सामग्री पर जाएँ
सर्वकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 78, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 78

३८ सटीके कामसूत्रे [ २ अधिकरणे,

खस्य च पुरुषेणासंवेदनात् प्रष्टुमपि न शक्यते, किमुत तद्वचनात्परि-
ज्ञानम्, तस्मात्पुरुषवद्भावं नाधिगच्छतीति ॥ २४ ॥

कथमेतदुपलभ्यत इत्याशङ्क्यौद्दालकिरुपलब्ध्युपायमाह—

कथमेतदुपलभ्यत इति चेत् पुरुषो हि रतिमाधिगम्य स्वेच्छ-
या विरमति, न स्त्रियमपेक्षते, न त्वेवं स्त्रीत्यौद्दालकिः ॥ २५ ॥

पुरुषो हीति । पुरुषो रतिमधिगम्य विसृष्टिसुखमनुभूय कृतकृत्य-
त्वात्स्वेच्छया व्यापाराद्विरमति, न स्त्रियमपेक्षते व्याप्रीयमाणामपि, न
त्वेवं स्त्रीति, साऽपि यदि पुरुषवद्विसृष्टिसुखमधिगच्छेत्तदा तदधिगम्य
पुरुषनिरपेक्षा स्वेच्छया यन्त्रविश्लेषपूर्वकं विरमेद्, न चैवम्, अन्यत्र
पुरुषविरामात्, विरतेऽपि पुंसि पुरुषान्तरसापेक्षत्वात्, तथा हि केन-
चित्पुंसा संप्रयुज्य तथाऽवस्थितैवापरैः संप्रयुज्यमाना का चिद् दृश्यते,
अत एवोक्तम् ।

'अग्निस्तृप्यति नो काष्ठैर्नापगाभिः पयोदधिः ।
नान्तकः सर्वभूतैश्च न पुंभिर्वामलोचना ॥' इति ॥

तस्मात्स्वेच्छया विरामाभावान्न विसृष्टिसुखाधिगमो, यथा प्रा-
ग्विसृष्टेः पुरुषस्येति ॥ २५ ॥

तन्नैतत्स्यानु चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य
भावमनासाद्यावसानेऽभ्यसूयिन्यो भवन्ति, तत्सर्वं भावप्राप्तेरप्रा-
प्तेश्च लक्षणम् ॥ २६ ॥

मा भूत्स्वेच्छया विरामोपलम्भात्स्त्रीषु विसृष्टिसुखानुभूतिः, अनुरा
गदर्शनात्त स्यात्, तद्यथा, चिरवेगे नायके चिरमुपसृत्य; विसृष्टिसुखा-
धिगमाद्रिरते स्त्रियोऽनुरज्यन्ते स्निह्यन्तीत्यर्थः, शीघ्रवेगस्य च नाय-
कस्य क्षिप्रमुपसृत्य सुखाधिगमाद्विरतस्य रतान्तेऽभ्यसूयिन्यो द्वेषिण्यो-
भवन्ति, तत्सर्वमिति । अनुरागो विरागश्चोभयं लक्षणं ज्ञापकमित्यर्थः,
कस्येत्याह-भावस्य प्राप्तेरप्राप्तेश्चेति । तत्रानुरागो योषितां सुखप्राप्तिं-
ज्ञापयति, विरागश्च दुःखाधिगमात्सुखाप्राप्तिं, विरागस्य विरुद्धकार्य-
त्वात्, अनुरागविरागौ च सुखदुःखहेतुकौ पुरुषेषु दृष्टान्तत्वेन सिद्धौ,
तेऽपि हि पुरुषायिते चिरं व्यापृत्य; विरतायां योषित्याधिगतसुखाश्चिर-
वेगा अनुरज्यन्ते, तत्क्षणविरतायां च दुःखाधिगमादनवाप्य; ते रतिसुखं-
विरज्यन्ते, तस्मात्पुरुषस्येव योषितोऽप्यनुरागोपलम्भाद्विसृष्टिसुखा-
धिगमः प्रतीयत इति ॥ २६ ॥