रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
सप्तदशः सर्गः ५९१
सप्तदशः सर्गः ५९१
हाथी से नहीं लड़ते हैं वैसे ही प्रतापी राजा अतिथि से लड़ने का कोई साहस नहीं करता था ॥ ७० ॥
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ।
स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ ७१ ॥
**अन्वयः—**प्रवृद्धौ चन्द्रः हीयते समुद्रः अपि तथाविधः, सः तु तत्समवृद्धिः अभूत् तौ इव क्षयी न (अभूत्) ।
प्रवृद्धाविति । प्रवृद्धौ सत्यां चन्द्रे हीयते समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते । 'प्रवृद्धः' इति वा पाठः । स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी । “जिदृक्षि०” इत्यादिनेन-प्रत्ययः । नाभूत् ।
**भाषार्थ—**पूरा बढ़ चुकने पर चन्द्रमा घटने लगता है और समुद्र की भी यही दशा होती है किन्तु राजा अतिथि के साथ यह बात उलटी थी, वे चन्द्रमा और समुद्र के समान बढ़े तो सही पर उनके समान घटते नहीं थे ॥ ७१ ॥
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः ।
उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥ ७२ ॥
**अन्वयः—**अत्यर्थं कृशाः अर्थिनः सन्तः महतः तस्य अभिगमनात् उदधेः जीमूताः इव दातृत्वं प्रापुः ।
सन्त इति । अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् उदधेरभिगमनाज्जीमूता इव दातृत्वं वदान्यत्वं प्रापुः । अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ।
**भाषार्थ—**जिस प्रकार निर्जल मेघ समुद्र के पास जाते हैं और वह उन्हें इतना जल दे देता है कि वे संसारभर को बाँटने लगते हैं, उसी प्रकार जो निर्धन विद्वान् राजा अतिथि के पास जाते थे उन्हें वे इतना धन दे देते थे कि स्वयं दूसरों को भी दान देने लगते थे ॥ ७२ ॥
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् ।
तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥ ७३ ॥
**अन्वयः—**स स्तुत्यं एव समाचरन् (अत एव ) स्तूयमानः ( सन् ) जिह्राय तत्कारिद्वेषिणः तस्य यशः ववृधे ।
स्तूयमान इति । स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव
५९२ | रघुवंशमहाकाव्ये
स्तूयमानः जिह्राय ललज्ज । तथापि ह्रीणत्वेऽपि तत्कारिणः स्तोत्रकारिणो द्वेषीति तत्कारिद्वेषिणस्तस्य राज्ञः यशो ववृधे । ‘गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जैव भूषणम्’ इति भावः ।
**भाषार्थ—**उनके सभी कार्य प्रशंसनीय थे, पर जब कोई उसकी प्रशंसा करता तब वे सकुचाते थे । प्रशंसा की इच्छा न करने पर भी उनका यश बढ़ता ही गया ॥ ७३ ॥
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः ॥ ७४ ॥
अन्वयः—(स) उदितः सूर्यः इव दर्शनेन दुरितं घ्नन् तत्त्वार्थेन तमः नुदन् शश्वत्प्रजाः स्वतन्त्रयांचक्रे ।
दुरितमिति । स राजा उदितः सूर्यः इव दर्शनेन दुरितं घ्नन्निवर्तयन् । तथा च स्मर्यते—‘अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः’ ॥ इति । तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन च तमोऽज्ञानं ध्वान्तं च नुदञ्शश्वत्प्रजाः स्वतन्त्रयाञ्चक्रे स्वाधीनाश्चकार ।
**भाषार्थ—**जिस प्रकार निकलते हुए सूर्य के दर्शन से पाप दूर हो जाते हैं उसी प्रकार राजा अतिथि के दर्शन से पाप भाग जाते थे । वे ज्ञानी थे इसलिए वे दूसरों को भी तत्त्वज्ञान सिखाकर अज्ञान का अन्धकार भी मिटाते थे इसलिए उन्होंने प्रजा को सब प्रकार से स्वतन्त्र कर दिया ॥ ७४ ॥
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ७५ ॥
**अन्वयः—**इन्दोः अंशवः पद्मे अगतयः सूर्यस्य (च) अंशवः कुमुदे (अगतयः) गुणिनः तस्य गुणाः विपक्षे अन्तरं लेभिरे ।
इन्दोरिति । इन्दोरंशवः पद्मेऽगतयः । प्रवेशरहिता इत्यर्थः । सूर्यस्यांशवः कुमुदेऽगतयः । गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे प्रापुः ।
**भाषार्थ—**चन्द्रमा की किरणें कमलों में तथा सूर्य की किरणें कुमुदों में नहीं पैठ पाती हैं पर राजा अतिथि के गुणों ने शत्रुओं के हृदय में भी घर कर लिया था और शत्रु भी उनके गुणों का लोहा मानते थे ॥ ७५ ॥
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ॥ ७६ ॥