Skip to content
SarvaKosh
Back to the archive

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

Kathasaritsagara Part 1 (Lambaka 1–5)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

कथासरित्सागर

Page 105Permalink

४०
कथासरित्सागर

इत्युक्त्वा शकटालस्तं चाणक्यमनयद् गृहम्।
श्राद्धाहेऽदर्शयत् च राज्ञे स ददृशे च तम्॥११४॥
ततः स गत्वा चाणक्यो धुरि ग्राह उपाविशत्।
सुबन्धुनामा विप्रश्च तामच्छद्धुरमात्मनः॥११५॥
तद्गत्वा शकटालेन विज्ञप्तो मन्दभूपतिः।
अवादीन्नापरो योग्यः सुबन्धुर्धुरि तिष्ठतु॥११६॥
आगत्यतां च राज्ञाज्ञां शकटालो भयानतः।
न मेऽपराध इत्युक्त्वा चाणक्याय न्यवेदयत्॥११७॥
सोऽथ कोपेन चाणक्यो ज्वलन्निव समन्ततः।
निजां मुक्त्वा शिखां तत्र प्रतिज्ञामकरोदिमाम्॥११८॥
अवश्यं हन्त नन्दोऽयं सप्तभिर्दिवसैर्मया।
विनाश्यो वन्धनीयैषा ततो निर्मथ्युना शिखा॥११९॥
इत्युक्तवन्तं कुपिते योगनन्दे पलायितम्।
अलक्षितं स्वगेहे तं शकटाखो न्यवेशयत्॥१२०॥
तत्रोपकरणं दत्ते गुप्तं तेनैव मन्त्रिणा।
स चाणक्यो द्विजः क्वापि गत्वा कृत्यामसाधयत्॥१२१॥
तयोद्गाढोगनन्योऽथ दाहज्वरमवाप्य सः।
सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत्॥१२२॥
हत्वा हिरण्यगुप्तं च शकटालेन तत्सुतम्।
पूर्वनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता॥१२३॥
मन्त्रित्वे तस्य चाभ्यर्च्य बृहस्पतिसमं धिया।
चाणक्यं स्थापयित्वा तु स मन्त्री कृतकृत्यताम्॥१२४॥
मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः।
पुत्रशोकेन निर्विण्णः प्रविवेश महद् वनम्॥१२५॥
इति तस्य मुखाच्छ्रुत्वा विप्रस्य सुतरामहम्।
काणभूते ! गतः सर्वं सर्वमालोक्य चञ्चलम्॥१२६॥
तदाञ्चाहमिमां द्रष्टुमागता विन्ध्यवासिनीम्।
तत्प्रसादेन दृष्ट्वा स्पो स्मृता जातिर्मया मम॥१२७॥
प्राप्तं दिव्यं च विमानं मयोपेता च महावचाः।
इदानीं शीर्णपापोऽहं यतिष्ये देहमुज्झितुम्॥१२८॥
एष च मम्प्रति तिष्ठतु यावदायाति तेऽन्तिकम्।
शिष्ययुक्तो गुणाढ्याख्यस्तत्समात्रात्रयोऽसि ॥१२९॥