सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पञ्चमः सर्गः

पञ्चमः सर्गः
१६३

तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ६८ ॥

अन्वयः—तत् वल्गुना युगपत् तावत् उन्मिषितेन सद्यः द्वे परस्परतुलाम्-
अधिरोहताम्, (के द्वे ?) अन्तः प्रस्पन्दमानपरुषेतरमन्दं तव चक्षुः, अन्तःप्रचलित
भ्रमरं पद्मं च ।

तदिति । तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन । युगपत्तावदुन्मिषितेन
युगपदेवोन्मीलितेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां, प्राप्नुताम् ।
प्रार्थनायाम् लोट् । के द्वे । अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा
कनीनिका यस्य तत्तथोक्तम् । तव चक्षुः । अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च ।

भाषार्थ—इस सौन्दर्यलक्ष्मी को स्वीकार करने के कारण एक ही समय में
तुम्हारी आंखें और कमल ये दोनों एक दूसरे के बराबरी करते हैं, क्योंकि इस
समय बन्द आंखों में चिकनी और काली पुतलियां घूम रही हैं और कमलों में
भ्रमर घूम रहे हैं । अर्थात् साथ ही खुलने और खिलने से आंख और कमलों की
पूर्ण रूप से समानता हो जायगी ॥ ६८ ॥

वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ६६ ॥

अन्वयः—विभातवायुः ते मुखमारुतस्य स्वाभाविकम् सौरभ्यम् परगुणेन ईप्सुः
इव अनोकहानाम् वृन्तात् श्लथं पुष्पं हरति च अरुणांशुभिन्नैः सरसिजैः संसृज्यते ।

वृन्तादिति । विभातवायुः प्रभातवायुः स्वाभाविकं ते तव मुखमारुतस्य निःश्वा-
सपवनस्य सौरभ्यं सौगन्ध्यं । परगुणेन । सांक्रामिकगन्धेन । ईप्सुः प्राप्तुमिच्छुरिव ।
अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात्पुष्पबन्धनात् । हरत्यादत्ते ।
अरुणांशुभिन्नैस्तरणि किरणोद्बोधितैः सरसिजातैःकमलैः सह । संसृज्यते संगच्छते ।

भाषार्थ—सुबह की हवा वृक्षों के शिथिल वृन्त वाले पुष्पों को वृन्त से गिरा
रही है और सूर्य की किरणों से विकसित कमलों का स्पर्श करती बह रही है ।
मानों आपको सोए हुए देखकर वह आपके मुख की स्वाभाविक सुगन्धि के समान
सुगन्धि को दूसरों से लेने की अभिलाषा कर रही है । अर्थात् सूर्योदय का समय
हुआ, आप उठें ॥ ६९ ॥

ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः ।
आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिवत्वदीयम् ॥ ७० ॥

१६४ रघुवंशमहाकाव्ये

अन्वयः—ताम्रोदरेषु पतितम् निर्धौतहारगुलिकाविशदं हिमाम्भः लब्धापरभागतया अधरोष्ठे त्वदीयम् सदशनाचिः लीलास्मितम् इव आभाति ।

ताम्रेति । ताम्रोदरेष्वरुणाभ्यन्तरेषु पतितं निर्धौता या हारगुलिका मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ।

भाषार्थ—ताम्र के समान लाल वृक्षों के नये पत्तों पर गिरे हुए स्वच्छ मोतियोंके हार के दाने के समान निर्मल ओस के कण इस प्रकार सुशोभित हो रहे हैं, जिस प्रकार अधरोष्ठ में आपकी दांतों की कान्ति के सहित लीलापूर्वक मन्द हास सुशोभित होता है ॥ ७० ॥

यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥

अन्वयः—यावत् प्रतापनिधिः भानुः न आक्रमते, तावत् अह्नाय अरुणेन तमः निरस्तम् । हे वीर ! त्वयि आयोधनाग्रसरताम् ( याते सति ) तव गुरुः स्वयम् रिपून् उच्छिनत्ति किं वा ।

यावदिति । प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति । तावत् भानावुदित एवेत्यर्थः । अह्नाय झटिति अरुणेनानूरुणा । तमो निरस्तम् । हे वीर ! त्वय्यायोधनेषु युद्धेषु । अग्रसरतां याते सति तव गुरुः पिता रिपून्स्वयमुच्छिनत्ति किं वा । नोच्छिनत्त्येवेत्यर्थः । न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ।

भाषार्थ—तेज के आकर भगवान सूर्य के उदय होने के पहले ही सारथि अरुण अन्धकार को दूर कर देते हैं। यह ठीक ही है; क्योंकि योग्य सेवक के रहते स्वामी को स्वयं कार्य करने का कष्ट नहीं होना चाहिए। हे वीर ! संग्राम में सबसे आगे लड़ने वाले आपके समान सुयोग्य पुत्र के रहते हुए आपके पिता महाराज रघु को क्या शत्रुओं का संहार करना पड़ता है ॥ ७१ ॥

शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभान्तितरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥ ७२ ॥

अन्वयः—ते उभयपक्षविनीतनिद्राः मुखरशृङ्खलकर्षिणः स्तम्बेरमाः शय्याम् जहति येषां दन्तकोशाः तरुणारुणरागयोगात् भिन्नाद्रिगैरिकतटा इव विभान्ति ।

शय्यामिति । उभाभ्यां पक्षाभ्यां विनीता अपगता निद्रा येषां त उभयपक्षविनीतनिद्राःमुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति

पञ्चमः सर्गः १६५

तथोक्तास्त एव तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः शय्यां जहति त्यजन्ति । येषां स्तम्बेरमाणां । दन्ताः कोशा इव दन्तकोशा दन्तकुड्मलास्तरुणारुणरागयोगाद् बालाकरुणः संपर्काद्धेतोर्भिन्नाद्रिगैरिकतटा इव विभान्ति ।

भाषार्थ—दोनों पार्श्वों से करवट लेकर नींद छोड़ने वाले, झनझनाती हुई सींकड़ों को खींचते हुए आपकी सेना के हाथी उठ गये । जिनके दांत उदय होते सूर्य की लाल किरणों के सम्पर्क से कटे हुए पर्वत के गेरु के टुकड़े के समान मालूम पड़ते हैं ॥ ७२ ॥

दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥७३॥

अन्वयः—वनजाक्ष ! दीर्घेषु पटमण्डपेषु नियमिताः वनायुदेश्याः वाहाः निद्रां विहाय पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वक्त्रोष्मणा मलिनयन्ति ।

दीर्घेष्वित । हे वनजाक्ष ! नीरजाक्ष ! दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः । अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्वाद्यानि सैन्धवशिलाशकलानि । वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति ।

भाषार्थ—हे कमलनेत्र ! अज ! वस्त्रों से बनी हुई अश्वशालाओं में बन्धे हुए पारस देश में उत्पन्न ये आपके घोड़े निद्रा त्याग करके आगे रखे हुये चाटने लायक सेंधव नमक के टुकड़ों को अपने मुख की भाप से मलिन कर रहे हैं ॥७३॥

भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥

अन्वयः—म्लानपुष्पोपहारः विरलभक्तिः भवति, प्रदीपाः स्वकिरणपरिवेषोद्भेदशून्याः भवन्ति, अपि च अयं पञ्जरस्थः ते शुकः त्वत्प्रबोधप्रयुक्ताम् नः गिरम् अनुवदति ।

भवतीति । म्लानः पुष्पोपहार पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति । प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति । निस्तेजस्का भवन्तीत्यर्थः । अपि चायं मञ्जुवाङ् मधुरवचनः पञ्जरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्तेन प्रयुक्तामुच्चारितां नोऽस्माकं गिरं वाणीमनुवदति । अनुकृत्य वदतीत्यर्थः ।

भाषार्थ—रात्रि के समय उपहार में आये हुए पुष्पों के मुरझा जाने से उनकी रचना शिथिल हो रही है, प्रकाश हो जाने के कारण दीपक अपने प्रभामण्डल के प्रकाश से रहित हो रहे हैं और मधुर बोलने वाला पिंजरों में रखा हुआ आपका

१६६ रघुवंशमहाकाव्ये

यह सुग्गा भी आपको जगाने के लिए गाये गये हम लोगों के गीतों का अनुकरण कर रहा है। अतः निद्रा को त्याग कर उठ जायें ॥ ७४ ॥

इति विरचितवाग्भिर्वन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार ।
मदपटुनिनादद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ ७५ ॥

**अन्वयः—**इति विरचितवाग्भिः वन्दिपुत्रैः सपदि विगतनिद्रः कुमारः तल्पं उज्झाञ्चकार, मदपटुनिनादद्भिः राजहंसैः बोधितः सुरगजः गाङ्गं सैकतं इव ।

इतोति । इतीत्थं विरचितवाग्भिर्वन्दिपुत्रैर्वैतालिकैः । सपदि विगतनिद्रः कुमारः तल्पं शय्याम् । उज्झाञ्चकार विससर्ज । कथमिव ? मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः । सुरगज ईशानदिग्गजः । गङ्गाया इदं गाङ्गं सैकतं पुलिनमिव ।

**भाषार्थ—**इस प्रकार सुन्दर वचनों की रचना करने वाले वन्दिपुत्रों की वाणी से जगकर अज तत्काल इस प्रकार शय्या से उठ गये जिस प्रकार मधुर शब्द करने वाले राजहंसों से जगाया गया सुप्रतीक नामक दिग्गज आकाश गंगा के रेतीले तट को त्याग देता है ॥ ७५ ॥

अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुकूलवेषः क्षितिपसमाज्मगात्स्वयंवरस्थम् ॥ ७६ ॥

**अन्वयः—**अथ अञ्चिताक्षिपक्ष्मा शास्त्रदृष्टं दिवसमुखोचितम् विधिं अवसाय्य कुशलविरचितानुकूलवेषः सन् स्वयंवरस्थं क्षितिपसमाजम् अगात् ।

अथेति । अथोत्थानानन्तरमञ्चितानि चारूण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य । कुशलैः प्रसाधनदक्षैर्विरचितो वेषो नेपथ्यं यस्य स तथोक्तः सन्स्वयंवरस्थं क्षितिपसमाजं राजसमूहमगादगमत् । पुष्पिताग्रावृत्तमेतत् । तल्लक्षणम्—'अयुजि नयुगरेफतो यकारो युजि च नजा जरगाश्च पुष्पिताग्रा' इति ।

**भाषार्थ—**शय्या त्यागकर उठने के बाद सुन्दर पलकों वाले युवराज अज शास्त्रोक्तप्रातः काल में करने के योग्य संध्यावन्दनादि क्रिया को समाप्त करके अलंकृत करने वालों में कुशल पुरुषोंके द्वारा स्वयंवर में जाने योग्य उत्तम वेष बना कर स्वयंवर में बैठे हुए राज समाज में गये ॥ ७६ ॥

त्रिपाठ्युपाह्न पं० श्री कृष्णमणिशास्त्री द्वारा लिखित अन्वय
और चन्द्रकला टीका में पञ्चमसर्ग समाप्त ।

षष्ठः सर्गः

जाह्नवी मूर्ध्नि पादे वा कालः कंठे वपुष्यथ ।
कामारि कामतातं वा कंचिदेकं भजामहे ॥

स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थानुपचारवत्सु ।
वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥ १ ॥

**अन्वयः—**सः उपचारवत्सु मञ्चेषु सिंहासनस्थान् मनोज्ञवेषान् वैमानिकानाम् मरुतां आकृष्टलीलान् नरलोकपालान् अपश्यत् ।

स इति । सोऽजस्तत्र स्थाने उपचारवत्सु राजोपचारवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान्मनोज्ञवेषान्मनोहरनेपथ्यान्वमानिकानां विमानैश्चरताम् । ‘चरति’ इति ठक्प्रत्ययः । मरुताममराणाम् ‘मरुतो पवनामरो’ इत्यमरः । आकृष्टलीलान्गृहीतसौभाग्यान् आकृष्टमरुल्लीलानित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । नरलोकं पालयन्तीति नरलोकपालाः । कर्मण्यण्प्रत्ययः । तान्भूपालानपश्यत् सर्गेऽस्मिन्नुपजातिश्छन्दः ।

**भाषार्थ—**स्वयम्बर में जाकर अज ने देखा कि राजकीय साधनों से सजाये गये मंचों पर उत्कृष्ट वेष बनाकर बैठे हुए राजा लोग ऐसे सुन्दर लग रहे हैं मानों विमानों पर देवता लोग बैठे हुए हों ॥ १ ॥

रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
काकुत्स्यमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ २ ॥

**अन्वयः—**रतेः गृहीतानुनयेन ईश्वरेण प्रत्यर्पितस्वाङ्गं कामम् स्थितं काकुत्स्थं आलोकयताम् नृपाणां मनः इन्दुमतीनिराशं बभूव ।

रतेरिति । ‘रतिः स्मरप्रियायां च रागे च सुरते स्मृता’ इति विश्वः । रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन गृहीतरत्यनुनयेनेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भी निःस्पृहं बभूव । इन्दुमतीं सत्पतिमेनं विहाय नास्मान्वरिष्यतीति निश्चिक्युरित्यर्थः । सर्वातिशयसौन्दर्यमस्येति भावः ।

**भाषार्थ—**कामदेव की पत्नी रति की प्रार्थना को स्वीकार करके भगवान् शंकर से पुनः अपने शरीर को प्राप्त किये हुए कामदेव के समान सुन्दर अज को देखकर राजाओं का मन इन्दुमती के प्रति निराश हो गया ॥ २ ॥

१६८ | रघुवंशमहाकाव्ये

वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ ३ ॥

अन्वयः—असौ कुमारः वैदर्भनिर्दिष्टं मञ्चं क्लृप्तेन सोपानपथेन मृगराजशावः शिलाविभङ्गैः नगोत्सङ्गं इव आरुरोह ।

वैदर्भेति । असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मंचं पर्यङ्कं क्लृप्तेन सुविहितेन सोपानपथेन मृगराजशावः सिंहपोतः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ।' इत्यमरः । शिलानां विभङ्गैर्भङ्गीभिस्तुङ्गमग्रमुन्नतं नगोत्सङ्गं शैलाग्रमिव आरुरोह ।

भाषार्थ—वे राजकुमार अज, विदर्भ नरेश भोज के द्वारा बताये गये मञ्च पर सुन्दर ढङ्ग से बनाई गई सीढ़ियों से इस प्रकार चढ़ गये, जिस प्रकार सिंह का बच्चा एक-एक चट्टानों पर पैर रखता हुआ ऊंचे पहाड़ के ऊपर चढ़ जाता हो ॥ ३ ॥

परार्ध्यवर्णास्तरणोपपन्नमासेदिवान् रत्नवदासनं सः ।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ४ ॥

अन्वयः—परार्ध्य वर्णास्तरणोपपन्नं रत्नवद् आसनं आसेदिवान् स मयूरपृष्ठाश्रयिणा गुहेन भूयिष्ठं उपमेयकान्तिः आसीत् ।

परार्ध्येति । परार्ध्याः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनोपपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्ठितवान्सोऽजः मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह । 'सेनानीरग्निभूर्गुहः ।' इत्यमरः । भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत् । मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य, तद्द्वारा च तदारूढयोरपीति भावः ।

भाषार्थ—राजकुमार अज का वह सिंहासन सोने का बना हुआ था उसमें अनेक प्रकार के रत्न जड़े हुए थे एवं उस पर रंग-बिरंग के बहुमूल्य मखमली वस्त्र बिछे हुए थे । उस पर बैठे हुए अज इस प्रकार सुन्दर लग रहे थे मानों कार्तिकेय अपने मोर की पीठ पर बैठे हों ॥ ४ ॥

तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पंक्तिषु विद्युतेव ॥ ५ ॥

अन्वयः—पयोमुचां पङ्क्तिषु विद्युता सहस्रधा विभक्त आत्मा इव तासु राजपरम्परासु श्रिया सहस्रधा विभक्तः प्रभाविशेषोदयदुर्निरीक्ष्य आत्मा व्यरुचत्।