सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

इति नायकसहायदूतककर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः ।

६२ सटीकं कामसूत्रे [ १ अधिकरणे,

तत्रापि यदि दूतस्य गुणाः स्युरतो गुणतो विमृश्यते—

पटुता धाष्ट्र्यमिङ्गिताकारज्ञताऽनाकुलत्वं परमर्मज्ञता प्रमा-
णता प्रतारणं देशज्ञानं कालज्ञता विषयबुद्धित्वं लघ्वी प्रतिपत्तिः
सोपाया दूतगुणाः ॥ ४० ॥

पटुता प्रज्ञाऽनुबद्धया वाचा वक्तुं कुशलता, धाष्ट्र्यं प्रागल्भ्यमिति, इङ्गितमन्यथा वृत्तिः, आकारो वदननयनादिगतविकारः, तज्ज्ञतया तद्- नुरूपमनुतिष्ठति, कालज्ञता; कालेऽस्मिन्प्रोत्साहयितुं शक्यत इति, विष- ह्या विमर्शक्षमा बुद्धिर्यस्येति विगृह्य भावप्रत्ययेन योज्यः, लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति, कार्यं विमृश्य तदेवोपायपूर्वकमनुष्ठानं न कार्यातिपातनम् ॥ ४० ॥

इदानीमधिकरणार्थानुष्ठाने फलं प्रयोजनं चाह—

भवति चात्र श्लोकः—

आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् ।
अलभ्यामप्ययत्नेन स्त्रियं संसाधयेन्नरः ॥ ४१ ॥

इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
नायकसहायदूतककर्मविमर्शः पञ्चमोऽध्यायः ।

आत्मवानिति । तत्र त्रिवर्गप्रतिपत्त्या विद्यासमुद्देशेन चात्मन्याहित- गुणत्वादात्मवान्, सहायविमर्शेन मित्रवान्, युक्त इति । नागरकवृ- त्तानुष्ठानेन युक्तः स्वकर्मनिष्ठः, भावज्ञो नायकस्य नायिकायाश्च विमर्शेन तत्स्वरूपज्ञ इत्यर्थः, दूतककर्मचित्तपरिमर्शनेनेति फलम्, अलभ्यामप्यय- त्नेन स्त्रियं विपरिमर्शितां साधयत इति फलप्रयोजनम्, एवंभूतस्य हि स्त्रीसाधनयोग्यत्वाद् ॥ ४१ ॥

इति नायकसहायदूतककर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां-
साधारणे प्रथमेऽधिकरणे नायकसहायदूतककर्मविमर्शः पञ्चमोऽध्यायः ।


समाप्तं चेदं साधारणं प्रथममधिकरणम् ।

सांप्रयोगिकं द्वितीयमधिकरणम्।

प्रथमोऽध्यायः।

स्त्रियं साधयत इत्युक्तं, स्त्रीसाधनं चावापः स चाविज्ञातशास्त्रस्य न युज्यत इत्यावापात्प्राक्तन्त्रं सांप्रयोगिकमुच्यते, तत्रापि संप्रयोगे प्रथमं-रतं, तस्मिन्प्रमाणादिभिर्ज्ञातस्वरूपे यथायथमालिङ्गनादयः प्रयुज्यमाना-रत्यर्था इति प्रमाणकालभावेभ्यो रतावस्थापनमुच्यते, हेतौ पञ्चमी, प्रमाणादिना तस्य व्यवस्थापनमित्यर्थः, तत्र लिङ्गसंयोगाद्भावकालाविति ताभ्यामपि प्राक्प्रमाणतस्तावद्रतावस्थापनमाह—

शशो वृषोऽश्व इति लिङ्गतो नायकाविशेषाः ॥ १ ॥

लिङ्गत इति। लिङ्ग्यन्ते स्त्रीत्वादयोऽनेनेति लिङ्गम्, लोकप्रतीत्या लिङ्गं मेहनमुच्यते, तत्र पौंस्नमुन्नतं स्त्रीणां निम्नं, प्रमाणं च शास्त्रव्यवहारयोः, अल्पात्पौंस्नाच्छश इव शशः, तथा समाद्वृषः, महतोऽश्वः, इति नायकभेदाः ॥ १ ॥

नायिका पुनर्मृगी वडवा हस्तिनी चेति ॥ २ ॥

नायिका पुनरिति। पुनःशब्दो विशेषणार्थः, लिङ्गस्य भिन्नत्वात्संज्ञाभेदः प्रयुज्यत इति पूर्वाचार्यैर्मृग्यादिभिरुपमिताः, न शशादिभिः, तथा चाहुर्लक्षणम्—

‘षण्णव द्वादशेत्येवमायामेन यथाक्रमम्।
शशादिभेदभिन्नानां त्रिधा साधनसंस्थितिः ॥
परिणाहेन तुल्या स्यादायामस्य प्रमाणतः।
नियता नेति, के चित्तु परिणाहे प्रचक्षते ॥
स्त्रीणां साधनमार्गोऽपि तद्वदेव प्रभिद्यते।
आयामपरिणाहाभ्यां मृग्यादीनां शशादिवत् ॥ इति ॥ २ ॥

तत्र सदृशसंप्रयोगे समरतानि त्रीणि ॥ ३ ॥

तत्रेति। नायकस्य नायिकायाश्च भेदे, सदृशो विसदृशो वा संप्रयोगः स्यादित्याह—सदृशसंप्रयोग इति। शशस्य मृग्या, वृषस्य वडवया, अश्वस्य हस्तिन्या सह सदृशः सम्प्रयोगो रन्ध्रेन्द्रियसमाप्तिलक्षणः, अल्पत्वादिभिर्लिङ्गसादृश्यात्, तस्मिन्सति त्रीणि समरतानि, रन्ध्रसाधनयोराश्रयाश्रयिभावेन यन्त्रसाम्यात् ॥ ३ ॥

६४ सटीक कामसूत्रे [ २ अधिकरणे,

विपर्ययेण विषमाणि षट् ॥ ४ ॥

शशस्य वडवया हस्तिन्या च, वृषस्य मृग्या हस्तिन्या च, अश्वस्य मृग्या वडवया चेति विसदृशः संप्रयोगः, लिङ्गवैषम्यात्, तस्मिन्सति षड् विषमाणि रतानि यन्त्रवैषम्यात् ॥ ४ ॥

विषमेष्वपि रतेषु व्यवहारार्थं विशेषसंज्ञामाह—

विषमेष्वपि पुरुषाधिक्यं चेदनन्तरसंप्रयोगे द्वे उच्चरते ॥ ५ ॥

पुरुषाधिक्यं चेदिति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रिया न्यूनत्वं तदाऽनन्तरो व्यवहितो वा संप्रयोगः स्यात्, तत्राश्वस्य वडवया वृषस्य मृग्येति त्रैलोम्येऽनन्तरसंप्रयोगः, तस्मिन् समरताद् द्वे उच्चरते, साधनस्योच्चतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् ॥ ५ ॥

व्यवहितमेकमुच्चतररतम् ॥ ६ ॥

व्यवहितमिति । अश्वस्य मृग्या सह व्यवहितसंप्रयोगः, वडवया व्यवधानात्, तस्मिन्सति उच्चरतादुच्चतररतम्, साधनस्यात्युच्चतया निष्पीडितेन कथं चिद्व्यापारात् ॥ ६ ॥

विपर्यये पुनर्द्वे नीचरते ॥ ७ ॥

विपर्यये द्वे, पुनरिति, पुनःशब्दो विशेषणार्थः, स्त्रिया आधिक्ये त्वनन्तरसंप्रयोगे शशस्य वडवया, वृषस्य हस्तिन्येत्यानुलोम्येन समरताद् द्वे नीचरते, साधनस्य निकृष्टतया रन्ध्रं सम्यगनवपूर्य्य व्यवहारात् ॥ ७ ॥

व्यवहितमेकं नीचतररतं च ॥ ८ ॥

व्यवहिते वडवयाऽन्तरिते संप्रयोगे शशस्य हस्तिन्या सहेति नीचरतान्नीचतररतम्, तत्रानवपूर्य्यैव व्यवहारात् ॥ ८ ॥

एषामुत्तमादीन्याह—

तेषु समानि श्रेष्ठानि ॥ ९ ॥

तेष्विति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्रशस्तानि, तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् ॥ ९ ॥

तरशब्दाङ्किते द्वे कनिष्ठे ॥ १० ॥

तरशब्दाङ्किते कनिष्ठे, उच्चतरनीचतरशब्दाङ्किते अधमे, अत्र यन्त्रस्यातिपीडनादतिशैथिल्याच्च स्पर्शसुखस्याभावात् ॥ १० ॥

शेषाणि मध्यमानि ॥ ११ ॥

शेषाणि चत्वारि, उच्चरते द्वे नीचरते द्वे मध्यमानि, श्रेष्ठकनिष्ठत्वाभावात्, तत्र ह्यनतिपीडनादनतिशैथिल्याच्च स्पर्शसुखस्य समत्वात् ॥ ११ ॥

१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ६५

तत्रापि मध्यमानां विशेषमाह-

साम्येऽप्युच्चाङ्कं नीचाङ्गाज्ज्याय इति प्रमाणतो नव रतानि ॥१२॥

ज्येष्ठकनिष्ठत्वाभावाद्रतस्य साम्येऽपि माध्यस्थ्येऽपीत्यर्थः, उच्चाङ्कं नीचाङ्गाज्ज्याय इति । उच्चरते हि योषित उत्फुल्लकादिना प्रसार्य जघनं संविष्ठायाः साधनाधिक्यात्कण्डूतिप्रतीकाराधिकलाभः, नीचरते तु सम्पुटकादिनाऽवहासितजघनाया अपि न तत्प्रतीकारोऽस्ति ।

यथोक्तम्-

तन्वल्पसाधनः कामी चिरकृत्योऽपि वा नरः ।
कण्डूतेरप्रतीकारान्नातिस्त्रीप्रिय उच्यते' ॥ इति ॥ १२ ॥

भावतो रतावस्थापनमाह-

यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न सहते स मन्दवेगः ॥ १३ ॥

भावतो हि कालस्य पश्चाद्भावित्वात्फलरूपाभावात्तस्यापरिच्छेदात्, तथा हि-हेतुफलभेदादत्र द्विविधो भावः, तत्र कामिताऽऽख्यो हेतुः, तस्मिन्सति संप्रयोगाद् रतान्ते च भावः फलम्, तस्मादुभयरूपाद्रतमवस्थाप्यते, स च मृदुमध्यमातिमात्रभेदात्त्रिविधः, तत्र यस्य संप्रयोगेरुच्छा मनाग्भवति रतिर्वा, वीर्यमल्पं संप्रयोगे मन्दो व्यापारः शुक्रधातुर्वा स्तोकः, क्षतानि च नायिकया दन्तनखैः प्रयुज्यमानानि, उपलक्षणत्वात्प्रहरणं च न सहते य इत्यर्थाद्विभक्तिविपरिणामः स मृदुभावत्वान्मन्दवेगो मृदुराग इत्यर्थः ॥ १३ ॥

तद्विपर्यये मध्यमचण्डवेगौ भवतः ॥ १४ ॥

तद्विपर्यय इति । यथोक्तस्य विपर्यये; यस्य संप्रयोगे प्रीतिर्मध्या वीर्यं मध्यं क्षतानि च यः सहते स मध्यमभावत्वान्मध्यवेग इत्येको विपर्ययः, संप्रयोगे प्रीतिरधिका वीर्यं महत् क्षतानि चात्यर्थं सहते सोऽधिकभावत्वाच्चण्डवेग इति द्वितीयो विपर्ययः ॥ १४ ॥

तथा नायिकाऽपि ॥ १५ ॥

तथेति । पुरुषवद्, यस्य संप्रयोग इत्यादिना मन्दमध्यचण्डवेगा इति नायिकास्तिस्रः ॥ १५ ॥

अत्रापि प्रमाणवदेव नव रतानि ॥ १६ ॥

अत्रापीति । भावेऽपि, प्रमाणवदेवेति । सदृशसम्प्रयोगे समरतानि त्रीणि, विपर्यये विषमाणि षट् ॥ १६ ॥

तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥ १७ ॥

९ का० सू०

६६ सटीके कामसूत्रे [ २ अधिकरणे,

तद्वदिति। यथा भावप्रमाणाभ्यां तथा कालतो नव रतानि, भावोत्पत्तिनिमित्तस्य कालस्य शीघ्रादिभेदेन त्रैविध्याद् यदाह-“शीघ्रमध्यचिरकालाः” इति, शीघ्रेण कालेन रतिर्यस्य, तथा मध्यचिरकालाभ्याम्, नायका इति। नायकश्च नायिका चेति 'पुमान्स्त्रिया' । १ । २ । ७ । इत्येकशेषनिर्देशः ॥ १७ ॥

तत्र स्त्रियां विवादः ॥ १८ ॥

तत्रेति। नायकयोः स्त्रीपुंसयोः, स्त्रियां विवादः, स्त्रीविषये मतभेद इत्यर्थः ॥ १८ ॥

तत्रौद्दालकेर्मतम्—

न स्त्री पुरुषवदेव भावमधिगच्छति ॥ १९ ॥

यादृशं सुखं विसृष्टिप्रभवं पुरुषोऽनुभवति तादृशमेव न स्त्री, शुक्राभावात् ॥ १९ ॥

किमर्थं तर्हि पुरुषेण संप्रयुज्यत इत्याह—

सातत्याच्चस्याः पुरुषेण कण्डूतिरपनुद्यते ॥ २० ॥

सम्बाधकस्य स्वभावतः कृमिजुष्टत्वात्तत्र निसर्गसिद्धा कण्डूतिः, तथा चोक्तम्—

रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः ।
स्मरसद्मसु कण्डूर्ति जनयन्ति यथाबलम् ॥

सा त्वस्याः पुरुषेणापनीयते, सातत्यादिति। अनवरतसाधनव्यापारेणेत्यर्थः, अन्यथा तत्प्रतिबन्धे कण्ड्वा उत्कोप एव स्यात् ॥ २० ॥

अपरद्रव्येणापि सा स्वयमपनयतीति चेदाह—

सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति ॥ २१ ॥

सेति। सा च कण्डूतिरपनीयमाना शलाकिकया कर्णकण्डूतिरिव, आभिमानिकेनेति। आभिमानिकं चुम्बनादिसुखं वक्ष्य(१)ति, तेन संसृष्टाऽनुगता, रसान्तरमिति। सुखान्तरं जनयति, यत्कण्डूत्यपनोदसुखं यच्च चुम्बनादिसुखं तयोः संसृष्टयो रसान्तरत्वात् ॥ २१ ॥

तस्मिन्सुखबुद्धिरस्याः ॥ २२ ॥

तस्मिन् रसान्तरे सुखबुद्धिरस्याः सुखिताऽस्मीति, कण्डूतिप्रतीकारमात्रे तु न सुखबुद्धिः, तस्याप्राधान्यात्, ततः 'स्पर्शविशेषविषयाऽऽ-


(१) “आलिङ्गनचुम्बननखच्छेद्ये”त्यादिनाऽग्रिमेणैतदधिकरणस्थद्वितीयाध्यायगतेन बाभ्रव्यमतीयेन सूत्रेण।

१ अध्याये ] प्रमाणकालभावैरतावस्थापनप्रकरणम् । ६७

भिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः' प्राधान्यादित्येतद्विशेषल-(१)क्षणं न तुल्य(२)म्, विशेषो यदत्र न फलवती, शुक्राभावात्, तच्च रसान्तरमारम्भात्प्रभृति सन्तानेन सर्वथा कण्डूत्यपनोदात्प्रवर्तते पुरुषसुखं तु विसृष्टिभावित्वाद्, अत एव तयोः स्वरूपतः कालतश्च न सादृश्यमिति न कालभावाभ्यां नव रतानि ॥ २२ ॥

पुरुषप्रीतेश्चानभिज्ञत्वात् ॥ २३ ॥

न च पुरुषवद्रतिं स्त्री नाधिगच्छतीति कथमेतदुपलभ्यते, यस्मात्पुरु(३)षप्रीतेश्चेतोधर्मत्वेनातीन्द्रियायाः प्रत्यक्षेणानभिज्ञत्वात्, कस्य धातुः पुरुष(४)स्येत्यर्थः, चशब्दात्स्त्रीप्रीतेश्च ॥ २३ ॥

यदा स्त्री पुरुषायमाणा स्वव्यापारेणात्मनः प्रीतिं जनयति तत(५)श्च तद्(६)संवेदनादेव स्वभा(७)वाद्रीतिरस्त्या इति कथमुपलभ्यते, पृष्ट्वा ज्ञास्यतीत्यपि नास्तीत्याह—

कथं ते सुखमिति प्रष्टुमशक्यत्वात् ॥ २४ ॥

कथमिति। कथं केन प्रकारेण तव सुखं, किं विसृष्ट्या यथाऽस्माकं, किं वाऽन्येनेति, तत्र स्त्रिया विसृष्टिसुखस्यासंवेदनात्प्रकारान्तरसु-


( १ ) भावादिविपर्यया रतिरतत्र लक्ष्या, लक्षणेऽर्थपदं च भङ्क्त्वा स्पर्शविशेषपरम्, तथा च स्पर्शविशेषविषयकाभिमानिकसुखविषयकफलविशिष्टप्रतीतिविषयत्वं प्रकृते रतित्वं-फलति, एवं च विषये विषय्युपचारेण निर्देशेन लक्षणं नासङ्गतम् , तस्य यथाश्रुतार्थकत्वे त्वसङ्गतिः प्रकृतानुपयोगश्च, फलं चेच्छाऽन्तरानधीनेच्छाविषयरूपं विसृष्टिप्रभवसुखं प्रकृते, तद्वैशिष्ट्यं च विषयितया, प्रतीतिश्च साक्षात्कृतिरूपा, नातो शब्दादिरूपायां तन्मितावति-प्रसङ्गः, साऽपि लौकिकसामग्रीप्रयोज्या जन्या च ग्राह्या,ऽन्यथा सामान्यप्रत्यासत्तिजायां-भगवत्समवेतायां च तत्रातिव्याप्तिः ।

अत्र प्रथमविशेषणानुपादाने चुम्बनादिजायाः कादाचित्क्या मन्दवेगसमवेततादृश-प्रतीतेर्विषयेऽतिव्याप्तिः, द्वितीयतदनुक्तौ चापरप्रकारजायास्तथा प्रतीतेर्विषये सा, तृतीय-तदभावे च रतादिपर्याये सम्प्रयोगे सेति ।

( २ ) न स्त्रीपुंसयो रतौ समन्वितम्, वस्तुतस्तु सिद्धान्ते ह्युक्तलक्षणे फलपदनिवेशो, न त्वौद्दालकिंमते, तदनिवेशनिबन्धनदोषनिरासस्तु रतभेदनिवेशेन विधेय इति ।

( ३ ) संप्रयुक्तपुरुषप्रीतेः ।

( ४ ) उदासीनस्य ।

( ५ ) अप्यर्थकश्चेज्ज्यायान् ।

( ६ ) कण्डूत्यपनोदजन्यविसृष्टिजन्यसुखयोरन्यतरस्यानिर्णयात् ।

( ७ ) स्वस्यात्मनो, भावाद्विसृष्टिसुखात्, ।

३८ सटीके कामसूत्रे [ २ अधिकरणे,

खस्य च पुरुषेणासंवेदनात् प्रष्टुमपि न शक्यते, किमुत तद्वचनात्परि-
ज्ञानम्, तस्मात्पुरुषवद्भावं नाधिगच्छतीति ॥ २४ ॥

कथमेतदुपलभ्यत इत्याशङ्क्यौद्दालकिरुपलब्ध्युपायमाह—

कथमेतदुपलभ्यत इति चेत् पुरुषो हि रतिमाधिगम्य स्वेच्छ-
या विरमति, न स्त्रियमपेक्षते, न त्वेवं स्त्रीत्यौद्दालकिः ॥ २५ ॥

पुरुषो हीति । पुरुषो रतिमधिगम्य विसृष्टिसुखमनुभूय कृतकृत्य-
त्वात्स्वेच्छया व्यापाराद्विरमति, न स्त्रियमपेक्षते व्याप्रीयमाणामपि, न
त्वेवं स्त्रीति, साऽपि यदि पुरुषवद्विसृष्टिसुखमधिगच्छेत्तदा तदधिगम्य
पुरुषनिरपेक्षा स्वेच्छया यन्त्रविश्लेषपूर्वकं विरमेद्, न चैवम्, अन्यत्र
पुरुषविरामात्, विरतेऽपि पुंसि पुरुषान्तरसापेक्षत्वात्, तथा हि केन-
चित्पुंसा संप्रयुज्य तथाऽवस्थितैवापरैः संप्रयुज्यमाना का चिद् दृश्यते,
अत एवोक्तम् ।

'अग्निस्तृप्यति नो काष्ठैर्नापगाभिः पयोदधिः ।
नान्तकः सर्वभूतैश्च न पुंभिर्वामलोचना ॥' इति ॥

तस्मात्स्वेच्छया विरामाभावान्न विसृष्टिसुखाधिगमो, यथा प्रा-
ग्विसृष्टेः पुरुषस्येति ॥ २५ ॥

तन्नैतत्स्यानु चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य
भावमनासाद्यावसानेऽभ्यसूयिन्यो भवन्ति, तत्सर्वं भावप्राप्तेरप्रा-
प्तेश्च लक्षणम् ॥ २६ ॥

मा भूत्स्वेच्छया विरामोपलम्भात्स्त्रीषु विसृष्टिसुखानुभूतिः, अनुरा
गदर्शनात्त स्यात्, तद्यथा, चिरवेगे नायके चिरमुपसृत्य; विसृष्टिसुखा-
धिगमाद्रिरते स्त्रियोऽनुरज्यन्ते स्निह्यन्तीत्यर्थः, शीघ्रवेगस्य च नाय-
कस्य क्षिप्रमुपसृत्य सुखाधिगमाद्विरतस्य रतान्तेऽभ्यसूयिन्यो द्वेषिण्यो-
भवन्ति, तत्सर्वमिति । अनुरागो विरागश्चोभयं लक्षणं ज्ञापकमित्यर्थः,
कस्येत्याह-भावस्य प्राप्तेरप्राप्तेश्चेति । तत्रानुरागो योषितां सुखप्राप्तिं-
ज्ञापयति, विरागश्च दुःखाधिगमात्सुखाप्राप्तिं, विरागस्य विरुद्धकार्य-
त्वात्, अनुरागविरागौ च सुखदुःखहेतुकौ पुरुषेषु दृष्टान्तत्वेन सिद्धौ,
तेऽपि हि पुरुषायिते चिरं व्यापृत्य; विरतायां योषित्याधिगतसुखाश्चिर-
वेगा अनुरज्यन्ते, तत्क्षणविरतायां च दुःखाधिगमादनवाप्य; ते रतिसुखं-
विरज्यन्ते, तस्मात्पुरुषस्येव योषितोऽप्यनुरागोपलम्भाद्विसृष्टिसुखा-
धिगमः प्रतीयत इति ॥ २६ ॥

१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ६९

तन्न ॥ २७ ॥

तन्न नेति । अनुरागो भावप्राप्तेर्लिङ्गमित्येतन्नास्ति, सा(१)धारणत्वादस्य ॥ २७ ॥

तदाह—

कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति ॥ २८ ॥

कण्डूतिप्रतीकारोऽपि हीति । तस्माच्चिरवेगेन कण्ड्तेर्यः प्रतीकारः प्रतिक्रिया, दीर्घकालमिति । अतिचिरकालं सोऽपि स्त्रीणां प्रियो, न केवलं विसृष्टिसुखजननम् ॥ २८ ॥

एतदुपपद्यत एव ॥ २९ ॥

एतदुपपद्यत एव, न तु नोपपद्यते, एवेत्यनेनायोगव्यवच्छेदेन भवत्पक्षेऽप्येतदस्तीति दर्शयति, अन्यथा विसृष्टिसुखाधिगमेऽपि कण्डूतेरप्रतीकारान्न तत्रानुरागः, ततश्च किं विसृष्टिसुखाधिगमादनुरागोऽस्याः किं वा कण्डूतिप्रतीकारसमुत्थ इति संदिग्धः, तथाऽनधिगमात्, विरागोऽपि शीघ्रवेगे युज्यते ॥ २९ ॥

तस्मात्संदिग्धत्वादलक्षणमिति ॥ ३० ॥

तस्मादेत(२)दुभयं संदिग्धत्वाद्विसृष्टिसुखस्य प्राप्तेरप्राप्तेश्चालक्षणमज्ञापकम्, उभय(३)त्र वर्तमानत्वात्, तस्मात्स्वेच्छया विरामाविरामावेव ज्ञाप(४)कौ, तौ च स्त्रियां वर्त्तमानावर्तमा(५)नौ स्त इति न पुरुषवद्रतिमधिगच्छतीति स्थितम् ॥ ३० ॥

एतदेव मतमौद्दालकिगीतेन श्लोकेनाह —

संयोगे योषितः पुंसा कण्डूतिरपनुद्यते ।
तच्चाभिमानसंमृष्टं सुखमित्यभिधीयते ॥ ३१ ॥

कण्डूत्यपनोदसमुत्थं स्पर्शसुखमभिमानसंस्पृष्टमिति, कारणे कार्योपचारादाभिमानिकसुखानुविद्धं सुखमित्यभिधीयते योषिद्भिः ॥ ३१ ॥

बाभ्रव्यमतमाह—


( १ ) सपक्षभावप्राप्तिविपक्षकण्डूतिप्रतीकारोभयसम्बन्धित्वात् ,
( २ ) अनुरागविरागद्वयम् ।
( ३ ) विसृष्टिसुखप्राप्त्यप्राप्त्योः । तत्राद्ये कल्पेऽनुरागः स्पष्ट एव त्यप्रतीकारदशायाम् । द्वितीये तु विरागः स्पष्ट एवानुरागस्तु कण्डूतिप्रत
( ४ ) विसृष्टिसुखलाभातदलाभयोः ।
( ५ ) स्वेच्छया विरामोऽवर्त्तमानः, स्वेच्छयाऽविरामो वर्त्तमान

७० सटीके कामसूत्रे [ २ अधिकरण]

सातत्याच्छुश्रूषितारम्भात्प्रभृति भावमधिगच्छति पुरुषः पुन-
रन्त एव ॥ ३२ ॥

द्वावपि विसृष्टिसुखमधिगच्छतः, स्त्री त्वारम्भाद्यन्त्रयोगात्प्रभृति सातत्यान्नैरन्तर्येण, सा हि पुरुषेणोपस्पृश्यमाणा अभिन्नजलभाण्ड-नैः क्लिन्नसम्बाधा भवतीति प्रत्यक्षसिद्धमेतत्, सुखं च पुरुषसंयोगे हि संस्पृष्टमनुविद्धमित्यारम्भात्प्रभृति स्त्री भावमधिगच्छति, पुरुषः पुनरन्त एव भावमधिगच्छति, तदानीं शुक्रविसर्गात् ॥ ३२ ॥

एतदुपपन्नतरम् ॥ ३३ ॥

एतदिति । यथोक्तमुपपन्नतरम्, प्रमाणसिद्धत्वात्, ततश्च तयोर्भिन्नकालत्वान्न सादृश्यमिति न कालतो नव रतानि, भावतस्तु सन्ति, विसृष्टिसुखसादृश्यात् ॥ ३३ ॥

ननु सम्बाधो व्रणस्वभावत्वादपनुद्यमानः क्लिश्यतीत्याह—

न ह्यसत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः ॥ ३४ ॥

न हीति । रसप्राप्तौ विसृष्टिसुखाधिगमे तृप्ता हि स्त्री गर्भं धत्ते यथाऽऽह चरकः—

'निष्ठीविका गौरवमङ्गसादस्तन्द्रा प्रहर्षो हृदयव्यथा च ।
तृप्तिश्च बीजग्रहणं स्वयोन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥
इति ।

तृप्तिश्च भावः, स च न शुक्रविसृष्टिं विनेत्यभिप्रायः, आर्तवं विसृजति न शुक्रमिति के चिद्, यथाऽऽह—

'कामाग्नितप्तचित्तस्त्रीपुंसयोरन्यदेहसंसर्गादरणीदण्डाभ्यामिव वह्निः शुक्रार्तवमथनाद्' इति.

अस्ति तावत्तृप्तिनिबन्धनं, किं तदिति चिन्त्यते, यदि तन्न शुक्रं कथं योषितो गर्भसम्भव उपपद्यते, यथा हि पुरुषसंसर्गात्स्त्री गर्भं धत्ते तथा योषित्संयोगादपि, यथोक्तं सुश्रुते—

'यदा नारी च नारी च मैथुनायोपपद्यते ।
अन्योन्यं मुञ्चतः शुक्रमनस्थिस्तत्र जायते' ॥ इति,

तस्माद्रसधातोरुत्पन्नोऽसृग्धातुरेव कस्यां चिदवस्थायामार्तवम्, शुक्रधातुस्तु मज्जधातोरुपद्यत इति ॥ ३४ ॥

अत्रापि तावेवाशङ्कापरिहारौ भूयः ॥ ३५ ॥

अत्रापीति । बाभ्रव्यमतेऽपि, तावेवेति । पूर्वोक्तावाशङ्कापरिहारौ वाच्यौ, तत्र यद्यारम्भात्प्रभृति भावाधिगमस्तदा चिरवेगेऽनुरज्यन्ते-

[१ अध्याय ] प्रमाणकालभावतावस्थापनप्रकरणम् । ७१

[शी]घ्रवेगस्य चावसानेऽभ्यस्तयि इत्ययं भेदो न युज्यते, उभयत्राप्या-
र्भावाधिगमाद् दृश्यते च भेदः, यस्मादनुरागस्तस्मादन्ते पुरुषव-
त्वदवस्थस्य प्राप्तिः, यतः सासृया तस्मान्नारम्भात्प्रभृतीत्याशङ्कापरिहारौ,
न-कण्डूतिप्रतीकारोऽपि दीर्घकालः प्रियइति कण्डूत्यपनोदाभावाच्च
[शी]घ्रवेगे च प्रद्वेषः, सत्यपि भावाधिगमे कण्डूत्यपनोदस्याधिककाल-
स्याभावाद्, अथ वा दीर्घकालं भावजननपि प्रियमिति योज्यम्, स्त्री-
ऽवस्थाधिकृतत्वात् । शीघ्रवेगे च विरज्यन्ते, चिरकालं भावस्याजननात्
योषितो हि चिरानुबन्धनं भावमुत्पद्यमानमिच्छन्ति, तासामष्टगुणकाम-
त्वाद्, एवं सति न पुंभिर्वामलोचनास्तृप्यन्तीति युक्तम्, तेषामेकगु-
णकामत्वात्, न पुनर्विसृष्टिसुखाभावादिति, भूयश्चेति पुनराशङ्का-
परिहारौ ॥ ३५ ॥

तदाह—

तत्रैतत्स्यात् सातत्येन रसप्राप्तावारम्भकाले मध्यस्थचित्तता नातिसहिष्णुता च ततः क्रमेणाधिको रागयोगः शरीरे निरपेक्षत्वम् अन्ते च विरामाभीप्सेत्येतदनुपपन्नमिति ॥ ३६ ॥

रतस्यारम्भकाले मध्यस्थचित्तता नखक्षतादीनामप्रयोगः, नातिस-
हिष्णुता च नखक्षतादीनां प्रयुज्यमानानां नातिक्षमता, ततश्च क्रमेणा-
रम्भादुत्तरकालं तरतमभेदादधिकरागयोग इति, मध्यस्थचित्ततायां
विपर्ययः, शरीरेऽपि निरपेक्षत्वमित्यतिसहिष्णुतायां, अन्ते च विरामा-
भीप्सा प्रयोगनिवृत्तीच्छा. एतत्सर्वमवस्थाऽन्तरं योषितः सातत्याद्र-
सप्राप्तौ सत्यामनुपपन्नम्, प्रारम्भात्प्रभृत्येकरूपतया सातत्येन विसृ-
ष्टिसुखस्य प्रवृत्तत्वात्, पुरुषस्य विसृष्ट्यवस्थायामेतदवस्थान्तरं
दृश्यत इति ॥ ३६ ॥

तच्च न ॥ ३७ ॥

नैवानुपपन्नं, कुलालचक्रादिवदुपपद्यत एव ॥ ३७ ॥

सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूर्णं वेगस्येत्युपपद्यते ॥ ३८ ॥

भ्रमरकं काष्ठमयं क्रीडनकद्रव्यम्, तद्दीर्घेण सूत्रेणावेष्ट्य लाडि-
का भ्रमयन्ति, यथा तयोर्दण्डे सूत्रप्रत्याक्षिप्ते भ्रान्तिसंस्कारे समानेऽप्या-
दिमध्यावसानेषु भ्रान्त्यामेव वर्तमानयोः, अन्यथा भ्रान्त्यभावात्तत्सं-
स्कारोऽस्तीति कथं प्रतीयेत ? प्रारम्भे मन्दवेगता मन्दभ्रमणं, ततः क्र-

७२ सटीक कामसूत्रे [ २ अधिकरणे,

मेण तरतमभेदेन पूरणं वेगस्य, यथा तत्कुलालचक्रं भ्रमरकं वा निश्च-
लतरमिव स्थितमिति, एवं योषितोऽपि पुरुषेणोपसृतादिभिः प्रत्ययैरु-
त्पद्यमाने विसृष्टिसुखे समानेऽप्यादिमध्यावसानेषु प्रारम्भकाले मन्द-
वेगता मृद्धी रतिः तत्र मध्यस्थचित्तता नातिसहिष्णुता च, ततः
क्रमेण पूरणं वेगस्याधिक्यं रतेः, यत्राधिकचित्तवृत्त्या शरीरनिरपेक्ष-
त्वमिति ॥ ३८ ॥

सातत्येन भावस्य प्रवृत्तत्वात्कथं विरामाभीप्सेत्याह—

धातुक्षयाच्च विरामाभीप्सेति ॥ ३९ ॥

धातुक्षयाच्चेति । समुत्पन्ने कामिताऽऽख्ये भावे यः शुक्रधातुः
स्थानाच्च्युतः स्वनाडीं प्रतिपद्यते तस्यारम्भात्प्रभृति शनैः शनैः स्य-
न्दनात्क्षये निवृत्तरागत्वाद्धिरामाभीप्सेति ॥ ३९ ॥

तस्मादनाक्षेप इति ॥ ४० ॥

तस्मादनाक्षेप इति । अत्रोद्यं विसृष्टिप्रभवस्य भावस्य संतानेन प्रवृ-
त्तस्यावस्थाऽन्तरमनुपपन्नमिति ॥ ४० ॥

अमुमेवार्थं बाभ्रव्यगीतेन श्लोकेनाह—

सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् ।
धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥ ४१ ॥

॥ ४१ ॥

एवं पक्षद्वयमुपन्यस्य सिद्धान्तमाह—

तस्मात्पुरुषवदेव योषितोऽपि रसव्यक्तिर्द्रष्टव्या ॥ ४२ ॥

यत एवं विवादस्तस्माद्रसव्यक्ती रत्युत्पत्तिर्यथा पुरुषस्य विसृ-
ष्टिरन्ते च तद्वदेव योषितोऽपि द्रष्टव्या ॥ ४२ ॥

पुरुषसुखेन हि स्त्रीसुखस्य वैसादृश्यं स्वरूपतः कालतो वा स्यात्,
तदुभयथाऽपि न युज्यत इति प्रतिपादयन्नाह—

कथं हि समानायामेवाकृतावेकार्थमभिपपन्नयोः कार्यवै-
लक्षण्यम् ॥ ४३ ॥

तत्र विजातीययोः पुरुषवडवयोः सम्प्रयुक्तयोर्भवेत्सुखवैसादृश्य-
मित्याह— समानायामेवाकृताविति। तुल्यायां मनुष्यजातौ तुल्यजा-
तीययोरपि स्नानभोजनादौ भिन्नेऽर्थे प्रवर्तमानयोः स्यादित्याह—
एकमिति। एकं रताख्यमर्थमाभिमुख्येन प्रवृत्तयोः कथं कार्यवैलक्षण्यं
स्यात्, तत्र विजातीययोः पुरुषवडवयोर्भावसुखस्य कार्यस्य स्वरूपतः
कालतश्च भेदादित्यर्थः, ये च समानाकृतयः सन्त एककार्यमभिप्रप-