सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पञ्चमः सर्गः १४३

पञ्चमः सर्गः १४३

सर्वत्र नो वातमवेहि राजन्नाये कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ १३ ॥
अन्वयः—राजन् सर्वत्र नः वार्तम् अवेहि, त्वयि नाथ सति प्रजानाम् अशुभम् कुतः ? सूर्ये तपति सति तमिस्रा लोकस्य दृष्टेः आवरणाय कथम् कल्पेत ।
सर्वत्रेति । हे राजन् ! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि 'वार्तं वलगुन्यरोगे च' इत्यमरः । वार्तं पाटवमारोग्यं भव्य स्वास्थ्य मनामयम् इति यादवः । न चेदाश्चर्यमित्याह—नाथ इति । त्वयि नाथे ईश्वरे सति प्रजानामशुभं दुःखं कुतः ? तथाहि सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः । 'तमिस्रम्' इति पाठे तिमिरम् । लोकस्य जनस्य । दृष्टेरावरणाय कथं कल्पेत ? दृष्टिमावरितुं नालमित्यर्थः ।
भाषार्थ—हे राजन् ! आप हमारी सब प्रकार से कुशल समझें, आप जैसे राजा के रहने पर प्रजा का अकुशल कैसे हो सकता है ? यतः सूर्य के प्रकाशमान रहते अन्धकार किसी की दृष्टि को ढक सकता है ! ॥ १३ ॥

भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयातिशेषे ।
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ १४ ॥
अन्वयः—प्रतीक्ष्येषु भक्तिः ते कुलोचिता, महाभाग तथा पूर्वान् अतिशेषे तु अहम् व्यतीतकालः सन् अर्थिभावात् त्वाम् अभ्युपेतः इति मे विषादः अस्ति ।
भक्तिरिति । प्रतीक्ष्येषु.पूज्येषु । भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता । हे महाभाग ! सार्वभौम ! तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे । अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः ।
भाषार्थ—पूज्यजनों में भक्ति रखना आपकी कुलपरम्परा है, अतः आप में यह गुण अपने पूर्वजों से भी अधिक है। किन्तु इसका मुझे अत्यन्त दुःख है कि मैं समय बीतने पर आया ॥ १४ ॥

शरीरमात्रेण नरेन्द्र ! तिष्ठन्नाभासि तीर्थप्रतिपादितद्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ १५ ॥
अन्वयः—नरेन्द्र ! तीर्थप्रतिपादितर्द्धिः त्वम् शरीरमात्रेण तिष्ठन् आरण्यकोपात्तफलप्रसूतिः स्तम्बेन अवशिष्टः नीवार इव आभासि ।
शरीरेति । हे नरेन्द्र ! तीर्थे सत्पात्रे प्रतिपादिता दत्ता ऋद्धियेन स तथोक्तः । शरीरमात्रेण तिष्ठन् । आरण्यका अरण्ये भवा मनुष्या मनुष्यप्रमुखाः । तैरूपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः नीवार इव । आभासि शोभसे ।

१४४ रघुवंशमहाकाव्ये

भाषार्थ—हे राजन् ! यज्ञ में सर्वस्व दे देने के कारण शरीरमात्र से स्थित आप वैसे ही लग रहे हैं जैसे वनवासियों द्वारा फल तोड़ लिए जाने पर डण्ठल-मात्र शेष नीवार धान्य हो ॥ १५ ॥

स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ १६ ॥

अन्वयः—भवान् एकनराधिपः सन् मखजम् अकिञ्चनत्वम् यत् व्यनक्ति तत् स्थाने । हि सुरैः पर्यायपीतस्य हिमांशोः कलाक्षयः वृद्धेः श्लाघ्यतरः भवति ।

स्थान इति । भवानेकनराधिपः सार्वभौमः सन् । मखजं मखजन्यम् । न विद्यते किंचन यस्येत्यकिञ्चनः । तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति । स्थाने युक्तम् । तथाहि सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु ।

भाषार्थ—आप अद्वितीय चक्रवर्ती होते हुए भी यज्ञ में सर्वस्व दान कर देने से उत्पन्न निर्धनता को प्रकट कर रहे हैं, यह उचित ही है, क्यों देवताओं द्वारा क्रम से पीये गये चन्द्रमा का कलाक्षय वृद्धि की अपेक्षा अधिक प्रशंसनीय होता है ।

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥ १७ ॥

अन्वयः—तत् तावत् अनन्यकार्यः अहम् अन्यतः गुर्वर्थम् आहर्तुम् यतिष्ये, ते स्वस्ति अस्तु, चातकः अपि निर्गलिताम्बुगर्भम् शरद् घनम् न अर्दति ।

तदिति । तत्तस्मात्तावदनन्यकार्यः । प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद् गुर्वर्थं गुरुधनमाहर्तुमर्जयितुं यतिष्ये उद्योक्ष्ये । ते तुभ्यं स्वस्ति शुभमस्तु । तथाहि–चातकोऽपि निर्गलितोऽम्बेव गर्भो यस्य तं शरद्घनं नार्दति न याचते ।

भाषार्थ—हे राजन् ! गुरुदक्षिणातिरिक्त दूसरा कोई प्रयोजन न रखनेवाला मैं अन्य दाता से गुरुदक्षिणा की प्राप्ति का प्रयत्न करूँगा, क्योंकि चातक पक्षी भी जल रहित मेघ से जल की याचना नहीं करता । आपका कल्याण हो ॥ १७ ॥

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन् ! गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ १८ ॥

अन्वयः—एतावत् भक्त्या प्रतियातुकामम् महर्षेः नृपतिः निषिध्य 'हे विद्वन् त्वया गुरवे प्रदेयम् वस्तु किम् कियत् वा' इति तम् अन्वयुङ्क्त ।

एतावदिति । एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् । महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य । हे विद्वन् ! त्वया

पञ्चमः सर्गः
१४५

गुरवे प्रदेयं वस्तु किं किमात्मकं, कियत् किंपरिमाणं वा । इत्येवं तं कौत्समन्वयुङ्क्तापृच्छत् ।

भाषार्थं— ऐसा कह गमनेच्छु कौत्स को रघु ने रोककर पूछा कि हे विद्वन् ! आपको गुरुदक्षिणा में क्या वस्तु देनी है और कितनी देनी है ॥ १८ ॥

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९ ॥

अन्वयः— यथावत् विहिताध्वराय स्मयावेशविवर्जिताय वर्णाश्रमाणां गुरवे तस्मै विचक्षणः वर्णी सः प्रस्तुतम् आचचक्षे ।

तत इति । ततो यथावद्यथार्हम् । विहिताध्वराय विधिवदनुष्ठितयज्ञाय । सदाचारायेत्यर्थः । स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय । अनुद्धतायेत्यर्थः । वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय । सर्वकार्य-निर्वाहकायेत्यर्थः । तस्मै रघवे विद्वान्वर्णी ब्रह्मचारी । स कौत्सः प्रस्तुतं प्रकृतमा-चचक्षे ।

भाषार्थं— उसके बाद शास्त्रानुसार यज्ञ करनेवाले निरहंकार रघु से ब्रह्म-चारी कौत्स ने प्रकृत विषय कहा ॥ १९ ॥

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद् गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २० ॥

अन्वयः— समाप्तविद्येन मया महर्षिः गुरुदक्षिणायै विज्ञापितः अभूत्, स च चिराय अस्खलितोपचारां ताम् भक्तिम् एव पुरस्तात् अगणयत् ।

समाप्तेति । समाप्तविद्येन मया महर्षिर्वरतन्तुर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत् । स च गुरुश्चिरायास्खलितोपचारां तां दुष्करा मे भक्तिमेव पुरस्ता-त्प्रथममगणयत्संख्यातवान् । भक्त्यैव सन्तुष्टः किं दक्षिणयेत्युक्तवानित्यर्थः ।

भाषार्थं— समस्त विद्याओं को पढ़ लेने पर मैंने महर्षि वरतन्तु से जब गुरु-दक्षिणा लेने की प्रार्थना की तब उन्होंने बहुत दिनों तक नियमपूर्वक मेरे द्वारा की गयी गुरु-सेवा को ही श्रेष्ठ दक्षिणा समझा ॥ २० ॥

निबन्धसञ्जातरुषाऽर्थकार्श्यंमचिन्तयित्वा गुरुणाऽहमुक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१ ॥

अन्वयः— निर्बन्धसंजातरुषा गुरुणा अर्थकार्श्यम् अचिन्तयित्वा अहम् 'वित्तस्य चतस्रः दश च कोटीः मे आहर' इति विद्यापरिसंख्यया उक्तः ।

निबन्धेति । निर्बन्धेन प्रार्थनाऽतिशयेन सञ्जातरुषा सञ्जातक्रोधेन गुरुणा ।


१० र० सम्पू०

१४६ | रघुवंशमहाकाव्ये

मर्थकार्श्यं दारिद्र्यमचिन्तयित्वाऽविचार्याहम्। वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्मे मह्यमाहरानयेति विद्यापरिसंख्ययाऽनुसारेणैवोक्तः।

भावार्थ—बार-बार गुरुदक्षिणा के लिए आग्रह करने पर क्रुद्ध गुरु ने मेरी दरिद्रता पर ध्यान न दे कहा कि १४ विद्याओं के लिए १४ करोड़ द्रव्य लाकर दो ॥ २१ ॥

सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम्।
अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ २२ ॥

अन्वयः—सः अहम् सपर्याविधिभाजनेन भवन्तम् प्रभुशब्दशेषम् मत्वा श्रुतनिष्क्रयस्य अल्पेतरत्वात् सम्प्रति उपरोद्धुमन् अभ्युत्सहे।

सोऽहमिति। सोऽहं सपर्याविधिभाजनेनार्घ्यपात्रेण भवन्तं प्रभुशब्द एव शेषो यस्य तं मत्वा श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्त्वात्सम्प्रत्युपरोद्धुं निर्बन्धुं नाभ्युत्सहे।

भाषार्थ—पूजा में मृण्मय अर्घ्यपात्र के द्वारा ही आपको सर्वथा निर्धन जान कर गुरुदक्षिणा की अधिकता से अब आपसे कुछ कहने का साहस नहीं है। आप तो अब नाममात्र से सम्राट् हैं ॥ २२ ॥

इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ २३ ॥

अन्वयः—द्विजराजकान्तिः एनोनिवृत्तेन्द्रियवृत्तिः जगदेकनाथः वेदविदाम् वरेण द्विजेन इत्थम् आवेदितः सन् एनम् भूयः जगाद।

इत्थमिति। द्विजराजकान्तिश्चन्द्रकान्तिः। एनसः पापात्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेनेत्थमावेदितः सन् एनं कौत्सं भूयः पुनर्जगाद।

भाषार्थ—चन्द्रसमकान्ति निष्पाप, संसार के एकमात्र, स्वामी रघु कौत्स के यों कहने पर फिर बोले ॥ २३ ॥

गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्।
गतो वदान्यान्तरमित्ययं मे माभूत्परीवादनवावतार ॥ २४ ॥

अन्वयः—'श्रुतपारदृश्वा गुर्वर्थम् अर्थी रघोः सकाशात् कामम् अनवाप्य वदान्यान्तरम् गतः' इति अयम् मे परीवादनवावतारः मा भूत्।

गुर्वर्थमिति। श्रुतस्य पारं दृष्टवाञ्छ्रुतपारदृश्वा। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। रघोः सकाशात्कामं मनोरथममवाप्याप्राप्य वदान्यान्तरं दात्रन्तरं

गतः' इत्येवंरूपोऽयं परीवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु।

भाषार्थ—हे कौत्स ! 'सकलशास्त्रपारङ्गत गुरुदक्षिणाय चक, रघु के पास मनोरथ पूर्ण न होने पर दूसरे दाता के पास गये' यह निन्दा का नया अवतार न हो ॥ २४ ॥

स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ २५ ॥

अन्वयः—सः त्वम् महिते प्रशस्ते मदीये अग्न्यगारे चतुर्थः अग्नि इव वसन् द्वित्राणि अहानि सोढुम् अर्हसि अहं तावत् त्वदर्थम् साधयितुम् यते ।

स इति। स त्वं महिने पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन्द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि सोढुमर्हसि। हे अर्हन् ! मान्य ! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते ।

भाषार्थ—अतः मेरी परम पवित्र अग्निशाला में चतुर्थ अग्नि के समान दो या तीन दिन निवास करें, जब तक मैं आपकी कार्यसिद्धि के लिए प्रयत्न करूँ ॥ २५ ॥

तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्सङ्गरमग्रजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६ ॥

अन्वयः—अग्रजन्मा प्रतीतः सन् तस्य अवितथम् सङ्गरम् इति प्रत्यग्रहीत्, तथा रघु अपि गाम् आत्तसाराम् अवेक्ष्य कुबेरात् अर्थम् निष्क्रष्टुम् चकमे ।

तथेतीति । अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः संस्तस्य रघोरवितथममोघं सङ्गरं प्रतिज्ञाम् । 'तां गिरम्' इति केचित्पठन्ति । तथेति प्रत्यग्रहीत् । रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुवेरार्थं निष्क्रष्टुमाहर्तुं चकम इयेष ।

भाषार्थ—ब्राह्मण कौत्स ने प्रसन्न हो रघु की अव्यर्थ प्रतिज्ञा को स्वीकार किया। इधर महाराज रघु ने भी पृथ्वी को सारहीन समझ कुबेर से धन लेने की इच्छा की । २६ ॥

वसिष्ठमन्त्रोक्षणजातप्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने नहि तद्रथस्य ॥ २७ ॥

अन्वयः—वसिष्ठमन्त्रोक्षणजात् प्रभावात् उदन्वदाकाशमहीधरेषु मरुत्सखस्य बलाहकस्य इव तद्रथस्य गतिः न हि विजघ्ने ।

१४८ रघुवंशमहाकाव्ये

वसिष्ठेनेति। वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जातप्रभावात्सामर्थ्याद्धेतोः। उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा। मरुत्सखस्य मरुतः सखेति तत्पुरुषः ; ततो वायुसहायस्येति लभ्यते। वारीणां वाहको बलाहकः तस्येव मेघस्येव। तद्रथस्य गतिः सञ्चारो न विजघ्ने न विहता हि।

**भाषार्थ—**जैसे वायु की सहायता से मेघ की गति सर्वत्र हो जाती है वैसे ही महर्षि वसिष्ठ के मन्त्रों से अभिमन्त्रित जल के प्रोक्षण से उत्पन्न सामर्थ्य से महाराज रघु की गति भी कहीं भी नहीं रुकती थी ॥ २७ ॥

अथाधिशिश्ये प्रयततः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ २८ ॥

**अन्वयः—**अथ प्रदोषे प्रयत: वीर रघुः सामन्तसम्भावनया एव कैलाशनाथम् तरसा जिगीषुः सन् कल्पितशस्त्रगर्भम् रथम् अधिशिश्ये।

अथेति। अथ प्रदोषे रजनीमुखे। तत्काले यानाधिरोहणविधानात्। प्रयतो धीरो रघुः। समन्ताद्भवः सामन्तः। राजमात्रमिति सम्भावनयैव कैलासनाथं कुबेरं तरसा बलेन जिगीषुर्जेतुमिच्छुः सन्। कल्पितं सज्जितं शस्त्रं गर्भे यस्य तं रथमधिशिश्ये। रथे शयितवानित्यर्थः।

**भाषार्थ—**इसके बाद धैर्यशाली रघु साधारण राजा के समान तैयार हो कुबेर को जीतने की इच्छा से शुभ मुहूर्त होने के कारण सायंकाल में ही सशस्त्र रथ में सो गये ॥ २८ ॥

प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः ।
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ २६ ॥

**अन्वयः—**प्रातः प्रयाणाभिमुखाय तस्मै कोषगृहे नियुक्ताः जनाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तः पतिताम् हिरण्मयीम् वृष्टिम् शशंसुः।

प्रातरिति। प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः पतितां हिरण्मयीं सुवर्णमयीम्। वृष्टिं शशंसुः कथयामासुः।

**भाषार्थ—**प्रातःकाल राजा रघु प्रस्थान के लिए ज्यों ही उद्यत हुए, त्यों ही आश्चर्यचकित राजकोश रक्षकों ने सूचना दी कि कोशगृह में आकाश से सुवर्ण की वर्षा हुई है ॥ २९ ॥

तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ३० ॥

पंचमः सर्गः १४९

अन्वयः—भूपतिः अभियास्यमानात् कुबेरात् लब्धम् वज्रभिन्नम् सुमेरोः पा-
दम् इव स्थितम् तम् भासुरहेमराशिम् समस्तम् एव कौत्साय दिदेश ।

तमिति । भूपतिः रघुः । अभियास्यमानादभिगमिष्यमाणात्कुबेराल्लब्धम् । कुलिशेन सुमेरोः पादं प्रत्यन्तपर्वतमिव स्थितम् । 'शृङ्गम्' इति क्वचित्पाठः । तं भासुरं भास्वरम् । हेमराशि समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ ।

भाषार्थ — युद्ध के लिए चढ़ाई किए जाने वाले कुबेर से वृष्टि द्वारा प्राप्त चमकती हुई सुवर्ण राशि रघु ने कौत्स ऋषि को दे दी। जो कि वज्र से काट कर गिराये हुए सुमेरु के टुकड़े के समान दिखती थी ॥ ३० ॥

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥ ३१ ॥

अन्वयः—तौ द्वौ अपि साकेतनिवासिनः जनस्य अभिनन्द्यसत्त्वौ अभूताम् । गुरुप्रदेयाधिकनिःस्पृहः अर्थी, अर्थिकामात् अधिकप्रदः नृपः च ।

जनस्येति । तावर्थिदातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः । जनस्याभिनन्द्यसत्त्वं स्तुत्यव्यवसायावभूताम् । कौ द्वौ ? गुरुप्रदेयाधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी । अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्तः । नृपश्च ।

भाषार्थ—उस समय अयोध्यानिवासी याचक कौत्स और दाता रघु दोनों की सराहना करने लगे । इधर तो कौत्स गुरुदक्षिणा से अधिक एक कौड़ी भी लेना नहीं चाहते थे और उधर रघु वह समस्त धन कौत्स को देने के लिए इच्छुक थे ॥ ३१ ॥

अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाचमुवाच कौत्सः ॥ ३२ ॥

अन्वयः—अथ प्रीतमनाः महर्षिः कौत्सः सम्प्रस्थितः सन् उष्ट्रवामीशतवाहितार्थम् आनतपूर्वकायम् प्रजेश्वरम् करेण स्पृशन् वाचम् उवाच ।

अथेति । अथ प्रीतमना महर्षिः कौत्सः सम्प्रस्थितः सम्प्रस्थास्यमानः सन् । उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थं प्रापितधनमानतपूर्वकायम्। विनयनम्रं प्रजेश्वरं करेण स्पृशन्वाचमुवाच ।

भाषार्थ—इसके बाद परम प्रसन्न कौत्स ऋषि प्रस्थान करते हुए सैकड़ों ऊँटों खच्चरों से धन को पहुँचा देने का प्रयत्न करने वाले, मस्तक झुकाये हुए रघु पर हाथ फेरते हुए यों बोले ॥ ३२ ॥

किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ ३३ ॥

१५० रघुवंशमहाकाव्ये

**अन्वयः—**वृत्तेः स्थितस्य प्रजानाम् अधिपतेः भूः कामसूः यदि, अत्र चित्रम् किम् तु तव प्रभावः अचिन्तनीयः येन द्यौः अपि मनीषितम् दुग्धा ।

किमिति । वृत्तेः स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामात्सूत इति कामसू-र्यदि । अत्र कामप्रसवने किं चित्रम् । न चित्रमित्यर्थः किन्तु तव प्रभावो महिमा त्वचिन्तनीयः । येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा ।

**भाषार्थ—**राजकार्य में तत्पर रहने वाले आप की पृथ्वी यदि मनोऽनुकूल वस्तुओं को उत्पन्न करती हो तो आश्चर्य नहीं क्योंकि आपका प्रभाव अचिन्तनीय है जिससे आपने इच्छानुसार स्वर्ग को भी दुह लिया है ॥ ३३ ॥

आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ ३४ ॥

**अन्वयः—**सर्वाणि श्रेयांसि अधिजग्मुषः ते अन्यत् आशास्यम् पुनरुक्तभूतम् ( अस्ति ) किन्तु ईडचम् भवन्तम् भवतः पिता इव त्वम् अपि आत्मगुणानुरूपम् पुत्रम् लभस्व ।

आशास्यमिति । सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत्पुत्रातिरिक्तमाशास्यमाशीःसाध्यमाशंसनीयं वा पुनरुक्तभूतम् । सर्वसिद्धमित्यर्थः । किन्त्वीड्यं स्तुत्यं भवतः पितेवात्मगुणानुरूपम् त्वया तुल्यगुणं पुत्रं लभस्व प्रप्नुहि ।

**भाषार्थ—**सर्वकल्याणभोगी आपको अन्य आशीर्वाद देना व्यर्थ है । जैसे पिता ने तुल्यगुण आपको प्राप्त किया । उसी तरह आप भी अपने समान गुणवाले पुत्र को प्राप्त करें ॥ ३४ ॥

इत्थम् प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजाऽपि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥ ३५ ॥

**अन्वयः—**अग्रजन्मा इत्थम् राज्ञे आशिषम् प्रयुज्य गुरोः सकाशम् प्रतीयाय राजा अपि जीवलोकः अर्कात् आलोकम् इव तस्मात् आशु सुतम् लेभे ।

इत्थमिति । अग्रजन्मा ब्राह्मणः । इत्थं गज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप । राजाऽपि । जीवलोको जीवसमूहः । अर्कादालोकं प्रकाशमिव । शीघ्रम् । 'चैतन्यम्' इति पाठे ज्ञानम् । तस्मादृषेराशु सुतं लेभे प्राप ।

**भाषार्थ—**कौत्सरऋषि यों रघु को आशीर्वाद देकर अपने गुरु के पास चले गये उधर राजा रघु ने भी थोड़े दिनों में आशीर्वाद के प्रभाव से पुत्र प्राप्त किया जैसे मनुष्यगण सूर्य से प्रकाश पाता है ॥ ३५ ॥

ब्राह्मे मुहूर्त्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ३६ ॥

पञ्चमः सर्गः १५१

**अन्वयः—**तस्य देवी ब्राह्मे मुहूर्ते किल कुमारकल्पम् कुमारम् सुषुवे, अतः पिता ब्रह्मणः एव नाम्ना तम् आत्मजन्मानम् अजम् चकार ।

ब्राह्म इति । तस्य रघोर्देवी महिषी ब्राह्मे ब्रह्मदेवताकेऽभिजित्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम् । कुमारं पुत्रं सुषुवे । अतो ब्राह्ममुहूर्तोत्पन्नत्वात्पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमजमज-नामकं चकार ।

**भाषार्थ—**रघु की रानी ने ब्राह्म मुहूर्त में कार्तिकेय के समान पुत्र उत्पन्न किया। इसलिए पिता रघु ने ब्रह्मा के ही नाम से उस पुत्र का नाम अज रखा ॥ ३६ ॥

रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ३७ ॥

**अन्वयः—**ओजस्वि रूपम् तत् एव, वीर्यम् तत् एव, नैसर्गिकम् उन्नतत्वम् तत् एव आसीत्, कुमारः प्रदीपात् प्रवर्तितः दीपः इव स्वात् कारणात् न विभिदे ।

रूपमिति । ओजस्वि तेजस्वि बलिष्ठं वा । रूपं वपुः तदेव पैतृकमेव वीर्यं शौर्यं तदेव । नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव । कुमारो बालकः । प्रदीपात् स्वोत्पादकदीपादिव । स्वात्स्वकीयात् । कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्।

**भाषार्थ—**कुमार अज का वही पितृ तुल्य तेजोयुक्त रूप वही पराक्रम वही स्वाभाविक ऊँचाई थी जैसे एक दीपक से जलाया गया दूसरा दीपक उससे भिन्न नहीं होता वैसे ही अपने पिता से अज भिन्न नहीं थे ॥ ३७ ॥

उपात्तविद्यं विधिवद् गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः साभिलाषाऽपि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ ३८ ॥

**अन्वयः—**गुरुभ्यः विधिवत् उपात्तविद्यम् यौवनोद्भेदविशेषकान्तम् तम् प्रति साभिलाषा अपि श्रीः धीरा कन्या पितुः इव गुरोः अनुज्ञाम् आचकाङ्क्ष ।

उपात्तेति । गुरुभ्यो विधिवद्यथाशास्त्रमुपात्तविद्यं लब्धविद्यम् । यौवनस्यो-द्भेद्यादाविर्भावाद्धेतोर्विशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषाऽपि श्रीः धीरा स्थिरोन्नतचित्ता । कन्या पितुरिव । गुरोरनुज्ञामाचकाङ्क्षेयेष । यौवराज्यार्होऽ-भूदित्यर्थः ।

**भाषार्थ—**विधिवत् विद्याध्ययन के बाद युवा अवस्था से अत्यन्त सुन्दर उस अज को वरण करने में राजलक्ष्मी रघु की आज्ञा की प्रतीक्षा कर रही थी जैसे कोई कन्या अभिलषित वर के प्रति पिता की आज्ञा की प्रतीक्षा करती हो ।

१५२ रघुवंशमहाकाव्ये

अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्यतः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ ३६ ॥

अन्वयः—अथ स्वसुः इन्दुमत्या स्वयंवरार्थम् कुमारानयनोत्सुकेन क्रथकैशिकानाम् ईश्वरेण भोजेन आप्तः दूतः रघवे विसृष्टः ।

अथेति । अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुक्रेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण भोजेन राज्ञाऽऽप्तो हितोदूतो रघवे विसृष्टः प्रेषितः ।

भाषार्थ—इसके बाद विदर्भराज भोज ने अपनी बहन इन्दुमती के स्वयम्बर में युवराज अज को बुलाने की इच्छा से अपने विश्वासपात्र दूत को रघु के पास भेजा ॥ ३९ ॥

तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।
प्रस्थापयामास ससैन्यमेन मृद्धां विदर्भाधिपराजधानीम् ॥ ४० ॥

अन्वयः—असौ तम् श्लाघ्यसम्बन्धम् विचिन्त्य पुत्रम् च दारक्रियायोग्यदशम् विचिन्त्य ससैन्यम् एनम् ऋद्धांम् विदर्भाधिपराजधानीम् प्रति प्रस्थापयामास ।

तमिति । असौ रघुस्तं भोजं श्लाघ्यसम्बन्धमनूचानत्वादितृणयोगात्स्पृहणी-सम्बन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धां समृद्धां विदर्भाधिपस्य भोजस्य राजधानीं पुरीं प्रति प्रस्थापयामास । धीयतेऽस्यामिति धानी ।

भाषार्थ—रघु ने विदर्भराज भोज के साथ सम्बन्ध करना उचित समझ और पुत्र अज की अवस्था को भी विवाह योग्य विचार कर सेनासहित युवराज अज को समृद्धिमान् विदर्भ की राजधानी की ओर भेजा ॥ ४० ॥

तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ ४१ ॥

अन्वयः—उपकार्यारचितोपचाराः जानपदोपदाभिः वन्येतराः तस्य मनुजेन्द्रसूनोः मार्गे निवासाः उद्यानविहारकल्पाः बभूवुः ।

तस्येति । उपकार्यासु राजयोग्येषु पटभवनादिषु । उपक्रियते उपकरोति वा पटमण्डपादि राजसदनमिति । रचिता उपचाराः शयनादयो येषु ते तथोक्ताः । जानपदानां जनपदेभ्यं आगतानामुपदाभिरुपायनैः वन्या वनेभवा इतरे येषां ते वन्येतराः । अवन्या इत्यर्थः । तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः । तान्येव विहारा विहारस्थानानि तत्कल्पाः तत्सदृशाः बभूवुः ।

पञ्चमः सर्गः १५३

**भाषार्थ—**मार्ग में बने हुए उस अज के विश्रामस्थल राजधानी के उद्यानों में बने हुए विहारों के समान ही सुन्दर थे, क्योंकि वहाँ तम्बुओं के अन्दर शय्या आदि बिछी हुई थी और उपहार एवं सुख साधन मौजूद थे, जो जंगल में बने हुए नहीं ज्ञात होते थे ॥ ४१ ॥

स नर्मदारोधसि सीकराद्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा क्लान्तं रजोघूसरकेतु सैन्यम् ॥ ४२ ॥

**अन्वयः—**विलङ्घिताध्वा सः सीकराद्रैः मरुद्भिः आनर्तितनक्तमाले नर्मदा-रोधसि क्लान्तम् रजोघूसरकेतु सैन्यम् निवेशयामास ।

सेति । विलङ्घिताध्वाऽतिक्रान्तमार्गः सोऽजः सीकराद्रैः । शीतलैरुित्यर्थः । मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः । यस्मिंस्तस्मिन् । नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ।

**भाषार्थ—**यात्रा समाप्त करके अज ने जलार्द्र, वायुकम्पित, करंज वृक्ष वाले नर्मदा नदी के किनारे पर धूल से धूसरित पताका वाली थकी हुई अपनी सेना को ठहराया ॥ ४२ ॥

अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्धः सरित्तो गज उन्ममज्ज ॥ ४३ ॥

**अन्वयः—**अथ उपरिष्टात् भ्रमद्भिः भ्रमरैः प्राक्सूचितान्तःसलिलप्रवेशः निर्धौत-दानामलगण्डभित्तिः वन्यः गजः सरित्तः उन्ममज्ज ।

अथेति । अथोपरिष्टादूर्ध्वम् । मदलोभादिति भावः । भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तःसलिले प्रवेशो यस्य स तथोक्तः । निर्धौतदाने क्षालितमदे अत एवामले गण्डभित्ती यस्य स तथोक्तः। प्रशस्तो गण्डो गण्डभित्ती । निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा । वन्योगजः सरित्तो नर्मदाया सकाशात् उन्मज्ज्योत्थितः।

**भाषार्थ—**सेनाविश्रामानन्तर नर्मदा से एक जंगली हाथी निकला । पानी के ऊपर मद के लोभ से मंडराते हुए भौंरों से जल में डुबकी लगाने का अनुमान हो रहा था और उसके कपोल पानी से घुलकर निर्मल हो गये थे ॥ ४३ ॥

निःशेषविक्षालितधातुनाऽपि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ ४४ ॥

**अन्वयः—**निःशेषविक्षालितधातुना अपि नीलोर्ध्वरेखाशबलेन अश्मविकुण्ठितेन दन्तद्वयेन ऋक्षवतः तटेषु वप्रक्रियाम् शंसन् बभौ ।

१५४रघुवंशमहाकाव्ये

निःशेषेति । कथम्भूतो गजः । निःशेषविक्षालितधातुनाऽपि धौतगैरिकादि-नाऽपि । नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्बुरेण । अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन । ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः । तस्य तटेषु वप्रक्रियां वप्रक्रीडाम् । उत्खातकेलिमित्यर्थः । शंसन्कथयन् । सूचयन्नित्यर्थः । युग्मम् ।

**भावार्थ—**जल मे डूबकर स्नान करने से जिसके गैरिकादि धातु घुल गये थे और पर्वत के तट पर प्रहार करने से ऊपर की तरफ काली रेखाओं चितकबरे एवं पत्थरों से टूटे नोक दातों से ऋक्षवान् नामक पर्वत के तट प्रान्तों में पत्थरों के लिये हुए दातों से उत्पादन क्रिया को सूचित करता हुआ वह गज नर्मदा से निकला ॥ ४४ ॥


संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
वभौ स भिन्दन्बृहतस्तरङ्गान् वार्यंगंलासङ्ग इव प्रवृत्तः ॥ ४५ ॥

**अन्वयः—**संहारविक्षेपलघुक्रियेण हस्तेन सशब्दम् बृहतः तरङ्गान् भिन्दन् तीराभिमुखः सः वार्यर्गलाभङ्गे प्रवृत्तः इव वभौ ।

संहारेति । संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण । हस्तेन शुण्डादण्डेन । सशब्दं सघोषं बृहतस्तरङ्गान्‍भिन्दन् विदारयन् तीराभिमुखः स गजः । वारी गजबन्धनस्थानम् । वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव वभौ ।

**भाषार्थ—**जल्दी २ बटुरते और फैलते हुए सूड से बड़े २ तरंगों को चीरता और चीघारता हुआ नर्मदा के तीर की तरफ वह हाथी शृङ्खला तोड़ने में लगा हुआ जान पड़ता था ॥ ४५ ॥


शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ४६ ॥

**अन्वयः—**शैलोपमः सः शैवलमञ्जरीणाम् जालानि उरसा कर्षन् पश्चात् तटम् उत्ससर्प, पूर्वम् तदुत्पीडितवारिराशिः सरित्प्रवाहः तटम् उत्ससर्प ।

शैलेति । शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कार्षन्पश्चात्तटमुत्ससर्प । पूर्वं तेनं गजेनोत्पीडितो नुन्नो वारिराशिर्यंस्य स सरित्प्रवाहस्तटमुत्ससर्पं ।

**भाषार्थ—**पर्वतोपम वह हाथी सेवाल की लताओं को अपने वक्षःस्थल से छिन्न-भिन्न करता हुआ पीछे से तीर पर पहुँचा, किन्तु उससे पूर्व ही उसके चलने से क्षुभित तरंग नर्मदा का प्रवाह तट पर पहुँच गया ॥ ४६ ॥