कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ।
८० सटीक कामसूत्रे [ २ अधिकरणे,
प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ।
यथा त्रिधा रतमवस्थापितं तथा स्थूलसूक्ष्मरूपाभ्यां प्रीतिरपि व्यवस्थापिता, किं तु तद्व्यतिरेकेणान्या अपि प्रीतयोऽस्मिञ्छास्त्रे संभवन्तीति दर्शनार्थं प्रीतिविशेषा उच्यन्ते—‘अभ्यासाद्’ इत्यादिना ।
अभ्यासादभिमानाच्च तथा संप्रत्ययादपि ।
विषयेभ्यश्च तन्त्रज्ञाः प्रीतिमाहुश्चतुर्विधाम् ॥ १ ॥
तन्त्रज्ञाः=कामसूत्रज्ञाः ॥ १ ॥
आसां लक्षणमाह—‘शब्दादिभ्य’ इत्यादिना
शब्दादिभ्यो बहिर्भूता या कर्माभ्यास लक्षणा ।
प्रीतिः साऽऽभ्यासिकी ज्ञेया मृगयाऽऽदिषु कर्मसु ॥ २ ॥
कर्मसु क्रियमाणेषु तत्रत्याञ्शब्दादिविषयानाश्रित्य या स्यात्सा विषयप्रीतिरेव कर्माभ्यासलक्षणा कर्मणां पुनः पुनरनुष्ठानमभ्यासः तेन लक्ष्यमाणत्वात्तल्लक्षणा प्रीतिः सक्तिः साऽभ्यासेन निर्वृत्ताऽऽभ्यासिकी कर्माश्रयकलाभ्यासक्तानां भवति, यदाह—मृगयाऽऽदिष्विति । आखेटकं मृगया, व्यायामकी विद्या; आदिशब्दान्नृत्यगीतवाद्यचित्रपत्रच्छेद्याद्युपसंग्रहः ॥ २ ॥
अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका ।
संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥ ३ ॥
पुरा पूर्वं कर्मस्वनभ्यस्तेष्वपीत्यपिशब्दादभ्यस्तेष्वपीति, येनापि मृगयाकर्म नाभ्यस्तमभ्यस्तं वा सोऽपि तत्कर्म कृत्वा मनसा सुखायते, आभ्यासिकी तु कर्माभ्यासादेवेति विशेषः, अविषयात्मिकेति, नापि विषयेभ्यः शब्दादिभ्य आत्मलाभः स्यादित्यर्थः, कुत स्तर्हीत्याह—सङ्कल्पाज्जायत इति, मनसः संकल्पात्मकत्वान्मानसीत्यर्थः, सा सा चैवंविधाऽऽभिमानिकीत्युच्यते, अभिमानोऽहंकारः स प्रयोजनमस्या इति ॥ ३ ॥
सा कथमस्मिञ्शास्त्रे सम्भवतांत्याह—
प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके ।
तेषु तेषु च विज्ञेया चुम्बनादिषु कर्मसु ॥ ४ ॥
तृतीया प्रकृतिर्नपुंसकं तस्याः, स्त्रियाश्च मुखचपलायाः प्रयुक्त्याऽौपरिष्टिके मुखे जघनकर्मण्यभ्यस्तेऽपि विज्ञेया, प्रयोजयितुः पुनः कायिकी विषयप्रीतः, तेषु तेषु चेति । स्वभेदभिन्नेषु चुम्बनादिषु,
१ अध्याये ] प्रीतिविशेषप्रकरणम् । ८१
आदिशब्दादालिङ्गननखदशनच्छेदग्रहणेष्वभ्यस्तेष्वनभ्यस्तेष्वपि रतिकाल प्रयोक्तुर्मानसी प्रीतिः, यस्या अपि प्रयुज्यन्ते तस्या अपि तत्र तत्र स्थाने प्रयुज्यमानेषु रागसंकल्पवशान्मानसी प्रीतिर्न कायिकी स्पर्शमात्रसंवेदनात्, दुःखाभिभूते तु काये तत्प्रीतिकारणाभावात् सा न कायिकी ॥ ४ ॥
नान्योऽयमिति यत्र स्यादन्यस्मिन्प्रीतिकारणे ।
तन्त्रज्ञैः कथ्यते साऽपि प्रीतिः संप्रत्ययात्मिका ॥ ५ ॥
स एवायमित्यर्थः, यत्र=क्व चन, अन्यस्मिन्निति । अपूर्वस्मिन्विषये पुंसि स्त्रियां वा, स एवायमिति पूर्वप्रीत्यध्यारोपणाय स्त्रियाः पुंसो वा चित्तवृत्तिः, प्रीतिकारण इति। प्रीतिहेतावध्यारोपननिबन्धनमेतत्, पूर्वप्रीतस्य ये गुणाः प्रीतिहेतवस्तेऽत्रापि सन्तीति दर्शयति, एवं च सा पूर्वप्रीतिः संप्रत्ययादुत्पन्नस्वभावत्वात्संप्रत्ययात्मिका, तन्त्रज्ञैः=कामसूत्रविद्भिः, कथ्यते, तथा च 'प्रियासादृश्यं गमनकारणम्, इति वक्ष्यति॥५॥
प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका ।
प्रधानफलवत्त्वात्सा तदर्थाश्चेतरा अपि ॥ ६ ॥
शब्दादिविषयाननुकूलानलम्ब्य श्रोत्रादिद्वारेण या प्रीतिरुत्पद्यते सा विषयव्यवसायानुगतत्वात्प्रत्यक्षा सती लोकत एव सिद्धत्वान्नात्र लक्षणाभिनिवेशः, सा चैवंविधा नित्यनैमित्तिकनागरकवृत्ते द्रष्टव्या, प्रधानफलवत्त्वात्सेति । साक्षाद्विषयोपभोगफलेन युक्तत्वादित्यर्थः, इतरा अपि तिस्रस्तदर्थाश्चेति, विषयप्रीत्यर्था एव तदङ्गत्वात्, चशब्द-एवकारार्थः ॥ ६ ॥
प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः ।
यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ॥ ७ ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं, प्रीतिविशेषा इति प्रथमोऽध्यायः ।
आदितः षष्ठः ।
चतस्रः शास्त्रतः परामृश्य निरूप्य, शास्त्रलक्षणा इति । तेषु तेषु स्थानेषु शास्त्रेणानेन लक्ष्यमाणत्वात्, यो यथा वर्तते भाव इति । कर्माभ्यासादीनां चतुर्णां प्रकाराणां येन प्रकारेण योऽभिप्रायो वर्तते स तेनैव
११ का० सू०
८२ सटीक कामसूत्रे [ २ अधिकरणे,
प्रकारेण वर्तयेत् तज्जन्यप्रीत्यर्थमेव, तथा हि-अतथाप्रवर्तनादनीप्सिता प्रतिरप्रीतिरेव स्यात् ॥ ७ ॥
इति प्रीतिविशेषाः सप्तमं प्रकरणम् ।
आदितः षष्ठ इति । प्रथमाध्यायात्प्रभृति षष्ठोऽयमित्यर्थः, एवमुत्तरत्रापि योज्यम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषाः प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः ।
एवं रतमवस्थाप्य तदङ्गभूतां चतुःषष्टिं निर्दिदिक्षुराह—
संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते चतुःषष्टिप्रकरणत्वात् ॥ १ ॥
संप्रयोगस्य चतुःषष्ट्यात्मकत्वात्तस्याङ्गं चतुःषष्टिरित्याचक्षते पूर्वाचार्यास्तस्मात्तां वक्ष्यामः ॥ १ ॥
तत्र चतुःषष्टिशब्दः शास्त्रे तदेकदेशे वा वर्तते, उभयथाऽपि व्यवहाराङ्कमिति दर्शयन्नाह—
शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥ २ ॥
शास्त्रमेवेदमिति । इदमिति शास्त्रमाह, तच्च संप्रयोगस्याङ्गम्, तदुपायस्य तन्त्रावापाख्यस्य प्रकाशनात्, आचार्यवाद इति । शब्दविदो ह्याचार्या एवंविधमेव किञ्चिन्निमित्तमाश्रित्य चतुःषष्टिशब्दस्य प्रवृत्तिं वदन्ति तच्चेहाप्यस्तीति ॥ २ ॥
शास्त्रैकदेशे वा विद्यासमुद्देशे वर्तत इत्याह—
कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति ॥ २ ॥
अत्र हि गीतादयः कलाश्चतुःषष्टिरुक्ताः, ततस्तत्समूहो वा संप्रयोगाङ्गम् ॥ ३ ॥
ऋचां दशतयीनां च संज्ञितत्त्वादिहापि तदर्थसंबन्धात् पञ्चालसंबन्धाच्च बह्वृचैरेषा पूजाऽर्थे संज्ञा प्रवर्तितेत्येके ॥ ३ ॥
चतुःषष्टिः सांप्रयोगिके वा शास्त्रकदेशे वर्तते तत्र हि पाञ्चालिकी चतुःषष्टिः कथ्यते, कथं ताश्चतुःषष्टिरित्याह-दशतयीनां चेति । दशावयवा मण्डलानि यासामृचाम्, इत्यवयवे तयप्, दशतय्यस्ताश्चतुःषष्टिरि-
२ अध्याये ] उपगूहनविचारप्रकरणम्। ८३
ति संज्ञिताः, इहापीति । संप्रयोगाङ्गे, तदर्थसम्बन्धादिति । दशावयवमण्डलार्थसम्बन्धात्, चतुःषष्टिरिति संज्ञा प्रवर्तत इति सम्बन्धः, संप्रयोगाङ्गं हि दशावयवम्, यथोक्तम्—
'आलिङ्गनं चुम्बनदन्तकर्मनखक्षतं सीत्कृतपाणिघातम् ।
संवेशनं चोपसृतौपरिष्ट्रं नरायितं चेति दशाङ्गमाहुः' ॥ इति,
पञ्चालसम्बन्धाच्च प्रवर्तिता, पञ्चालेन महर्षिणा ऋग्वेदे चतुःषष्टिर्निगदिता, बाभ्रव्येणापि पाञ्चालेन स्वकृते सांप्रयोगिकेऽधिकरणआलिङ्गनादय उक्ताः, ततश्च द्वयोरप्येकगोत्रनिमित्तसाम्येन पाञ्चालेन निगदनात्सम्बन्धोऽस्ति, पूजाऽर्थेति । उभयोरपि पक्षयो ऋग्वेदैकदेशवर्त्तिन्यपि संज्ञा बहुऋचैरभीष्टाचारैरालिङ्गनादिषु पूजार्था प्रवर्त्तितेति के चिदाहुः, "तत्पूजां च वक्ष्यति—
'विद्वद्भिः पूजितामेतां खलैरपि सुपूजिताम् ।
पूजितां गणिकासंघैर्नन्दिनीं को न पूजयेत्' ॥ इति ॥ ४ ॥
आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्कृतपुरुषायितौपरिष्टिकानामष्टानामष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः ॥ ५ ॥
आलिङ्गनेत्यादि । बाभ्रव्यस्य शिष्याः पुनरन्वर्थतामाहुः-अष्टधा विकल्पभेदादिति । एकैकस्याष्टधा विकल्पभेदादित्यर्थः, ततश्चाष्टौ सन्तोऽष्टगुणा अष्टावष्टकाश्चतुःषष्टिः ॥ ५ ॥
विकल्पवर्गाणामष्टानां न्यूनाधिकत्वदर्शनात्प्रहरणविरुतपुरुषायितचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्प्रायोवादोऽयं-यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः ॥ ६ ॥
विकल्पेति । न्यूनाधिकत्वदर्शनादिति । आलिङ्गनादीनां ये विकल्पवर्गा वक्ष्यमाणास्तेषां, कस्यचिदुनत्वं दृश्यते पुरुषायितस्य, केषाञ्चिदाधिक्यमेवालिङ्गनादीनाम्, ततश्च नाष्टावष्टावेव, विकल्पवर्गाणामष्टानांन्यूनाधिकत्वदर्शनाद्, अन्येषामपीति । प्रकृतत्वाच्चुम्बनादीनाम्, तेभ्योऽन्येषामपि प्रहरणविरुतपुरुषोपसृतचित्र रतादीनामिति सम्बन्धः, न तु प्रहरणादिभ्यश्चतुर्भ्योऽन्येषामपीति तेषामसम्भवाद्, इहेति । 'अष्टवर्गे प्रवेशनादेतान्यपि हि संप्रयोगोऽपेक्षते, ततश्च नाष्टावेवाष्टधा, कथंतर्ह्युक्तमित्याह-प्रायोवादोऽयमिति । प्रायिकमेतद्वचनम् , कथमित्याह-यथेति । पर्णानां न्यूनत्वेऽपि पर्णानां च बहुत्वेऽपि बाहुल्येन क्व चिद्-
८४ सटीक कामसूत्रे [ २ अधिकरणे,
र्शनात्तद्यपदेशो रूढिवशात्, तथाऽष्टानां बाहुल्येनाष्टधा भेदात्तद्यपदेशो-
नाष्टावेवेति ॥ ६ ॥
तत्र शास्त्रस्य चतुःषष्ट्याः प्रस्तुतत्वात्कलासमूहस्य च विद्यासमु-
द्देशे समुद्दिष्टत्वात्पाञ्चालिकीं चतुःषष्टिमाह-तत्रालिङ्गनपूर्वकत्वाच्चुम्ब-
नादीनामालिङ्गनविचारा उच्यन्ते, विचाराश्च कालस्वरूपाभ्याम्,
तत्रालिङ्गनमसमागते समागते च, तत्र पूर्वमधिकृत्याह—
तत्रासमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयं स्पृष्ट-
कं, विद्धकम्, उद्घृष्टकम्, पीडितकमिति ॥ ७ ॥
असमागतयोरिति । असंघटितपूर्वयोः संजिघटियिष्वोः, प्रीतिलिङ्ग-
द्योतनार्थमिति । अनुरागस्य लिङ्गिनः, स्पृष्टकादि लिङ्गम्, तत्प्रकाशनात्,
तदभियोगकाले द्रष्टव्यम्, स्पर्शगोचरे सति तदभावे सति संक्रान्तक-
माभियोगिकं वक्ष्यति ॥ ७ ॥
सर्वत्र संज्ञाऽर्थेनैव कर्मातिदेशः ॥ ८ ॥
सर्वत्रेति । चुम्बनादिष्वपि संज्ञाऽर्थेन कर्मातिदेश इत्यन्वर्थतां दर्शयति,
स्पृष्टकादिसंज्ञानां प्रवृत्तिनिमित्तार्थः स्पर्शनादिकः, तेनैव कामातिदेश-
इदमेव कार्यमिति ॥ ८ ॥
संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गा-
त्रस्य स्पर्शनं स्पृष्टकम् ॥ ९ ॥
संमुखागतायामिति । नायिकायामभिमुखमागतायाम्, प्रयोज्याया-
मिति, आलिङ्गनादि प्रयोजयितुं, तत्र वा प्रयोक्तुं या शक्यते, अन्यापदे-
शेनेति । अन्यदपदिश्यागच्छतः प्रयोक्तुः, यथाऽन्यो न जानाति बुद्धि-
कारितमस्येति, गात्रेण स्वगात्रस्य प्रयोज्यायाः स्पर्शनमिति संज्ञात्वेन
कर्मातिदिशति, पृष्टकमिति 'नपुंसके भावे क्तः । ३ । ३ । १४ । पश्चात्
'संज्ञायां कन्' ।५।३।८७। एवमुत्तरत्रापि योज्यम्, अस्याः संमुखागते
नायके नायिकाऽपि प्रयोक्त्री ॥ ६ ॥
प्रयोज्यं नायिका स्थितमुपविष्टं वा विजने किंचिद् गृह्णती पयो-
धरेण विध्येन्नायकोऽपि तामवपीड्य गृह्णीयादिति विद्धकम् ॥१०॥
नायिका प्रयोक्त्री प्रयोज्यं नायकं स्थितमुपविष्टं वा न गच्छेत् तत्प्र-
थोक्तुमप्रयोगात्, न संविष्टम् असंगतत्वाद् विजने, अन्यत्र तु स्तनप्रदर्श-
नस्यापि दुर्लभत्वात्, अथ व्यधनोपायमाह-किञ्चिदिति । तद्धस्तात्तत्स-
मीपे वा किञ्चिदर्थजातमाददाना, पयोधरेणेति । शृङ्गारित्वात् स्तनग्रहण-
नस्य । स्वेनांसकूर्दादिनाऽपविध्येदिति वक्षसि पृष्ठपार्श्वयोर्वा यथास-
२ अध्याये ] उपगूहनविचारप्रकरणम् । ८५
म्भवं प्राप्तेष्वङ्गेषु सा तमाक्षिपेदित्यर्थः, नायकोऽप्यपविध्यमानस्तां तथा बहुशो व्याप्रीयमाणां पार्श्वयोस्तद्भावित्वात्स्तनप्रहणनस्य स्वेनांसकूटेनांपविध्येदिति वक्षसि पृष्ठे पार्श्वयोरेकेन बाहुपाशेन पुरस्ताद् द्वाभ्यां पृष्ठतश्च प्रतिनिवृत्ताभ्यामवपीड्य गृह्णीयाद् , यथा कथञ्चिदनुरागं मयि यदि प्रकाशेत मामपविध्यतीति, एवं च द्वयोः स्तनस्य शल्यवदन्तःप्रविष्टत्वाद्बिद्धकं भवतीति, क्षेपणं तु केवलमपविद्धकं नाम तदेकंशत्वादत्रैवान्तर्गतम् , अस्य नायिकैव प्रयोक्त्री, विद्धकस्योभयजन्यत्वाद् द्वावपि, तथा चोक्तम्—
'विचेष्टितापविद्धेन कामिनी स्तनशालिनी।
विद्धकेनेतरस्तत्र कचाकर्षणकर्मणि'॥ इति ॥ १०॥
तदुभयमनतिप्रवृत्तसंभाषणयोः ॥ ११ ॥
तदुभयमिति । स्पृष्टकं विद्धकं च, अनतिप्रवृत्तसम्भाषणयोरेवासमागतयोः, तत्रोभयस्य साधयितुं शक्यत्वाद्, अतिप्रवृत्तसम्भाषणयोस्तु न सिद्धमेव, अप्रवृत्तसम्भाषणयोः पुनः साधयितुमशक्यत्वादशक्यमेव विज्ञेयम् ॥ ११ ॥
तमसि जनसंबाधे विजने वाऽथ शनैर्गच्छतोर्नातिह्रस्वकालमुद्घर्षणं परस्परस्य गात्राणामुद्घृष्टकम् ॥ १२ ॥
जनसंबाध इति । जनसंकुले, अन्धकारादिषु शङ्काऽभावात्प्रयोगसौकर्यम्, तथा शनैर्गमनमपि युक्तम्, एवं च सति नातिह्रस्वकालं चिरकालमुद्धर्षणं सिद्धं भवति, परस्परस्येति । नायकगात्रेण नायिकागात्रस्य तद्गात्रेण चेतरगात्रस्य घर्षणमुद्घृष्टकमुभयजन्यम्, एकनिष्पाद्यं तु घृष्टकं नाम तत्रैवान्तर्गतम् ॥ १२ ॥
तदेव कुड्यसन्दंशेन स्तम्भसन्दंशेन वा स्फुटक मवपीडयेदिति पीडितकम् ॥ १३ ॥
तदेवेति । उद्घृष्टकं पीडितकं भवति, कथमित्याह—कुड्यसन्दंशेनेति । सन्दंश उभयतो ग्रहणम्, अर्थात्नायकः परतः कुड्यं स्तम्भो वा, तेन स्फुटकं दृढमवपीडिते सति तत्पीडितकमेकजन्यमेव द्विविधम् ॥ १३ ॥
तदुभयमवगतपरस्पराकारयोः ॥ १४ ॥
उभयमुद्घृष्टकं पीडितकं च द्रष्टव्यम्, अवगतपरस्पराकारयोरिति । गृहीतान्योन्यभावयोः समागतयोः, पूर्वस्मादनयोरधिकोपक्रमत्वाद्, अगृहीताकारयोस्तु नैवेत्यर्थोक्तम् ॥ १४ ॥
८६ सटीके कामसूत्रे [ २ अधिकरणे,
लतावेष्टितकं वृक्षाधिरूढकं तिलतण्डुलकं क्षीरनीरकमिति च-
त्वारि संप्रयोगकाले ॥ १५ ॥
संप्रयोगकाल इति । कृतार्द्रीकरणयोस्तु समागतयोः संप्रयोगः, तत्काले चत्वार्युपगूहनानि, तत्राद्ययोरेकजन्यत्वेऽपि नायिकैव प्रयोक्त्री तदनुरूपत्वात् , शेषयोरुभयजन्यत्वादुभावपि ॥ १५ ॥
लतेव शालमावेष्टयन्ती चुम्बनार्थं मुखमवनमयेदुद्धृत्य म-
न्दसीत्कृता तमाश्रिता वा किञ्चिद्रामणीयकं पश्येत् तल्लुतावेष्टि-
तकम् ॥ १६ ॥
लतेव शालमिति । यथा लता वृक्षमवेष्टते तद्वन्नायिका नायक-
म्(१)र्ध्वस्थितमभिमु(२)खं कक्षयोः कण्ठे बाहुलताभ्यामावेष्टयेति च(३)
तुर्विधं लतावेष्टितकम्, चुम्बनार्थिनी तन्मुखमवनमयेद्, नायकवृक्षस्थो-
च्चत्वात् , तथा श्लिष्टाभ्यामेव बाहुपाशाभ्यां तच्छरीरावनमनान्मुखम-
वनमितं भवति, अनेन प्रयोगफलं दर्शयति, अत्र प्रयोक्त्र्याः चुम्बनफल-
स्यापरस्य विवक्षितत्वाद्, मौलन्तु फलं प्रयोगः, स यद्रागस्य जननं
वर्धनं च, मन्दसीत्कृतेति । सीत्कृतं वक्ष्यति तन्मन्दं यस्याः, उल्बण-
स्य रागकालभावित्वाद् , अनेन प्रयोगसंस्कारमाह, प्रयोगान्तरपरि-
ष्कृतं सुतरां मनोहारि स्यात् , तमाश्रिता वेति द्वितीयं फलम्,
यद्वा तथैव नायकमार्शिता, अन्यत्र आलेख्यादेस्तन्मुखस्य दशनपदा-
ङ्कितस्य वा रामणीयकमुन्मुखी पश्येत्तल्लुतावेष्टितमिव लतावेष्टितकम्,
प्रतिकृतौ कन् ॥ १६ ॥
चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती वा
तत्पृष्ठसक्तैकबाहुर्द्वितीयेनांसमवनमयन्तीषन्मन्दसीत्कृतकूजिता चु-
म्बनार्थमेवाधिरोढुमिच्छेदिति वृक्षाधिरूढकम् ॥ १७ ॥
चरणेनेति । स्वेन चरणेन नायकस्य चरणमाक्रम्य; द्वितीयेन च(४)-
(१) शयनसमये ।
(२) स्थितानुपवेशे च ।
(३) कक्षाश्लिष्टबाहुकं कण्ठाश्लिष्टबाहुकं चेति द्विधा । द्वयमप्यूर्ध्वस्थितावभिमुख-
स्थितौ चेति चतुर्विधम् , यद्यपि स्थित्युपवेशनावान्तरभेदकादरेणाभिमुखपक्षत एव चा-
तुर्विध्यादूर्ध्वस्थितेतस्तु षाड्विध्यप्रसक्त्या चतुर्विधोक्तिरसंगतैव स्यात्तथाऽपि स्थितोपविष्टा-
वभिमुखत्वेनानुगमय्य सोक्तिः संगमनीया, इदमपि फलस्य भेदकत्वाविवक्षापक्षेऽन्यथा तु
चुम्बनरामणीयकदर्शनभेदादष्टत्वं द्वादशत्वं वा स्यादिति भावः ।
(४) उत्तरकल्पविभेदार्थं नायकपादान्तरा निवेशितेनेतिभावः ।