Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

७२८ कथासरित्सागर

Page 785Permalink

७२८ कथासरित्सागर
गत्वा बहिदृढं निक्षिप्य भस्मस्कूटान्तरे द्रुतम्।
कबन्धं सशिरस्तं तमाययौ निभृतं ततः ॥७५॥
विष्णुदत्तश्च निर्गत्य सर्वं दूराद् विलोक्य सत्।
मध्ये सखीनां सुप्तानां प्रविश्यासीत्तथैव सः ॥७६॥
स चागत्य प्रविश्याऽत्र पत्युः सुप्तस्य दुर्जनी।
तेनैव तत्कृपाणेन तस्य मूर्धानमच्छिनत् ॥७७॥
निर्गत्य धावयन्ती च मृत्वाऽऽक्रन्दं चकार सा।
हा हतास्मि हतो भर्त्ता ममैभिः पथिभैरिति ॥७८॥
ततः परिजनः श्रुत्वा प्रधाव्यालोक्य तं प्रभुम्।
हतं तान्विष्णुदत्तादीनम्यधावन्नुदायुधः ॥७९॥
एतैश्चाहन्यमानेषु तेषु त्रस्तोत्थितेष्वथ।
अन्येषु तत्सहायेषु विष्णुदत्तोऽब्रवीद्द्रुतम् ॥८०॥
अलं वो ब्रह्महत्यामिर्नैवास्माभिरिदं कृतम्।
एतयैव कृतं ह्येतत्कुस्त्रियाऽप्रसभंस्तथा ॥८१॥
मया पाषावृतद्वारमार्गेणामूरुमीक्षितम् ।
निर्गत्य च बहिर्दृष्टं क्षमञ्चं यदि वच्मि सत् ॥८२॥
इत्युक्त्वा तान् स शबरान्विष्णुदत्तो निवार्य च।
तेभ्यो निशोथमामूलाद् वृत्तान्तं तमवर्णयत् ॥८३॥
नीत्वा चादर्शयत्तेषां कबन्धं तं शिरोऽन्वितम्।
सद्यो हृतं तया क्षिप्तं स्त्रिया सम्भिन्नवस्करम् ॥८४॥
तत स्वेन विवर्णेन मुखेनाङ्गीकृते तया।
कुलटां तां तिरस्कृत्य सर्वे तत्रैवमब्रुवन् ॥८५॥
स्मराकृष्टा तनोत्येव या साहसमशङ्किता।
सा परस्त्रीकृता कुस्त्री रूपाजीव न हन्ति कम् ॥८६॥
इत्युक्त्वा विष्णुदत्तादीन्स वांस्ते मुमुचुस्ततः।
विष्णुदत्तं च सप्तान्ये सहायास्तेऽथ तुष्टुवुः ॥८७॥
रक्षारत्नप्रदीपस्त्वं जातो नः स्वपतां निधिः।
त्वत्प्रसादेन तीर्णा स्मो मृत्युमद्यानिमिषजम् ॥८८॥
स्तुत्वैवं विष्णुदत्तं तं सम्पूज्य च दुर्वचः।
प्रगतास्ते ययुः प्रातः स्वकार्यायेव सत्वराः ॥८९॥