रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
षष्ठः सर्गः २०१
षष्ठः सर्गः २०१
मित्यर्थः । भुजङ्गमानां वसतिं पातालं प्रविष्टम् ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम् । इत्थं सर्वदिग्व्यापीत्यर्थः । अनुबध्नातीत्यनुबन्धि चाविच्छेदि कालत्रयव्यापकं चेत्यर्थः । अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिज्ज्ञानेन परिच्छेतुं परिमातुं नालं न शक्यम् ।
**भाषार्थ—**पर्वतों तक पहुँचा हुआ, समुद्रों के पार गया हुआ, नागलोक से भी व्याप्त हुआ, स्वर्गादिलोंकों में फैला हुआ और अविच्छन्न रूप से सर्वत्र व्याप्त जिस रघु के यश की कोई इयत्ता नहीं कर सकता है ॥ ७७ ॥
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥ ७८ ॥
**अन्वयः—**असौ कुमारः अजः त्रिविष्टपस्य पतिं जयन्तः इव तम् अनुजातः दम्यः यः भुवनस्य गुर्वी धुरं धुर्येण पित्रा सदृशं बिभर्ति ।
असाविति । असावजाख्यः कुमारः त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव । ‘जयन्तः पाकशासनिर’ इत्यमरः । तं रघुमनुजातः तस्माज्जात इत्यर्थः । तज्जातोऽपि तदनुजातो भवति जन्यजनकयोरानन्तर्यात् । “गत्यर्थाकर्मकश्लिष-शीङ्स्थासवसज्जनरुहजीर्यतिभ्यश्च” इति क्तः । सोपसृष्टत्वात्सकर्मकत्वम् । आह चात्रैव सूत्रे वृत्तिकारः—“श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति” इति । दम्यः शिक्षणीयावस्थः योऽजो गुर्वी भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति । यथा कश्चिद्वत्सतरीऽपि धर्मेण महोक्षेण समं वहतीत्युपमालङ्कारो ध्वन्यते । ‘दम्यवत्सतरौ समौ’ इत्यमरः ।
**भाषार्थ—**ये कुमार अज स्वर्ग के स्वामी इन्द्र से जयन्त के समान उस महाराज रघु से उत्पन्न हुए हैं और ये भी अपने प्रतापी पिता के सामान राज्य का सब काम सम्भालते हैं ॥ ७८ ॥
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ ७९ ॥
**अन्वयः—**कुलेन कान्त्या नवेन वयसा विनयप्रधानैः तैस्तैः गुणैः आत्मनः तुल्यम् अमुं त्वं वृणीष्व, रत्नं काञ्चनेन समागच्छतु ।
कुलेनेति । कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व किं बहुना रत्नं काञ्चनेन समागच्छतु संगच्छताम् । प्रार्थनायां रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वायुवयोः समांगमः प्रार्थ्यंत इत्यर्थः ।
२०२ रघुवंशमहाकाव्ये
भाषार्थ—कुल से सौन्दर्य से नई युवावस्था से और विनय, दया, दाक्षिण्य, शील, शक्ति आदि सद्गुणों से ये तुम्हारे अनुरूप हैं इसलिये तुम इन्हें वरण करो जिससे सुवर्ण का रत्न के साथ मेल हो जाय । क्योंकि रत्न की शोभा उसके अनुरूप सुवर्ण से ही होती है दूसरे से नहीं ॥ ७९ ॥
ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ८० ॥
अन्वयः—ततः सुनन्दावचनावसाने नरेन्द्रकन्या लज्जां तनूकृत्य प्रसादामलया दृष्ट्या संवरणस्रजा इव कुमारं प्रत्यग्रहीत् ।
तत इति । ततः सुनन्दावचनस्यावासानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनः प्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य स्रजा स्वयंवर-णार्थं स्रजेव कुमारमजं प्रत्यग्रहीत्स्वीचकार । सम्यक्सानुरागमपश्यदित्यर्थः ।
भाषार्थ—इस प्रकार सुनन्दा के कहने के बाद राजकुमारी इन्दुमती ने संकोच छोड़कर प्रेम भरी दृष्टि से देखकर अज को स्वीकार कर लिया, मानो वह दृष्टि ही स्वयंवर की माला हो ॥ ८० ॥
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥ ८१ ॥
अन्वयः—सा यूनि तस्मिन् अभिलाषबन्धं शालीनतया वक्तुं न शशाक, तथापि अरालकेश्याः सः रोमाञ्चलक्ष्येण गात्रयष्टिं भित्त्वा निराक्रामत् ।
सेति । सा कुमारी यूनि तस्मिन्नजेऽभिलाषबन्धमनुरागग्रन्थि शालीनतयाऽधृष्टतया । 'स्यादधृष्टस्तु शालीनः' इत्यमरः । ''शालीनकौपीने अधृष्टाकार्ययोः'' इति निपातः । वक्तुं न शशाक तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन । 'व्याजाऽपदेशो लक्ष्यं च' इत्यमरः । गात्रयष्टिं भित्त्वा निराक्रामत् सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ।
भाषार्थ—वह कुमारी इन्दुमती उस युवक अज विषयक अपने अनुराग को धृष्ट न होने के कारण वाणी से प्रगट तो नहीं कर सकी, पर घुँघराले बालवाली उस इन्दुमती के हृदय का वह अनुराग छिपाने पर भी नहीं छिप सका, रोमाञ्च के बहाने बाहर आ ही गया ॥ ८१ ॥
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ ८२ ॥