृतस्ताभिः स्वयं सर्वं विवेद सः ॥१६१॥