रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
सप्तदशः सर्गः ५६५
सप्तदशः सर्गः ५६५
कुमार पुत्र कुश को अपना सम्बन्धी बनाकर गरुड़ से डरना छोड़ दिया क्योंकि अब वे उसके सम्बन्धी के पिता विष्णु के वाहन मात्र थे और कुश ने भी तक्षक के पञ्चम पुत्र कुमुद को सम्बन्धी बना लिया जिससे सर्प शान्त हो गये और कुश प्रजाओं के प्रिय बनकर पृथ्वी पर भली-भाँति राज करने लगे ॥ ८८ ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्या-
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
कुमुद्वतीपरिणयो नाम षोडशः सर्गः ॥ १६ ॥
सप्तदशः सर्गः
नमो रामपदाम्भोजं रेणवो यत्र सन्ततम् ।
कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥
अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥ १ ॥
अन्वयः—कुमुद्वती काकुत्स्थात् अतिथिं नाम पुत्रं च चेतना पश्चिमात् यामिनीयामात् प्रसादमिव प्राप ।
अतिथिमिति । कुमुद्वती काकुत्स्थात्कुशादतिथिं नाम पुत्रं चेतना बुद्धिः पश्चिमाद्यामिन्या रात्रेर्यामात्प्रहरात् । ‘द्वौ यामप्रहरौ समौ’ इत्यमरः । प्रसादं वैशद्यमिव प्राप । ब्राह्मे सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः ।
भाषार्थ—जिस प्रकार रात्रि के अन्तिम प्रहर ब्राह्ममुहूर्त में बुद्धि की स्वच्छता प्राप्त हो जाती है उसी प्रकार कुमुद्वती ने कुश से अतिथि नामक पुत्र को प्राप्त किया ॥ १ ॥
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ २ ॥
अन्वयः—पितृमान् अनुपमद्युतिः सः पितुः मातुः च वंशं सविता उत्तरदक्षिणौ उभौ मार्गौ इव अपुनात् ।
स इति । पितृमान् प्रशस्तपितृकः । प्रशंसार्थे मतुप् । सुशिक्षित इत्यर्थः ।
| ५६६ | रघुवंशमहाकाव्ये |
|---|
अनुपमद्युतिः सवितुश्चेदं विशेषणं सोऽतिथिः पितुः कुशस्य वंशं मातुः कुमुद्वत्याश्च वंशं सवितोत्तरदक्षिणावुभो मार्गाविव अपुनात्पवित्रीकृतवान् ।
भाषार्थ— जिस प्रकार तेजस्वी सूर्य अपने प्रकाश से उत्तर और दक्षिण दोनों दिग्भागों को पवित्र कर देता है उसी प्रकार सुशिक्षित तथा अनुपम कान्ति वाले अतिथि ने माता और पिता के दोनों कुलों को पवित्र कर दिया ॥ २ ॥
तमादौ कुलविद्यानामर्थमर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ ३ ॥
अन्वयः— अर्थविदांवरः पिता तं आदौ कुलविद्यानाम् अर्थं अग्राहयत् पश्चात् पार्थिवकन्यानां पाणिग्रहणं अग्राहयत ।
संस्कृत टीका—
तमेति । अर्थाञ्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः । तेषां वरः श्रेष्ठः पिता कुशस्तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षिकीत्रयीवार्तादण्डनीतीनामर्थमभिधेयमग्राहयदबोधयत् । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत् स्वीकारितवान् । उदवाहयदित्यर्थः । ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वमस्तीत्युक्तं प्राक् ।
भाषार्थ— अर्थवेत्ताओं में श्रेष्ठ कुश ने पहले उसे आन्वीक्षिकी आदि कुलपरम्परागत राजनीति विद्याओं को पढ़ाया फिर राजकुमारियों से उनका विवाह कर दिया ॥ ३ ॥
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यतैकमात्मानमनेकं वशिना वशी ॥ ४ ॥
अन्वयः— जात्यः शूरः वशी कुशः अभिजातेन शौर्यवता वशिना तेन एकं आत्मानं अनेकं अमन्यत ।
संस्कृत टीका—
जात्य इति । जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन । ‘अभिजातः कुलीनः स्यात्’ इत्यमरः । शौर्यवता वशिना तेनातिथिना करणेन एकमात्मानम् । एको न भवतीत्यनेकस्तम् । अमन्यत । सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः ।
भाषार्थ— अतिथि भी कुशके समान ही कुलीन शूरवीर और जितेन्द्रिय थे इसलिए कुलीन, शूरवीर और जितेन्द्रिय कुशने उस अतिथि के द्वारा अकेले भी अपनेको अनेक माना । अर्थात् अतिथि में अपने सम्पूर्ण गुणों के होने से उसे अपना ही रूपान्तर माना ॥ ४ ॥
स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन चावधि ॥ ५ ॥