कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
२ कथासरित्सागर
२ कथासरित्सागर
द्वितीयस्तरङ्गः
वररुचेर्विन्ध्यवासिनीं प्रति गमनम्
ततः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन्।
नाम्ना वररुचिः किञ्च कात्यायन इति श्रुतः ॥१॥
पारं सम्प्राप्य विद्यानां कृत्वा नन्दस्य मन्त्रिताम्।
खिन्नः समाययो द्रष्टुं कदाचिद् विन्ध्यवासिनीम् ॥२॥
तपसाराधिता देवी स्वप्नादेशेन सा च तम्।
प्राहिणोद्विन्ध्यकान्तारं काणभूतिमवेक्षितुम् ॥३॥
व्याघ्रवानरसङ्कीर्ण निस्तोयपर्ण्यद्रुमे।
भ्रमंस्तत्र च स प्रांशुं न्यग्रोधतरुमग्रतः ॥४॥
वररुचेः काणभूतिना समागमः
ददर्श च समीपस्थं पिशाचानां शतैर्वृतम्।
काणभूतिं पिशाचं तं वष्मणा साह्यसन्निभम् ॥५॥
स काणभूतिना दृष्ट्वा कृतपादोपसंग्रहः।
कात्यायनो जगादेनमुपविष्टः क्षणान्तरे ॥६॥
सदाचारो भवानेव कथमेतां गतिं गतः।
तच्छ्रुत्वा कृतसौहार्दः काणभूतिस्तमब्रवीत् ॥७॥
काणभूतिरचिता शिवोक्ता कथा
स्वतो मे नास्ति विज्ञानं किं तु शर्वात्मया श्रुतम्।
उन्मथिन्यां श्मशाने यच्छृणु तत्कथयामि वः ॥८॥
कपालेषु श्मशानेषु कस्माद्देव ! रतिस्तव।
इति पृष्टस्ततो देव्या भगवानिदमब्रवीत् ॥९॥
पुरा कल्पक्षये वृत्तं जातं जलमयं जगत्।
मया ततो विधिद्योश्च रक्तबिन्दुनिपातितः ॥१०॥
जलान्तस्तवभूदण्डं तस्मादण्डेभाकलात्पुमान्।
निरगच्छत्ततः सृष्टा सर्गाय प्रकृतिर्मया ॥११॥
तौ च प्रजापतीनन्यान् सृजन्तौ प्रजाश्च ताः।
अतः पितामहः प्रोक्तः स पुमाञ्जगति प्रिये ! ॥१२॥
एवं चराचरं सृष्ट्वा विश्वं दर्पमगादसौ।
पुष्पदन्त मूर्धानमथतस्याहमच्छिदम् ॥१३॥