Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

७१४ कथासरित्सागर

Page 771Permalink

७१४ कथासरित्सागर
कलिङ्गसेना च ततः प्रविश्या वासवेश्म तत्।
स्वमनोरथमासन्नं मत्वा प्राप परां मुदम् ॥७३॥
यौगन्धरायणः सोऽपि क्षणाद्राजकुलात्ततः।
निर्गत्य स्वगृहं गत्वा धीमानेवमचिन्तयत् ॥७४॥
प्रायोऽशुभस्य कार्यस्य कालद्वारः प्रतिक्रिया।
तथा च वृत्रशत्रौ प्राग्ब्रह्महत्यापलायिते ॥७५॥
देवराज्यमवाप्तेन नहुषेणामियाचिता।
रक्षिता देव गुरुणा शची शरणमार्थिता ॥७६॥
अद्य प्राप्स्यति त्वामित्युक्त्वा कालहारतः।
यावत्स भ्रष्टो नहुषो हुङ्काराद् ब्रह्मणापतत् ॥७७॥
प्राप्तश्च पूर्ववच्छक्रः स पुनर्वैराजताम्।
एवं कलिङ्गसेनार्थे कालः क्षेप्यो मया प्रभोः ॥७८॥
इति सञ्चिन्त्य सर्वेषां गणकानां स सन्विदम्।
दूरलग्नप्रदानाय मन्त्री गुप्तं व्यघातयत् ॥७९॥
अथ विज्ञाय वृत्तान्तं देव्या वासवदत्तया।
आहूय स महामन्त्री स्वमन्दिरमनीयत ॥८०॥
तत्र प्रविष्टं प्रणतं रुदती सा जगाद तम्।
आर्य! पूर्वं त्वयोक्तं मे यथा देवि मयि स्थिते ॥८१॥
पद्मावत्या ऋते मान्या सपत्नी ते भविष्यति।
कलिङ्गसेनाप्यथैषा पश्येह परिणेष्यते ॥८२॥
सा च रूपवती तस्यामार्यपुत्रश्च रज्यति।
अतो वितथवादी त्वं जातोऽहं च मृताधुना ॥८३॥
तच्छ्रुत्वा तामवोचत्स मन्त्री यौगन्धरायणः।
धीरा भव क्व ह्येतद्देवि स्यान्मम जीवतः ॥८४॥
त्वया तु नात्र कर्तव्या राज्ञोऽस्य प्रतिकूलता।
प्रत्युतावलम्ब्य धीरत्वं दर्शनीयानुकूलता ॥८५॥
नातुष्टः प्रतिकूलोक्तैर्वशो वैद्यस्य वर्तते।
वर्तते स्वनुकूलोक्तौ साम्नैवाचरतः क्रियाम् ॥८६॥
प्रतीपं कृष्यमाणो हि नोत्तरेदुत्तरोत्तरः।
वाह्यमानोऽनुकूलस्तु नोद्योगान् व्यसनात्तथा ॥८७॥
अतः समीपमायान्तं राजानं त्वमविक्रिया।
उपचारैरुपचरेः संवृत्याकारमात्मनः ॥८८॥